प्रथमकाण्ड - ६६ ते ७०

पैप्पलादसंहिता


६६
ध्रुवस्तिष्ठ भुवनस्य गोप मा सं विक्था वनस्पते ।
अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्व्यस्य ॥१॥
यो वानस्पत्यानामधिपतिर्बभूव यस्मिन्निमा विश्वा भुवनान्यार्पिता।
तमनज्मि मधुना दैव्येन तस्मान् मणिं निर्ममे विश्वरूपम् ॥२॥
इमं मणिं विश्वजितं सुवीरमस्मादश्वत्थात् पर्युद्भरामि।
येन विश्वाः पृतनाः सञ्जयान्यथो द्युमत्समितिमा वदानि ॥३॥
सबन्धुश्चासबन्धुश्च यो न इन्द्राभिदासति ।
वृश्चामि तस्याहं मूलं प्रजां चक्षुरथो बलम् ॥४॥

६७
देवी देव्यां जातासि पृथिव्यामध्योषधे ।
तं त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥१॥
इन्द्रस्त्वाखनत् प्रथमो वरुणस्य दुहितृभ्यः ।
दृंह जातां जनयाजातां ये जातास्तानु वर्षीयसस्कृधि ॥२॥
यस्ते केशोवततः समूलो यश्च वृह्यते ।
सर्वं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ॥३॥
अभीशुना मेयोऽस्तु वियामेनानुमेय: ।
केशो नड इव वर्धतां शीर्ष्णस्ते असितस्परि ॥४॥

६८
यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना ।
एवा भिनद्मि ते मुष्कौ तस्मै त्वामवसे हुवे ॥१॥
त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे ।
सामुमद्य पूरुषं क्लीबमोपशिनं कृधि ॥२॥ क्लीव
क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि ।
उभाभ्यामस्य ग्रावभ्यामिन्द्रो भिनत्वाण्ड्यौ ॥३॥
क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरमरसारसोसि । क्लीव क्लीवं
कुरीरमस्य शीर्षणि कुम्भं चाधिनिदध्मसि ॥४॥
ये ते नाड्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम् ।
ते ते भिनद्मि शम्मयामुष्या अधि मुष्कयोः ॥५॥

६९
जायमानो निररुजत् सपत्नान् दोधतोभयान् ।
स वै सपत्नानां सभा अवालप्स्यो अनाशयत् ॥१॥
आरादरातिं कृणुतेऽशस्तिमप बाधते ।
अवालप्स्यः स यो मणि: सहस्वानभिमातिहा ॥२॥
चक्षुरस्य सूत्रमासीत् तर्द्म श्रोत्रमुताभरत् ।
अवालप्स्यः स यो मणिः सहस्वानभिमातिहा ॥३॥
इमं मणिमावालप्स्यं यस्मिन्नारोहयामसि ।
स वै सपत्नाना दत्ते स एनं पातु विश्वत: स एनं जरसे नयात् ॥४॥

७०
यतो जीवेभ्यो न पितॄनुपैति यमानशे दुष्कृतं दैधिषव्यम् ।
अयज्ञः प्रथमो यो विवेश कृच्छ्रादिज्ज्योतिरभ्यश्नवातै ॥१॥
नास्यौषधीष्वप्यस्ति नाप्स्वन्तर्नास्य सूर्यं संदृशमेति चक्षुः ।
भूमिर्द्वेष्टि चरन्तमेनं यमानशे दुष्कृतं दैधिषव्यम् ॥२॥
कृते(त्रिते) देवा अमृजतैन एतत् कृत(त्रित) एनं मनुष्येष्वमृष्ट ।
तत एतदमुया रक्ष ईर्ते प्रमुक्तं ज्योतेरधि दूरमेति ॥३॥
येभिः पाशैर्दिधिषूपतिर्विबद्वः परौ परावार्पितो अङ्गेअङ्गे ।
वि ते चृत्यन्तां विचृतो हि सन्ति भूणघ्नि पूषन् दुरितानि मुष्टा: ॥४॥
(इति चतुर्चनामप्रथमकाण्डे चतुर्दशो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP