२१
खनन्ति त्वा तैमाता दासा अरसबाहवः ।
दास्यसि प्रक्रीरस्युत्खातमरसं विषम् ॥१॥
अदन्ति त्वा कक्कटासः कुरुङ्गा अधि सानुषु ।
पापी जग्धप्रसूरस्यभ्रिखाते न रुरुपः॥ ॥२॥
अव ज्यामिव धन्वनः शुष्मं तिरामि ते विष ।
प्र रोपीरस्य पातय सूर्यः पूर्वा इवोषसः ॥३॥
सिन्धुः पश्चात् परिहितः सूर्यस्योदयनं पुरः ।
ततो यदन्तरा वनं तत् सर्वं विषदूषणम् ॥४॥
मधु त्वा मधुकृत् कृणोतु पितुं त्वा पितुकृत् कृणोतु ।
उतो निषद्य पातवे अथो ऊर्ध्वाय तिष्ठते ॥५॥
जघास त्वा लोमकर्णस्तन्यासपरुरुष्णियाम्।
तद्भैमीश्चक्रिरे स्रजः सर्वं महिषदो विषम् ॥६॥
उर्व्या उरुक्षितस्तुराया आतुरस्य च ।
भूम्या हि जग्रभं नाम विषं वारयतामिति विषं दूषयतादिति ॥७॥

२२
अहं वा इन्द्रमातरमिन्द्रीजामिन्द्रभ्रातरम् ।
इन्द्राधिवक्त्रां वीरुधमाहार्षं विषदूषणीम् ॥१॥
यत् किञ्च पद्वच्छफवद् यत् काण्डि यच्च पुष्पवत् ।
यदेजति प्रजापतिः सर्वं तद्विषदूषणम् ॥२॥
सिन्धुः पश्चाद्धरुणः सूर्यस्योदयनं पुरः ।
ततो यदन्तरा विषं तद् वाचा दूषयामसि ॥३॥
यावत् सूर्यो वितपति यावच्चाभि विपश्यति ।
तावद् विषस्य दूषणं वचो निर्मन्त्रयामहे ॥४॥
जिह्वा मे मधुसंस्रावा जिह्वा मे मदुवादिनी ।
जिह्वे वर्चस्वती भव माप ते पुरुषो रिषत् ॥५॥
हा है कल्याणि सुभगे पृश्निपर्ण्यनातुरे ।
इमं मे अद्य पूरुषं दीर्घायुत्वायोन्नय ॥६॥
याभ्यो वर्षन्ति वृष्टयो याभिर्जीवन्त्यघ्न्याः ।
ता मे विषस्य दूषणीः सविता व्यकाशयत् ॥७॥

२३
प्रजापतिष्टवा बध्नात् प्रथममस्तृतं वीर्याय कम्। तुल. शौ.सं. १९.४६
तं ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु ॥१॥
ऊर्ध्वस्तिष्ठ रक्षन्नप्रमादमस्तृतेमं मा त्वा दभन् पणयो यातुधानाः ।
इन्द्र इव दस्यूनव धूनुष्व पृतन्यत: सर्वाञ्छत्रून् वि षहस्वास्तृतस्त्वाभि रक्षतु ॥२॥
शतं च नः प्रहरन्तो ऽभिघ्नन्तो न तस्तिरे ।
तस्मिन्निन्द्रः पर्यधत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु ॥३॥
इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानामधिराजो बभूव ।
पुरस्त्वा देवाः प्र णयन्तु सर्वे ऽस्तृतस्त्वाभि रक्षतु ॥४॥
अस्मिन्मणावेकशतं वीर्याणि सहस्रं प्राणा अस्मिन्नस्तृते ।
पृतन्यादधरः सोऽस्त्वस्तृतस्त्वाभि रक्षतु ॥५॥
घृतादुलप्तो मधुमान् पयस्वान् सहस्रं प्राणः शतयोनिर्वयोधाः ।
शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु ॥६॥
यथा त्वमुत्तरो असो असपत्नः सपत्नहा।
सजातानामसो वशी तथा त्वा सविता करदस्तृतस्त्वाभि रक्षतु ॥७॥

२४
अपश्च रपश्चोष्मा च बाष्पश्च ।
शोकश्चाभीशोकश्च तृतीयेकश्च परेपरश्च ते तक्मान इतो नश्यत ॥१॥
वेद वै ते तक्मन्नामाग्निष्टं नामासि ।
तं त्वेतोप नयाम: शनि तक्मा ॥२॥
वृत्रस्य हरोसि नभसो नपात् ।
द्यौश्चास्मत् पृथिवी च तक्मानं नाशयतामितः ॥३॥
पञ्चप्सिनिर्नाम ते माता स उ एकप्सिनिरुच्यसे ।
तस्याहं वेद ते नाम स तक्मन् निरतो द्रव ॥४॥
औदुम्बलश्च नामासि प्रियातिथिश्च ।
तं त्वेतो नाशयामसि ब्रह्मणा वीर्यावता ॥५॥
यो ऽसि जल्पश्च लपंश्चावां च तपश्च ।
तृतीयेकश्च मौञ्जिगलश्च ते तक्मान इतो नश्यत ॥६॥
विकिलीत विलोहित विकाशक्रंदरज्जन ।
गिरिं गच्छ धूमकेतो हृषे नमांसि सन्तु ते ॥७॥
बृहत् त्वमग्ने रक्षो अधमं जहि मध्यमं न्युत्तमं शृणीहि ।
शं नो अग्निर्ज्योतिरनीको अस्तु शं द्यावापृथिवी अनेहसा ॥८॥
मातेव पितेवाभि रक्षतैनं मुञ्चतैनं पर्यंहसः ॥९॥

२५
वाताज्जातो अन्तरिक्षाद् विद्युतो ज्योतिषस्परि ।
स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः ॥१॥
हिरण्यानामेकोसि सोमादधि जज्ञिषे ।
रथेसि दार्शत इषुधौ रोचनस्त्वम् ॥२॥
यो अग्रतो रोचनावान् समुद्रादधि जज्ञिषे ।
शङ्खेन हत्वा रक्षांस्यत्रिणो वि षहामहे ॥३॥
ये अत्रिणो यातुधाना रक्षसो ये किमीदिन: ।
सर्वां छङ्ख त्वया वयं विषूचो वि षहामहे ॥४॥
शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः ।
शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ॥५॥
दिवि जातः समुद्रतः सिन्धुतस्पर्याभृतः ।
स नो हिरण्यजाः शङ्ख आयुष्प्रतरणो मणिः ॥६॥
देवानामस्थि कृशनं बभूव तदात्मन्वच्चरत्यप्स्वन्तः।
तं ते बध्नाम्यायुषे वर्चस ओजसे च बलाय च कार्शनस्त्वाभि रक्षतु ॥७॥
(इति सप्तर्चोनामचतुर्थकाण्डे पञ्चमोऽनुवाकः)

N/A

References : N/A
Last Updated : May 11, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP