प्रथमकाण्ड - ८१ ते ८५
पैप्पलादसंहिता
८१
यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।
इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥१॥
ये देवानामृत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम्।
इमं यज्ञं सह पत्नीभिरेत्य यावन्तो देवास्तति मादयन्ताम् ॥२॥
यन्मा हुतं यदहुतमाजगाम यस्मादन्नान् मनसोद्रारजीमि ।
यद् देवानां चक्षुष आगसिनमग्निष्टद्धोता सुहुतं कृणोतु ॥३॥
अग्नेष्ट्वा जिह्वया हुतमिष्टं मरुद्भिरनुमतं पितृभि: प्राश्नामि ॥४॥
८२
अग्ने: प्रजातं परि यद्धिरण्यममृतं दधे अधि मर्त्येषु ।
य एनद् वेद स इदेनदर्हति जरामृत्युर्भवति यो बिभर्ति ॥१॥
यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे ।
तत् त्वा चन्द्रं वर्चसा सं सृजात्यायुष्मान् भवति यो बिभर्ति ॥२॥
आयुषे त्वा वर्चसे त्वौजसे च बलाय च ।
यथा हिरण्यतेजसा विभासासि जनाङ् अनु ॥३॥
यद् वेद राजा वरुणो वेद देवो बृहस्पतिः ।
इन्द्रो यद् वृत्रहा वेद तत्त आयुष्यं भुवत् तत्ते वर्चस्यं भुवत् ॥४॥
८३
यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमाना: ।
तत् ते बध्नामि शतशारदायायुष्मान् जरदष्टिर्यथास: ॥११॥
नैनं रक्षांसि न: पिशाचा: सहन्ते देवानामोज: प्रथमजं ह्येतत् ।
यो बिभर्ति दाक्षायणा हिरण्यं स जीवेषु कृणुते दीर्घमायुः ॥२॥
अपां रेतो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि ।
इन्द्र इवेन्द्रियमव रुध्मो अस्मिन् स दक्षमाणो बिभरद्धिरण्यम् ॥३॥
समानां मासामृतुभिष्ट्वाहं संवत्सरस्य पयसा पिपर्मि ।
इन्द्राग्नी त्वा ब्रह्मणा वावृधानावायुष्मन्तमुत्तमं त्वा करातः ॥४॥
८४
यत् ते चतस्रः प्रदिशो मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ॥१॥
यत् ते भूमिं चतु:स्रक्तिं मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ॥२॥
यते ते यमं वैवस्वतं मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ॥३॥
यत् ते समुद्रमर्णवं मनो जगाम दूरकम्।
तत् त आ वर्तयामसीह क्षयाय जीवसे ॥४॥
यत् ते दिवं यत् पृथिवीं मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ॥५॥
यत् ते वायुमन्तरिक्षं मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ॥६॥
यत् ते सूर्यं यदुषसं मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ॥७॥
यत् ते चन्द्रं नक्षत्राणि मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ॥८॥
यत् ते आपो यदोषधीर्मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ॥९॥
यत् ते परमां परावतं मनो जगाम दूरकम ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ॥१०॥
८५
यं गृह्णन्त्यप्सरसो यं मथ्नाति बृहस्पतिः ।
तं कश्यपस्य ब्रह्मणा सविता पुनराभरत् ॥१॥
यो भर्ताकूः परिधाय मृगेष्वपि धावति।
तं कश्यपस्य ब्रह्मणा सविता पुनरा भरत् ॥२॥
सविताग्निर्ब्रह्म सोम इन्द्रस्त्वष्टा बृहस्पतिः
एते मरुद्युतं त्वा ब्रह्मणा पुनरा भरन् ॥३॥
भद्रां वाचं शिवं चक्षुर्मरुद्युताय कृण्मसि ।
इमा ह्यस्मा ओषधिमा हराम्यरुन्धतीम् ॥४॥
(ह्रति चतुर्चनामप्रथमकाण्डे सप्तदशो ऽनुवाकः)
N/A
References : N/A
Last Updated : May 10, 2021
TOP