प्रथमकाण्ड - ३१ ते ३५
पैप्पलादसंहिता
३१
इमं मे कुष्ठ पूरु। तमा वह तं निष्कृधि । तु. [[अथर्ववेदः/अथर्ववेद: काण्डं ५|
तमु मे अगदं कृधि ॥१॥
उदग् जातो हिमवतः स प्राच्यां नीयसे जनम् ।
तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे ॥२॥
उत्तमो नामास्युत्तमो नाम ते पिता ।
यत: कुष्ठ प्रजायसे तत एह्यरिष्टतातये ॥३॥
शीर्षहत्यामुपहत्यामक्ष्योस्तन्वो रपः ।
कुष्ठो नो विश्वतस्पातु दैवं समह वृष्ण्यम् ॥४॥
३२
यदग्निरापो अदहत् प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि ।
तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्धि तक्मन् ॥१॥
यदि शोको यद्यभीशोको रुद्रस्य प्राणो यदि वारुणोऽसि ।
हुडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्धि तक्मन् ॥२॥
यद्यर्चिर्यदि वासि धूम: शाकल्येषु यदि वा ते जनित्रम् ।
हुडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्धि तक्मन् ॥३॥
नम: शीताय तक्मने नमो रूराय कृण्मो वयं ते ।
योन्येद्युरुभयद्युश्चरन्ति तृतीयकाय नमो अस्तु तक्मने ॥४॥
तृतीयकं वितृतीयं सदन्दिमुत हायनम्।
तक्मानं विश्वशारदं ग्रैष्मं नाशय वार्षिकम् ॥५॥
३३
आपो अद्यान्वचारिषं रसेन समसृक्ष्महि।
पयस्वानग्न आगमं तं मा सं सृज वर्चसा ॥१॥
सं माग्ने वर्चसा सृज प्रजया च बहुं कृधि।
विद्युर्मे अस्य देवा इन्द्रो विद्यात् सहर्षिभिः ॥२॥
इदमापः प्रवहतावद्यं च मलं च यत्।
यच्च दुद्रोहानृतं यच्च शेपे अभीरुकम् ॥३॥
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे।
शिवानग्नीनप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥४॥
यदापो नक्तं मिथुनं चचार यद्वा दुद्रोह दुरितं पुराणम्।
हिरण्यवर्णास्तत उत् पुनन्तु मा प्र मा मुञ्चन्तु वरुणस्य पाशात् ॥५॥
३४
अग्निर्जनविन् मह्यं जायामिमामदात् ॥१॥
सोमो वसुविन् मह्यं जायामिमामदात् ॥२॥
पूषा ज्ञातिविन् मह्यं जायामिमामदात् ॥३॥
इन्द्रः सहीयान् मह्यं जायामिमामदात् ॥४॥
३५
अग्ने जनविदे स्वाहा ॥१॥
सोमाय वसुविदे स्वाहा ॥२॥
पूष्णे ज्ञातिविदे स्वाहा ॥३॥
इन्द्राय सहीयसे स्वाहा ॥४॥
(इति चतुर्चनाम प्रथमकाण्डे सप्तमो अनुवाकः)
N/A
References : N/A
Last Updated : May 10, 2021
TOP