प्रथमकाण्ड - १ ते ५

पैप्पलादसंहिता



शं नो देवीरभिष्टय आपो भवन्तु पीतये ।
शं योरभि स्रवन्तु नः ॥१॥
आपः पृणीत भेषजं वरूथं तन्वे मम ।
ज्योक् च सूर्यं दृशे ॥२॥
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
अग्निं च विश्वशंभुवम् ॥३॥
ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।
अपो याचामि भेषजम् ॥४॥


अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
पृञ्चतीर्मधुना पयः ॥१॥
अमूर्या उप सूर्ये याभिर्वा सूर्य: सह ।
ता नो हिन्वन्त्वध्वरम् ॥
अपो देवीरुप बुवे यत्र गावः पिबन्ति नः ।
सिन्धुभ्यः कर्त्वं हविः ॥३॥
अप्स्वन्तरमृतमप्सु भेषजम् ।
अपामुत प्रशस्तिष्वश्वा भवथ वाजिन: ॥४॥


विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् ।
विद्मो ह्यस्य मातरं पृथिवीं विश्वधायसम् ॥१॥
ज्यायके परि णो नमाश्मा भवत नस्तनू: ।
विरुड्विहि वरीयोऽरातीरप द्वेषांस्या कृधि ॥२॥
वृक्षं यद् गाव: परिषस्वजाना अनस्फुरं शरमर्च्यन्त्यृभुम् ।
शरमस्मद् यावय दिद्युमिन्द्र शं नो भवन्त्वप ओषधीरिमाः ॥३॥
इन्द्रस्य वज्रो अप हन्तु रक्षस आराद् विसृष्टा इषवः पतन्त्वस्मत् ॥४॥


विद्म ते शर पितरं पर्जन्यं भूरिरेतसम्
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥१॥
विद्म ते शर पितरं इन्द्रं भूरिरेतसम्
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥२॥
विद्म ते शर पितरं वरुणं भूरिरेतसम्
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥३॥
विद्म ते शर पितरं चन्द्रं भूरिरेतसम्
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥४॥
विद्म ते शर पितरं सूर्यं भूरिरेतसम्
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥५॥
यदान्त्रेषु गवीन्योर्यद् वस्तावधि संश्रुतम्
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥६॥
प्र ते भिनद्मि मेहनं वर्त्तं वेशन्त्या इव।
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥७॥
यथेषुका परापतदवसृष्टाधि धन्वन: ।
एवा ते मूत्रमुच्यतां बहिर्बालिति सर्वकम् ॥८॥


वषट् ते पूषन्नस्यै सुवृत्तिमर्यमा होता कृणोतु वेधाः ।
सिस्रतां नार्युत प्रदाता वि पर्वाणि जिहतां सूतवा उ ॥१॥
चतस्रो दिशः प्रदिशश्चतस्रो भूम्या उत ।
देवा गर्भं समैरयन् ते व्यूर्णुवन्तु सूतवे ॥२॥
सुष्टा व्यूर्णोतु वि योनिं हापयामसि ।
श्रथया सूषणे त्वमव त्वं बिष्कले सृज ॥३॥
नेव स्नावसु न पर्वसु न केशेषु नखेषु च ।
अवैतु पृश्नि शेवलं शुने जराय्वत्तवे ॥४॥
नेव मांसे न पीवसि नेव कस्मिंश्चनायत्तम् !
अव जरायु पद्यताम् ॥५॥
(इति चतुर्चनाम प्रथमकाण्डे प्रथमो अनुवाक:)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP