प्रथमकाण्ड - १०१ ते १०६

पैप्पलादसंहिता


१०१
त्रीणि पात्राणि प्रथमान्यासन् तानि सत्यमुत भूतं ततक्ष ।
ऋतस्य माने अधि या ध्रुवाणि येभिर्देवा अमृतं भक्षयन्ति ॥१॥
स्वर्यद् देवा विभजन्त आयं त्रीणि पात्राणि प्रथमान्यासन् ।
आदित्या एकं वसवो द्वितीयं तृतीयं रुद्रा अधि सं बभुवुः ॥२॥
धाता वेद सवितैतानि सर्वा बृहस्पतिः प्रथमो देवो अग्निः ।
येभिरिन्द्रो जठरमापृणीते त्रिभिः पात्रैरुत विश्वे च देवाः ॥३॥
ऊर्ध्वा तिष्ठन्ति न नु जिह्मा भवन्ति नोनं बभूव कतमच्चनैषाम् ।
देवानां पात्राणि निहितानि यानि तानि सं पाति य ऋतस्य गोपाः ॥४॥

१०२
पौर्णमासी प्रथमा यज्ञियासीदह्नां रात्रीणामतिशर्वरेषु ।
ये त्वां यज्ञैर्यज्ञेन बोधयन्त्यमी ते नाकं सुकृतः परेता ॥१॥
पूर्णा पश्चादुत पूर्णा पुरस्तात् पौर्णमासी मध्यत उज्जिगाय ।
तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे समिषा मदेम ॥२॥
चतस्र दिशः प्रदिशो ह पञ्च षडुर्वीराहू रजसो विमानीः ।
द्वादशर्तव आर्तवाश्च ते मा प्याययन्तु भुवनस्य गोपाः ॥३॥
यथादित्या अंशुमाप्याययन्ति यमक्षितमक्षितये पिबन्ति ।
एवा मामिन्द्रो वरुणो बृहस्पतिरा प्याययन्तु भुवनस्य गोपाः ॥४॥

१०३
आगन् रात्री संगमनी वसूनां विश्वं पुष्टं वस्वावेशयन्ती ।
अमावास्यायै हविषा विधेमोर्जं वसाना पयसा न आगन् ॥१॥
मा त्वा रात्रि पुरो दभन् मोत पश्चा विभावरि ।
आयुष्मन्तः सुप्रजसः सुवीरा ऋध्यास्म त्वा सुवर्चसः ॥२॥
यस्य देवस्य सुमतौ सुनीतिरेति सुमतिं गृहाणाम् ।
आ मा पुष्टं च पोष्यं च रात्र्या देवानां सुमतौ स्याम ॥३॥
अहमेवास्म्यमावास्या मा विशन्ति सुकृतो मयीमे ।
मयि देवा उभये साध्याश्चेन्द्रज्येष्ठा: समगच्छन्त सर्वे ॥४॥

१०४
प्रथमा ह व्युवास सा धेनुरभवद्यमे ।
सा नः पयस्वती दुहा उत्तरामुत्तरां समाम् ॥१॥
यां देवाः प्रतिनन्दन्ति धेनुं रात्रिमुपायतीः ।
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥२॥
संवत्सरस्य प्रतिमां ये त्वा रात्र्युपासते।
तेषामायुष्मतीं प्रजां रायस्पोषेण सं सृज ॥३॥
इयमेव सा या प्रथमा व्यौच्छत् साप्स्वन्तरासु चरति प्रविष्टा।
वधूर्जिगाय नवगज्जनित्री त्रय एनां महिमानः सचन्ते ॥४॥

१०५
वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम् ।
एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥१॥
इडायास्पदं घृतवत् सरीसृपं जातवेदः प्रति हव्या गृभाय ।
ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु ॥२॥
इडया जुह्वतो हविर्देवान् घृतवता यजे ।
गृहानलुभ्यतो वयं दृषदो मोप गोमतः ॥३॥
यज ऋतुभ्य आर्तवेभ्यो माद्भ्यः संवत्सराय च ।
धार्त्रे विधर्त्रे समृधे भूतस्य पतये यजे ॥४॥

१०६
आयमगन् संवत्सर: पतिरेकाष्टके तव ।
तस्मै देवाय हविषा विधेम स उ नः शर्म यच्छतु ॥१॥
एकाष्टकायै हविषा विधेम यर्तून् पञ्चानु प्रविष्टा ।
सस्येन सस्यमुपसंचरन्तो ऽरिष्टास ऋतुनर्तुमुप सं चरेम ॥२॥
वसन्तो ग्रीष्मो मधुमन्त वर्षाः शरद्धेमन्त ऋतवो नो जुषन्ताम् ।
आ नो गोषु भजन्त्वा प्रजायां सुशर्मण्येषां त्रिवरुथे स्याम ! ॥३॥
एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् ।
तेन देवा व्यषहन्त शत्रून् हन्तासुराणामभवच्छचीपतिः ॥४॥
पूर्णा दर्वे परा पत सुपूर्णा पुनरा पत ।
सर्वान् यज्ञान् संपृञ्चतीषमूर्जं न आ भर ॥५॥
इषमूर्जं न आभृत्येडया पशुभिः सह ।
सरस्वति त्वमस्मासु रायस्पोषं नि यच्छ ॥६॥
(इति चतुर्चनामप्रथमकाण्डे एकविंशो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP