सनकः ---
मुने! सम्यक् समाख्यातं सुदर्शननृसिंहयोः।
पूर्वापरमुखं यन्त्रं नानामन्त्रार्णपूरितम् ॥१॥
मध्यमारभ्य मन्त्राणां साङ्गानां लक्षणं परम्।
न्यासार्थमर्चनार्थं च समाचक्ष्व यथाक्रमम् ॥२॥
शाण्डिल्यः ---
साधु पृष्टं त्वया प्राज्ञारहस्याम्नायलक्षितम्।
सनक! त्वं श्रृणुष्वात्र मन्त्रजातं यथास्थितम् ॥३॥
संकर्षणात् पुरा तुष्टाच्छंकरेण मयाऽपि च।
हिताय सर्वलोकानां यन्त्ररूपं गुणोत्तरम् ॥४॥
सुगुप्ते भूतले शुद्धे वर्णचक्रं परिस्तरेत्।
अकारादिक्षकारान्तं सर्वार्णमयरूपिणम् ॥५॥
स्वक्षनाभ्यरनेमीभिः प्रथिभिश्चाप्यलंकृतम्।
कारणं सर्वमन्त्राणां अक्षे प्रणवमालिखेत् ॥६॥
अकाराद्या विसर्गान्ताः स्वरा नाभ्यङ्गमाश्रिताः।
ककारादीनि भान्तानि तदराणां त्रिरष्टके ॥७॥
मादिहान्तानि नेमौ तु क्षार्णं प्रथिगणे स्थितम्।
शब्दब्रह्नमयं चक्रं पुरा वर्णगणं ततः ॥८॥
प्रणवाद्यैर्नमोन्तैश्च संज्ञाभिः क्रमशस्ततः।
विन्यस्य मातृकायन्त्रं स्वं देवं विधिवद्गुरुः ॥९॥
समभ्यर्च्यार्घ्यपुष्पाद्यैर्मातृकामन्त्रविग्रहम्।
ततः समुद्धरेन्मन्त्रान् सर्वाभिमतसिद्धिदान् ॥१०॥
जेतुं शक्ताऽऽत्मनो यातु सृष्टिस्थितिलयोन्मुखी।
कियाशक्तिः समुद्दिष्टा संकल्पजननी पुरा ॥११॥
कालरूपमधिष्ठाय तयैतद्बृंहितं जगत्।
कालचक्रं जगज्जक्रं तस्मात् सौदर्शनं वपुः ॥१२॥
तमधिष्ठाय सा शक्तिर्जीवभूता व्यवस्थिता।
विनाकृतं तया सर्वमसत्कल्पमिदं भवेत् ॥१३॥
तस्मात् समुद्धरेच्छक्तिमग्नीषोमसमप्रभाम्।
अक्षाधारां तु वै नित्यामनाद्यन्तां च वैष्णवीम् ॥१४॥
पूर्वं नेम्यन्तिमद्वन्द्वं तदाद्यं सानलद्वयम्।
नाभितुर्यान्तिमद्वाभ्यां पिण्डमेतदलंकृतम् ॥१५॥
सौदर्शनमहाशक्तिः सर्वसिद्धिप्रदायिनी।
जीवभूता षडर्णस्य प्रकाशानन्दरूपिणी ॥१६॥
हृदयाद्यङ्गसिध्यर्थं पिण्डमेतत् स्वरोज्झितम्।
दीर्घैराद्यैस्त्रिभिश्चान्त्यैर्भेदयेन्नेत्रपश्चिमम् ॥१७॥
प्रणवादीनि चैतानि कुर्याद्वै हृदयादिभिः।
नमः स्वाहा वषड्ढुंफट्वौषड्भिर्जातिभिः सह ॥१८॥
कमान्नियोजनीयानि विज्ञानादिगुणैः सह।
शक्तेः प्रकृतिरूपस्य षडर्णस्योद्धृतिं श्रृणु ॥१९॥
पूर्ववत् समुपाहृत्य चान्तिमे द्वयमन्तिमम्।
तत्राष्टं सतृतीयं स्यात् सार्णं(यान्त्यं)सान्त्यंततोन्तिमम् ॥२०॥
सपञ्चमस्वरं तच्च कुर्यान्नेभ्याद्यभूषितम्।
पश्चादेकादशारार्णयुक्तं तद्द्विगुणारगम् ॥२१॥
अन्त्यार्णमविमुक्तं तु कुर्यात् पञ्चमषष्ठयोः।
अयं सौदर्शनो मन्त्रः षडर्णः समुदीरितः ॥२२॥
तृतीयः पञ्चमः षष्ठः प्रत्येकं त्र्यक्षरः स्मृतः।
अन्येऽवर्णसमोपेता वर्णाः स्युर्द्व्यक्षरास्त्रयः ॥२३॥
एष कालात्मनो विष्णोर्विश्वरूपस्य वाचकः।
सतारया च शक्त्यायमष्टार्णः परिकीर्तितः ॥२४॥
क्षेत्रक्षेत्रज्ञयुक्त्या तु यथा प्रकृतिगः पुमान्।
स्थूलस६क्ष्मात्मको ध्येयस्तथा सौदर्शनो हरिः ॥२५॥
दर्शनं परतत्वस्य स्यात्तदाख्यानदर्शनम्।
तन्निष्ठानामिदं नित्यमज्ञानतिमिरापहम् ॥२६॥
छिनत्ति संशयं तेषां समु(दु)पायप्रवृत्तये।
रूपान्तरमिदं तस्य संशयच्छेदकारिणः ॥२७॥
नूनं वर्णाश्रमाचारनिष्ठानामाननेन तु।
भिनत्ति दूषकान् जन्तून् स्वकविद्याप्रभावतः ॥२८॥
लाञ्छितानामनेनाशु भक्तानां भावितात्मनाम्।
करस्थो विजयस्तु स्यादिह लोके परत्र च ॥२९॥
किं पुनर्विषये यन्त्रे स्थापिते पूजिते सति।
मुने! मन्त्रप्रभावोऽयमेवमुक्तः परन्तप! ॥३०॥
लक्षणं हृदयाद्यस्य मन्त्रस्यास्य क्रमाच्छृणु।
प्रागेव हृदयादीनां मन्त्रार्णानि यथाक्रमम् ॥३१॥
विन्यसेद्बीजभूतानि तारान्ते बिन्दुना ततः।
आविसूनां क्रमादन्ते तथा सूर्याक्षरद्वयात् ॥३२॥
महासुदर्शनज्वालापदयोरन्तिमेऽपि च।
चक्रायेति पदं षोढा शिरोन्तं योजयेत् क्रमात् ॥३३॥
विज्ञानादिगुणौपेतैः तुर्यान्तैर्हृदयादिभिः।
नमः स्वाहादिजात्यन्तैः प्रागुक्तविधिना लिखेत् ॥३४॥
ध्येयान्याकारवर्त्तीनि बोगस्थानेषु मूलवत्।
वर्णभूषणवस्त्रास्त्रभुजसंस्थानचेष्टितैः ॥३५॥
वर्मास्त्रेज्ञेयमन्त्रस्य चरमार्णद्वयं स्मृतम्।
नमो नारायणायेति स्यादष्टार्णं सतारकम् ॥३६॥
अस्य साङ्गान्युपाङ्गानि मन्त्रार्णैर्बिन्दुभुषितैः।
चरमार्णेन शेषाणि चरणान्तान्यपि क्रमात् ॥३७॥
गुणैश्च हृदयाद्यैश्च तुर्याद्यैर्जातिभिस्सह।
स्वरूपं षोडशार्णस्य मन्त्रस्य प्रागुदीरितम् ॥३८॥
हृदयादिपदान्तानि कल्पनीयानि पूर्ववत्।
तत्र द्वादशमं बीजं हुंफट्स्वाहान्त मुच्चरेत् ॥३९॥
विभोर्वराहवक्त्रस्य मन्त्रमानुष्टुभं श्रृणु।
स्वराद्यं पञ्चमं वर्णमेकीभूतं समं पुरा ॥४०॥
प्राग्वर्णमेवमुद्धृत्य जातिमाद्यां समाहरेत्।
अरान्तं तत् तृतीयं च तदन्ते नेमिपञ्चमम् ॥४१॥
नाभ्येकादशमोपेतमरषोडशकं ततः।
वराहरूपाय पदं तदूर्ध्वं व्याहृतित्रयम् ॥४२॥
पतये पदमन्तेऽस्य भूपतित्वमनन्तरम्।
मे देहीति ततः पश्चाद्दापयेति पदं ततः ॥४३॥
शिरसा सह मन्त्रोऽयं द्वात्रिंशार्णः प्रकीर्तितः।
अङ्गानि कल्पयेदस्य विभक्तैः पञ्चधा पदैः ॥४४॥
क्रमशः सप्तभिः षड्भिः सप्तभिश्चाथ सप्तभिः।
पञ्चभिर्वर्ण संभूतैः प्रणवाद्यैर्गुणोत्तरैः ॥४५॥
हृदयाद्यस्त्रपर्यन्तैस्तुर्यान्तैर्जातिभिः सह।
अङ्गक्लृप्तिरियं प्रोक्ता मन्त्रस्यास्य सुलोचन! ॥४६॥
शक्तिः स्वाहास्य भूर्बीजं परिज्ञेयं ततोपरि।
मन्त्रं नृसिहरूपस्य प्राक्सङ्ख्यार्णं समुच्चरेत् ॥४७॥
पुरो दयाद्यं अग्रान्तं नाभ्यर्णान्ताद्यसंयुतम्।
कवीनां मध्यमं, पूर्वं रमायाः, संमतान्तरम् ॥४८॥
स्वाहान्तं, विष्टराद्यं च, कृष्णान्तं चोरुपूर्वकम्।
नाभिपञ्चदशार्णेन संयुतं, तदनन्तरम् ॥४९॥
पूजान्तं, लोर्घ्वकं वाद्यमनन्तान्तं सबिन्दुकम्।
सहस्राद्यं, अपूर्वान्तं, सर्वतोन्तमतः परम् ॥५०॥
मुकुटाद्यं, मुखान्तं च, नेम्याद्यर्णसन्वितम्।
किन्नरान्तरमादाय ऋछयाद्यर्णोपरि स्थितम् ॥५१॥
अस्यन्तं, बिन्दुसंयुक्तं, हरेराद्यं, समं, ततः।
गंभीरमध्यं धिषणमध्यमं कर्षणान्तिमम् ॥५२॥
नाभ्यन्ताद्येन संयुक्तं, ततो भद्राद्यमेव च।
उन्निद्रान्तमनुस्वारं अमृताभ्यन्तरं, द्विधा ॥५३॥
तयोरन्तेऽमृतान्तं स्यात् वायुं तस्योपरि स्थितम्।
ततोऽन्नान्त्यं रमान्तं च रम्यान्तं हं समुद्धरेत् ॥५४॥
एवमानुष्टुभो मन्त्रः कीर्तितो नृहरेः परः।
पञ्चमं सस(त)कान्ताद्यं बीजमस्य प्रकीर्तितम् ॥५५॥
शक्तिश्चैवं सविज्ञेयमिन्दुपूर्वं सबिन्दुकम्।
पादैश्चतुर्भिः, सर्वैश्च प्रणवाद्यैरनुक्रमात् ॥५६॥
पञ्चाङ्गान्यस्य मन्त्रस्य हृदयादीनि कल्पयेत्।
पादान्ते योजयेदेताननन्तात्मन; उच्यते ॥५७॥
ततः प्रियात्मने इति, ज्योतिरात्मने इत्यपि।
तुर्यो मायात्मने इति मन्त्रे चन्द्रात्मने पदम् ॥५८॥
ज्ञानादिहृदयादीनि जात्यन्तानि यथापुरा।
पाताळनृहरेर्मन्त्रश्चाष्टाष्टाक्षर उच्यते ॥५९॥
क्रमात् स्वरान्तपूर्वाभ्यां युक्तं प्रथ्यर्णमुच्चरेत्।
अरद्विदशकं पश्चात् नेम्याद्यं प्रोतमोस्वरात् ॥६०॥
अरान्तं च तृतीयं च तदन्ते नेमिपञ्चमम्।
नाभ्येकादशमोपेतमक्षरं षोडशारगम् ॥६१॥
[बिन्दुयुक्तं ततः शान्तहरेरेखाभिरन्वितम्।
कुशेशयान्तमग्नीति च तदन्ते नेत्र पूर्वकम् ॥६२॥
त्रातुराद्यं यशाद्यं च साद्यं पर्वतमध्यमम्।
अष्टारभं समादाय नेमिपञ्चकसंस्थितम् ॥६३॥
रविनेमिपदं पश्चाच्छान्ताद्यं यमलादिकम्।
द्विनवारं च सान्तं च द्वयमेतद्विधोच्चरन् ॥६४॥
अरैकविंशं षष्ठं च द्विकमेतत्तथोच्चरन् ॥६५॥
नेमितृतीयमक्षान्तं भवेतां पूर्ववद्द्विधा ॥६६॥]
क्रमेण भूषयेदेतमन्ते वर्मास्त्रशीर्षकैः ॥६७॥
पाताळनृहरेर्मन्त्रः चतुष्षष्ट्यर्णकः स्मृतः ॥६८॥
बीजमाद्यक्षरं प्रोक्तं शक्तिः स्वाहा च सानुगा ॥६९॥
अङ्गानि कल्पयेत् क्षार्णैः पूर्ववत् स्वरभूषितैः ॥७०॥
अन्ते बिन्दुसमोपेतैः प्रणवाद्यैरनुक्रमात् ॥७१॥
ज्ञानाद्यस्त्रावसानैश्च तुर्यान्तैर्हृदयादिभिः ॥७२॥
पूर्ववत् समुपेतानि नमः स्वाहेति जातिभिः ॥७३॥
नारसिंहमथाष्टार्णमन्त्रं सर्वार्थसिद्धिदम् ॥७४॥
नमसः प्रणवाद्यस्य नरेत्यर्णमथान्तिमे।
सिंहायेति पदान्तोऽयं नृसिंहाष्टार्ण ईरितः ॥७५॥
क्षौं बीजमस्य नाभ्यर्णस्तृतीयः शक्तिरुच्यते।
कल्पयेद्धृदयादीनि बीजेनैव यथा पुरा ॥७६॥
क्रमशः केशवादीनां मन्त्राणां लक्षणं श्रृणु।
नवमं चाष्टमं नेमावराद्यं मातृकान्तिमम् ॥७७॥
त्रिधैकैकं क्रमात् कृत्वा बीजद्वादशकं यथा।
पौनः पुन्येन सर्वेषां यलवान् योजयेदधः ॥७८॥
नाभिषष्ठस्वरोर्ध्वस्थानङ्कयेद्विन्दुनोपरि।
तारादिहृदयान्तानि संज्ञाभिस्तुर्यया सह ॥७९॥
केशवः प्रथमो वाच्यस्ततो नारायणः परः।
माधवश्चैव गोविन्दो विष्णुश्च मधुसूदनः ॥८०॥
त्रिविक्रमो वामनाख्यः श्रीधरः पझलोचनः।
हृषीकेशः पझनाभो दामोदर इति श्रुतः ॥८१॥
बीजैर्दीर्घस्वरोपैतैः प्राग्वदङ्गानि कल्पयेत्।
तेषां श्रियादिकान्तानां श्रृणु मन्त्राननुक्रमात् ॥८२॥
मातृकान्तय्त्रयं क्षाद्यं चतुर्धा प्रस्तेरत् पुरा।
विष्वक्सुयोज्यान्यर्णानि त्वधोभागे यथाक्रमम् ॥८३॥
अग्न्यम्बुपृथिवीवारिवर्ह्निभूज्वलना क्रमात्।
वारिद्वयं च सोमं च पार्थिवद्वितयं ततः ॥८४॥
योजयेदनलं वर्णं षट्सप्ताष्टसु मूर्धनि।
अधोनवद्वादशयोः सर्वेषां चोर्ध्वतः पुनः ॥८५॥
स्वरशक्त्या समेतेन नाभ्यन्ताद्येन भूषयेत्।
स्वरजात्यादियुक्तानि बीजानि हृदयादयः ॥८६॥
बहिश्चक्रगदाशार्ङ्गखड्गाद्यैर्दिक्षु भेदिताः।
विष्णवो वासुदेवाद्या एतेषां वाचकान् श्रणु ॥८७॥
आद्ये चान्ते स्वरे नाभौ समुद्धृत्य सतारके।
पूर्वे चक्रधरायेति संज्ञया विष्णवे नमः ॥८८॥
अन्ये गदाधरायेति तृतीये शार्ङ्गधारिणे।
खङ्गधारिण इत्यन्ते चतुर्थस्य नियोजयेत् ॥८९॥
द्विषट्कार्णेन चोद्दिष्टा विष्णऊनां वाचकाः पृथक्।
साङ्गान्युपाङ्गान्येतेषां मन्त्राद्यैः प्राग्वदाचरेत् ॥९०॥
बीजानि यानि विष्णूनां विलोमेन स्वरान्तिमान्।
तान्युक्तानि हृषीकेशव्यूहानां समुदीरिताः ॥९१॥
जनार्धनानां वक्ष्यन्ते मन्त्राः प्राच्यानलान्तरात्।
इकारादीनि चत्वारि चैकारादीन्यनुक्रमात् ॥९२॥
कुर्यात् प्रणवपूर्वाणि तेषामन्ते यथा पुरा।
पूर्वं दण्डधरायेति सर्वेषां नमसा न्यसेत् ॥९३॥
हृदादिचरणान्तानि मन्त्रार्णैस्तु यथा पुरा।
नृसिंहक्रोडयोर्मन्त्रस्ते प्रागेव प्रदर्शितः ॥९४॥
अन्तस्थाश्च ततोष्टार्णो वर्णान्ते च स्वरा हलः।
सुप्रसिद्धाः समाख्यातास्त्वपराङ्गे निबोध तु ॥९५॥
सुदर्शनषडर्णस्य प्राक्स्थमर्णचतुष्टयम्।
पुराहृत्य ततः पश्चात्तन्नेत्राद्ये चलान्तिमे ॥९६॥
नेमिस्थं पञ्चमं व्रणं अरषोडशकोपरि।
नेमिनाभ्योस्तृतीये च वियोज्य तदनन्तरम् ॥९७॥
नेम्याद्यं सानलं हान्तं नाभ्यन्ता त्तद्द्वयाङ्कितम्।
पिण्डमेतन्नृसिंहस्य विद्द्युद्वर्णसमन्वितम् ॥९८॥
सिंहान्त्यं हृदयाद्यं च द्विधोद्धृत्य द्वयं ततः।
वर्मास्त्रे च शिरो जात्यायुक्तेयं द्विनवाक्षरम् ॥९९॥
अस्यैव दशामो बीजं हनाद्यं शक्तिरुच्यते।
षडङ्गमस्य ताराद्यं हृदयाद्यं क्रमाच्छृणु ॥१००॥
औंकाररहितं बीजं षोढा कृत्वा यथा पुरा।
स्वरैराद्यैर्विसर्गान्तैर्नपुंसकविवर्जितैः ॥१०१॥
योजयित्वा तदूर्ध्वे तु पदानि क्रमशो न्यसेत्।
चक्रराजपदं पूर्वे ज्वालाचक्रपदं ततः ॥१०२॥
जगच्चक्रपदं पश्चादसुरान्तकसंज्ञितम्।
पञ्चमं दीप्तचक्राख्यमन्ते माहासुदर्शनम् ॥१०३॥
चतुर्थ्यन्तं नियोज्यान्ते पश्चाज्ज्ञानादिभिस्तथा।
तुर्यान्तैर्हृदयाद्यैश्च स्वाहाद्याभिश्च चातिभिः ॥१०४॥
द्वादशार्णे नृसिंहस्य बीजं पूर्वं मुने! श्रृणु।
नेमिसप्तममादाय प्रागरार्णोपलक्षितम् ॥१०५॥
युक्तं स्वरान्त्यपूर्वाभ्यां कुर्याद्बीजं परं त्विदम्।
नतिप्रणवमद्यस्थमेकवीरं महाप्रभम् ॥१०६॥
सर्वेषां सिंहमन्त्राणां ध्यानभेदात्मनामिदम्।
जीवभूतं स्वरूपस्य वाचकं विद्धि कामदम् ॥१०७॥
मूर्तिमन्त्रान् श्रृणुष्वाथ द्वादशाक्षरमण्डितम्।
प्रणवं हार्दयीजातिः तुर्यान्तं भगवत्पदम् ॥१०८॥
नारसिंहाय दद्याद्वै पदं पञ्चाक्षरं ततः।
विश्वत्त्रातृनृसिंहस्य मन्त्रेयं द्वादशाक्षरः ॥१०९॥
तारान्तस्येद ..................दशाक्षरः।
वक्ष्यन्ते हृदयादीनि नेत्रान्तानि यथाक्रमम् ॥११०॥
षोढास्य बीजं ताराद्यमाकारादिसमन्वितम्।
बिन्दुनाङ्कितमेतेषां योजनं प्राग्वदाचरेत् ॥१११॥
अह्गोपाह्गमयी व्याप्तिः सवीजैर्द्वादशाक्षरैः।
सबिन्दुभिर्गुणाद्यैश्च कल्पयं वा नतिभिः सह ॥११२॥
व्यापकोऽयं नृसिंहस्य मूर्तिभेदगतस्य च।
साङ्गो मन्त्रः समुद्दिष्टः सर्वाभिमतसिद्धिदः ॥११३॥
अक्षमध्यगता वर्णा वर्णिताश्चक्रमध्यगाः।
संज्ञाः सबिन्दुप्राग्वर्णा नतिप्रणवमध्यगाः ॥११४॥
तुर्यान्ताश्शक्तिसंघस्य जयाद्यस्य तु वाचकाः।
भीमोग्राभ्यां च भूताभ्यां तथा मन्त्रद्वयं भवेत् ॥११५॥
विष्टरेऽभिनिविष्टानां मन्त्राणां लक्षणं श्रृणु।
साध्यनामस्वरूपं तु व्यापकं वक्ष्यते पुनः ॥११६॥
तारान्ते बीजं शक्तिश्च दैवतं तस्य चेत्ततः।
शान्तिं पुष्टिं च वश्यं च विजयं चैवमादिकम् ॥११७॥
द्वितीयान्तं समुच्चार्य कुरुवीप्सान्वितं ततः।
यंच्छ यच्छ पदान्तं वा, प्राकस्थितैः प्रणवान्तिमैः ॥११८॥
अङ्कयेदवसाने च साध्यलक्षणमीरितम्।
द्विरष्टवर्णं नृहरेर्मन्त्रमानुष्टुभं परम् ॥११९॥
पूर्वमेव समुद्दिष्ठं बाह्ये वायव्यमक्षरम्।
वर्मास्त्रजातियुक्तं च वाह्नं पार्थिवमक्षरम् ॥१२०॥
विस्तरेण पुरा प्रोक्तं तस्मान्नेह प्रतन्यते।
वक्ष्यते यन्त्र धर्तॄणां नागानां क्षाद्यमान्वितम् ॥१२१॥
बिन्दुस्वरान्वितं बीजं प्रणवाद्यं ततः परम्।
युक्तं प्रत्येकसंज्ञाभिस्तुर्यान्ताभिर्नमोऽन्तिमम् ॥१२२॥
इति शेषादिनागानां मन्त्रा सम्यगुदीरिताः।
शक्त्या सतारया यान्त्रैः सौदर्शनषडक्षरैः ॥१२३॥
एकैकं भेदयेद्वर्णमष्टार्णस्योर्ध्वतोऽप्यधः।
नारायणास्त्रमन्त्रोऽयं कल्पान्तहुतभुक्प्रभः ॥१२४॥
अभिधायाक्षरं पूर्वं चक्राद्यस्त्रगणस्य तु।
युक्तं वह्निविसर्गाभ्यां, बीजं वा, प्रणवान्वितम् ॥१२५॥
ततः संज्ञा चतुर्थ्यन्ता योजनीया फडन्तिमा।
चक्रादिषोडशास्त्राणामिति मन्त्राः प्रकीर्तिताः ॥१२६॥
ज्ञात्वैवं यन्त्रमाहात्म्यं योर्चयेद्विधिपूर्वकम्।
दिग्बन्ध, वह्णिप्राकार, गायत्र्या, वाहनादिकैः ॥१२७॥
यागोपकरणैर्मन्त्रैर्भोग, दान विवर्जितैः।
क्रमात् सर्वफलावाप्तिर्मन्त्रसिद्धिश्च जायते ॥१२८॥
दशदिग्बन्धमन्त्राणां वक्ष्यते लक्षणं पुरा।
ओं पूर्वं पुरुषायेति स्वाहान्तं तदनन्तरम् ॥१२९॥
अस्त्रेण बन्धयामीति, स्वाहान्तं च षडक्षरम्।
इति दिग्बन्धमन्त्रोऽयमीरितो दुष्टदोषहृत् ॥१३०॥
प्रणवं प्राक् समुद्धृत्य मनुं वाग्निजाययोः।
आयान्तं विन्यसेच्चक्रंअग्निप्राकारसंज्ञितम् ॥१३१॥
कीर्तितां चक्रगायत्रीं श्रृणु चक्रप्रसादनीम्।
जातिपूर्वं पुरस्कृत्य चक्रायेति समुद्धरेत् ॥१३२॥
द्वितीयं विष्णुगायत्र्या नृसूक्ताद्यक्षरत्रयम्।
तेत्राब्यां पदमादाय नेमिपूर्बान्तयोजितम् ॥१३३॥
धीमहीति तदन्ते नो विनिवेश्योऽनिवारितः।
गायत्र्यन्तं समुद्धार्य तदन्ते चतुरक्षरम् ॥१३४॥
सौदर्शनी समुद्दिष्ठा गायत्री तारकाक्षरा।
सतारका पुरा चेयं भवेदेकाक्षराधिका ॥१३५॥
तारद्वयं पुरोद्धृत्य परमं पदमुद्धरेत्।
धामेतिवस्थितं चाथ नेम्याद्यं द्विनवारकम् ॥१३६॥
द्विदशारगतं वर्णं नाभिपञ्चममूर्धनि।
ततस्तु गृहकाम्ययो इति पञ्चार्णमुद्धरेत् ॥१३७॥
युतं नेमिद्वितीयेन द्विनवारगतं ततः।
षोडशारगतं वर्णं द्वितीयस्वरसंयुतम् ॥१३८॥
नेमिपञ्चमवर्णं च षोडशारगतं पुनः।
नाभिद्वितीयसंभिन्नं नेम्यन्तं तारपश्चिमम् ॥१३९॥
तृतीयस्वरसंयुक्तं तृतीयं नेमिमण्डलात्।
नेम्यन्तमास्वरोपेतमरान्तं च स्वरान्तरम् ॥१४०॥
स्वरं तृतीयं संयोज्य, ततश्च द्विनवारगम्।
न्यूनविंशारगोर्ध्वं तद्द्विनवाक्षरमूर्धनि ॥१४१॥
स्वरं तृतीयं संयोज्य, ततश्च द्विनवारगम्!।
पुनर्मन्त्रशरीरेति प्रणवान्तं ततो नमः ॥१४२॥
पुनश्च नमसा युक्तो मन्त्र आवाहनोचितः।
प्रदाने सर्वभोगानां मन्त्रस्ते संप्रकाश्यते ॥१४३॥
प्रणवं पूर्वमुच्चार्य सर्वभोगैककारणम्।
नेम्यन्तं बिन्दुसंयुक्तं त्रिधेदं पदमप्यथ ॥१४४॥
गृहाणेति शिरोऽन्तोयं भोगदानस्य वाचकः।
आवाहने तथार्चायां विसर्जनविधौ तथा ॥१४५॥
प्रणवं पूर्वमुद्धृत्य संबोध्य भगवन्निति।
मन्त्रमूर्तेपदं दद्यात् स्वपदं च द्वितीयया ॥१४६॥
आसादय क्षमस्वेति प्रणवान्तं समुद्धरेत्।
परप्रयुक्तमन्त्राणां शक्तिह्रासनतत्परः ॥१४७॥
समस्तवीर्यमन्त्राढ्यं मुने! मन्त्रवरं श्रृणु।
प्रणवं पूर्वमुद्धृत्य प्रणवाद्यं सबिन्दुकम् ॥१४८॥
षडर्णस्यास्त्रमन्त्रप्राक्षडर्णं प्रणवोज्झितम्।
प्रोक्तस्यार्णद्वयं पूर्वं चक्रराजपदं ततः ॥१४९॥
सर्वशब्दं दहद्वन्दूपूर्वं दुष्टभयंकरम्।
चिन्तामूलं पदं पश्चाद्भिन्दि भिन्दीति वै ततः ॥१५०॥
द्विधा विदारय पदं (र ?) मन्त्रं ह्रासय ह्रासय।
भक्षयेति पदद्वन्द्वं भूतानीति ततः परम् ॥१५१॥
त्रासय त्रासयेत्यन्ते वर्मास्त्रे च शिरोन्तिमे।
एकसप्ततिमन्त्रोऽयं शक्तिह्रासाख्य ईरितः ॥१५२॥
मन्त्रमानुष्टुभं वक्ष्ये सर्वेषामभयप्रदम्।
भगवन्निति संबोध्य सर्वेति पदमुद्धरेत् ॥१५३॥
विजयेति पदं पश्चात् सहस्त्रारेति तत्परम्।
अपराजितेति शरणं पदं त्वामित्यनन्तरम् ॥१५४॥
प्रपन्नोऽस्मीति तत्पश्चाद्द्वितीयान्तश्चश्रीकरम्।
श्रीपदाद्यं ततः पश्चात् सुदर्शनमिति क्रमात् ॥१५५॥
प्रपत्तिरिति विख्याता सर्बपापक्षयंकरी।
वक्ष्ये नृसिह्यगायत्रीमपराङ्गस्य पूजने ॥१५६॥
वज्रेति द्व्यक्षरं पूर्वंश्रृङ्खलायेत्यतः परम्।
आयान्तं तीक्ष्णदंष्ट्रेति विझहेति पदं ततः ॥१५७॥
वज्रेति द्व्यक्षरस्यान्ते नखायेति च धीमहि।
आद्यं च चरमाद्यं च गायत्र्याः पदमुद्धरेत् ॥१५८॥
सिंहेति सविसर्गं च गायत्र्यन्तं ततो न्यसेत्।
आचरेदुक्तमन्त्राभ्यामावाहनविसर्जने ॥१५९॥
दिग्बन्धं च सहास्त्रेण प्रागुक्तेन समाचरेत्।
अन्येषामङ्गमन्त्राणां विनियोगो यथा पुरा ॥१६०॥
इति निगदितमेतन्मन्त्रजालं यथाव-
न्मुखयुगळसमेते यन्त्रराजे निविष्टम् ॥१६१॥
हृदिबहिरपि भोगैर्यानि योज्यानि तानि।
प्रकटयतु कदाचित् कष्टबुद्धेः परस्य ॥१६२॥
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे यन्त्रराजमन्त्रोद्धारविधानं नाम चतुर्विंशोऽध्यायः।