हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतामुं तस्मै देवाय हविषा विधेम ॥१॥
य ओजोदा बलदा यश्च विश्व उपासते प्रशिषं यस्य देवा: ।
यस्य च्छायामृतं यस्य मृत्युस्तस्मै देवाय हविषा विधेम ॥२॥
यः प्राणतो निमिषतो विधर्ता पतिर्विश्वस्य जगतो बभूव ।
य ईशे ऽस्य द्विपदो यश्चतुष्पदस्तस्मै देवाय हविषा विधेम ॥३॥
येन द्यौरुग्रा पृथिवी च दृढ़ा येन स्वः स्तभितं येन नाकः ।
यो अन्तरिक्षं विममे वरीयस्तस्मै देवाय हविषा विधेम ॥४॥
य इमे द्यावापृथिवी तस्तभानाधारयदवसा रेजमाने ।
यस्मिन्नधि वितत एति सूर्यस्तस्मै देवाय हविषा विधेम ॥५॥
यस्य विश्वे हिमवन्तो महित्वा समुद्रं यस्य रसया सहाहुः ।
दिशो यस्य प्रदिशः पञ्च देवीस्तस्मै देवाय हविषा विधेम ॥६॥
आपो ह यस्य विश्वमायुर्दधाना गर्भं जनयन्त मातरः ।
तत्र देवानामधि देव आस्त एक स्थूणे विमिते दृढ़ उग्रे ॥७॥
आपो गर्भ जनयन्तीर्वत्समग्रे समैरयन्
तस्योत जायमानस्योल्ब आसीद्धिरण्यय: ॥८॥
हिरण्य उल्ब आसीद् योग्रे वत्सो अजायत ।
तं योन्योर्विद्रवन्त्योः पर्यपश्यद् दितिर्मही ॥९॥


भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव ।
स ते मृत्युश्चरति राजसूयं स राजा राज्यमनु मन्यतामिदम् ॥१॥
अभि प्रेहि वीरयस्वोग्रश्चेत्ता सपत्नहा ।
आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन् ॥२॥
आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियं वसानश्चरति स्वरोचिः ।
महत्तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥३॥
एना व्याघ्रं परिषस्वजाना: सिंहं हिन्वन्ति महते सौभगाय ।
महिषं न सुभुवस्तस्थिवांसं मर्मृज्यन्ते द्वीपिनमप्स्वन्त: ॥४॥
व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः ।
विशास्त्वा सर्वा आयन्त्वापो दिव्या: पयस्वती: ॥५॥
या आपो दिव्याः पयसा मदन्ति या अन्तरिक्ष उत पार्थिवा याः ।
तासां त्वा सर्वासामपामभि षिञ्चामि वर्चसा ॥६॥
अभि त्वा वर्चसा सिचं दिव्येन पयसा सह ।
यथासो मित्रवर्धनस्तथा त्वा सविता करत् ॥७॥


यत्ते चन्द्रं कश्यप रोचनावद् यत् संहितं पुष्कलं चित्रभानु ।
यस्मिन् सूर्या आर्पिताः सप्त साकं तस्मिन् राजानमधि विश्रयेमम् ॥१॥
येभिः शिल्पैः पप्रथानामदृंहो येभिर्दिवमभ्यपिंशः प्रविद्वान् ।
येभिर्वाचं पुष्कलैरव्ययस्तेन माग्ने वर्चसा सं सृजेह ॥२॥
येभिः सूर्य आतपति प्रकेतुभिर्येभिरग्निर्ददृशे चित्रभानुः ।
येभिरापश्चन्द्रवर्णा अजिन्वन् तेन माग्ने वर्चसा सं सृजेह ॥३॥
आयं भातु प्रदिशः पञ्च देवीरिन्द्र इव ज्येष्ठो भवतु प्रजानाम् ।
अस्मिन् धेहि पुष्कलं चित्रभान्वयं पृणातु रजसोरुपस्थम् ॥४॥
अनु त्वेन्द्रोवत्वनु बृहस्पतिरनु त्वा सोमो अन्वग्निरावीत् ।
अनु त्वा विश्वे अवन्तु देवाः सप्त राजानो य उदाभिषिक्ताः ॥५॥
अनु त्वा मित्रावरुणेहावतामनु द्यावापृथिवी ओषधीभिः ।
सूर्योहोभिरनु त्वावतु चन्द्रमा नक्षत्रैरनु त्वेदमावीत् ॥६॥
द्यौश्च त्वा पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणा त्वा पिपर्तु।
अनु स्वधा चिकितां सोमो अग्निः पूषा त्वावतु सविता सवेन ॥७॥


स्तुवानमग्न आा नय यातुधानं किमीदिनम् ।
त्वं हि देवान्तितो हन्ता दस्योर्बभूविथ ॥१॥
आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् ।
अग्ने तौलस्य प्राशान् यातुधानान् वि लापय ॥२॥
वि लपन्तु यातुधाना अत्रिणो ये किमीदिन: ।
अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥३॥
अग्निः पुरस्तादा यच्छतु प्रेन्द्रो नुदतु बाहुमान् ।
ब्रवीतु सर्वो यातुमानयमस्मीत्येत्य ॥४॥
पश्यामि ते वीर्या जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्ष: ।
त्वया सर्वे परितप्ताः पुरस्तादा यन्तु प्रब्रुवाणा उपेदम् ॥५॥
आ रभस्व जातवेदो हृद: कामाय रन्धय ।
दूतो नो अग्निरुत्तिष्ठ यातुधानानिहानय ॥६॥
त्वमग्ने यातुधानानुपबद्धानिहा नय ।
अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥७॥
इदं हविर्यातुधानान्नदी फेनमिवा वहात् ।
यदीदं स्त्री पुमानकरिह स स्तुवतां जनः ॥८॥
यातुधानस्य सोमप जहि प्रजां नयस्व च ।
निष्टुवानस्य पातय परमक्ष्युतावरम् ॥९॥
अयं स्तुवान आगमत्तं स्मोत प्रति हर्यत ।
बृहस्पते वशे कृथा अग्नीषोमा वि विध्यतम् ॥१०॥


यां त्वा गन्धर्वो अखनद् वरुणाय मितभ्रजे ।
तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ॥१॥
वृषणस्ते खनितारो वृषा त्वमस्योषधे ।
वृषासि वृष्ण्यावती वृषणे त्वा खनामसि ॥२॥
उदुषा उदु सूर्य उच्छुष्मा ओषधीनाम् ।
उदेजति प्रजापतिवृषा शुष्मेण वाजिना ॥३॥
ऊर्ध्वश्राणमिदं कृधि यथा स्म ते विरोहतो अभितप्तमिवानति।
ततस्ते शुष्मवत्तरमियं कृणोत्वोषधिः ॥४॥
अपां रस ओषधीनामथो वनस्पतीनाम् ।
अथो सोमस्य भ्रातास्यार्श्यमसि वृष्ण्यम् ॥५॥
अश्वस्य ऋश्यस्य बस्तस्य पुरुषस्य च ।
य ऋषभस्य वाजस्तमस्मै देह्योषधे ॥६॥
सं वाजा ऋषभाणां सं शुष्मा ओषधीनाम् ।
सं पूषामिन्द्र वृष्ण्यमस्मै धेहि तनूबलम् ॥७॥
अद्याग्ने अद्य सवितरद्य देवि सरस्वति ।
अद्या मे ब्रह्मणस्पते धनुरिवा तानया पस: ॥८॥
ऊर्ध्वास्तिष्ठन्ति गिरय ऊर्ध्वा वाता उदीरते ।
ऊर्ध्वोयं मामको मयूख इवाधि भूम्याम् ॥९॥
उत्तिष्ठोग्र वि धूनुष्व वि तेघ्ना यन्तु नाड्यः ।
अतन्द्रो अश्वपा इव नावग्लायो ऽधि मुष्कयो: ॥१०॥
(ढ्रति सप्तर्चोनामचतुर्थकाण्डे प्रथमोऽनुवाकः)

N/A

References : N/A
Last Updated : May 11, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP