१६
उद्यन्नादित्यो घुणान् हन्तु सूर्यो निम्रोचन्रश्मिभिर्हन्तु ।
तावन्नो अधि संहितम् ॥१॥
अप्सरा मूलमखनद् गन्धर्वः पर्यब्रवीत् ।
तेन वो वृत्रहां सूर्यो नि जम्भ्यां अमुचद् घुणान् ॥२॥
घुणान् हन्त्वायती घुणान् हन्तु परायती ।
घुणानवघ्नती हन्तु घुणान् पिनष्टु पिंषती ॥३॥
घुणा न किञ्चनेह वः प्रतिबुद्धा अभूतन ।
प्रदोषं तस्करा इव ॥४॥
घुणानामद्यतो ज्येष्ठः कनिष्ठ उत मध्यमः ।
हता वः सर्वे ज्ञातयो हता माता हतः पिता ॥५॥
यथा फेन उदकेन ददृशानो निजस्यति ।
एवा वयं घुणान् सर्वान् साकं वाचा नि जासयामसि ॥६॥
नि गावो गोष्ठे असदन्नि मृगासो अविक्षत ।
नित्यमादित्य रश्मिभिर्घुणान् सर्वानजीजसः ॥७॥
उद्यन् रश्मीना तनुष्व वाणवद्भिः समर्पय ।
घुणांस्त्वं सर्वानादित्य घोरया तन्वा तप ॥८॥

१७
य आनतः पराणतो दारोरिवापतक्षणम्॥
शर्कोटो नाम वा असि कुतस्त्वं विषवानसः ॥१॥
य उभयेन प्रहरसि पुच्छेन चास्येन च॥
आस्ये च न ते विषं कुतस्ते पुच्छधावसत् ॥२॥
विदुत्सुरस्य दानवस्य तस्य त्वं नपादसि ।
तस्याग्रेरसं विषं ततस्तुवारसं विषम् ॥३॥
अरसारसं त्वाकरं वध्रे वध्रिं त्वाकरम् ।
वध्रिं त्वा चक्रुर्देवा अमृतास आसुरम् ॥४॥
इयत्तकः कुसुम्भकस्तकं भिनद्मि शम्यया ।
ततो विषं परासिचमपाचीमनु संवतम् ॥५॥
इमाः पश्चा मयूर्यः सप्त स्वसारो अग्रुवः।
तास्ते विषं वि जह्रिर उदकं कुम्भिनीरिव कूपात् कुलजनीरिव ॥६॥
नवानां नवतीनां विषस्य रोपुषीणाम् ।
सर्वासामग्रभं नाम वीतापेतारसं विषम् ॥७॥

१८
व्रातमहमपक्ष्णानां व्रातं मुण्डीयसामुत ।
व्रातं मुण्डिव्लानामहं प्र ध्वाङ्क्षाङ् इव चातये ॥१॥
प्रवक्ता प्रमादैता निद्रातन्द्रीस्तृतीयकः ।
तान् जङ्गिड़स्याग्निना सर्वान् प्रति दहामसि ॥२॥
अशुद्धान्नः परि पाहि रक्षोभ्य उत जङ्गिड ।
यातुधानात् किमीदिनस्तस्मान्नः पाहि जङ्गिड़ ॥३॥
अप्सराभ्यो गन्धर्वेभ्यो देवेभ्यो असुरेभ्यः ।
अथो सर्वस्मात् पाप्मनस्तस्मान्नः पाहि जङ्गिड़ ॥४॥
नि ते शत्रून् दहति देवो अग्निर्निररातिममतिं यातुधानान् ।
आ याहि शत्रून् दुरितापघ्नञ्छतान्नो यक्ष्मेभ्यः परि पाहि जङ्गिड़।५॥
अकर्माग्निमधिपामस्य देवमन्वारप्सि सहसा दैव्येन ।
सहस्वान्नः सहसा पातु जङ्गिड़ो यथा जयेम पृतनाज्येषु ॥६॥
सत्यो अग्नि: सत्या आप: सत्येमे द्यावापृथिवी विश्वसंभुवौ।
सत्यमिदं ब्रह्मास्माकं कृतमस्तु यमबध्नादुशनेन्द्राय तं ते बध्नामि जङ्गिड़म् ॥७॥

१९
इयत्तिका शकुन्तिका सका जघास ते विषम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ॥१॥
सूर्ये विषमा सृजामि दृतिं सुरावतो गृहे ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम॥
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ॥२॥
त्रिषप्ता विस्फुलिङ्गका विषस्य पुष्पमक्षन् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ॥३॥
आल्वन्तरुटं विषं विदारी करम्भो अरसं विषम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ॥४॥
वारुग्रमरसं विषमग्निश्व विषचर्षणिम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ॥५॥
शकुन्तिका मे अब्रवीद विषपुष्पं धयन्तिका ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ॥६॥
न रोपयति न मादयति न विषं हन्ति पुरुषम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ॥७॥
नवानां नवतीनां विषस्य रोपुषीणाम् ।
सर्वासामग्रभं नाम वीतापेतारसं विषम् ॥८॥

२०
मधुमती पत्ये अस्मि जाराय मधुमत्तरा ।
अथो मधव्यं मे भंसो मधु निपदने अहम् ॥१॥
मधुना मा सं सृजामि मासरेण सुरा इव।
वाङ्म इयं मधुना संसृष्टाक्षौ मे मधुसंदृशी ॥२॥
मधु द्यौर्मधु पृथिवी मध्विन्द्रो मधु सूर्यः ।
स्त्रियो या जज्ञिरे मधु ताभ्योहं मधुमत्तरा ॥३॥
मधुमतीरोषधय आपो मधुमतीरुत॥
गावो या जज्ञिरे मधु ताभ्योहं मधुमत्तरा ॥४॥
मधोर्जातो मधुघो वीरुधां बलवत्तमः ।
तेनाहं सर्वस्मै पुंसे कृण्वे निकरण हृदि।५॥
यथाश्व बन्धनेष्ठो वड़वामभिधावति ।
एवा त्वमुग्र ओषधेमुं कनिक्रदतमा नय ॥६॥
अङ्गो नु मोदिव श्वसो अङ्गो नु मोदिव स्तनः ।
अन्या विवित्स मा नो अन्याः परा जिघांसन् ।
मामनु प्र ते मनश्छाया यन्तुमिवान्वयत् ॥७॥
(इति सप्तर्चोनामचतुर्थकाण्डे चतुर्थो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 11, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP