चतुर्थ काण्डः - २६ ते ३०
पैप्पलादसंहिता
२६
कन्या वारवायती सोममपि श्रुताविदत् ।
अस्तं भरन्त्यब्रवीदिन्द्राय सुनोमि त्वा शक्राय सुनोमि त्वा ॥१॥
असौ य एष वीरको गृहंगृहं विचाकशत् ।
इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ॥२॥
कुविच्छकत् कुवित् करत् कुविन्नो वस्यसस्करत् ।
कुवित् पतिद्वितो यतीरिन्द्रेण सङ्गमामहै ॥३॥
आ चन त्वा चिकित्सामोधि चन त्वा नेमसि ।
शनैरिव शनकैरिवेन्द्रायेन्द्रो परि स्रव ॥४॥
इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय ।
शिरस्ततस्योर्वरामादिदं म उपोदरे ॥५॥
असौ च या न उर्वरादिमां तन्वं मम ।
अथो ततस्य यच्छिरः सर्वा ता रोमशा कृधि ॥६॥
खे रथस्य खे ऽनस: खे युगस्य शतक्रतो ।
अपालामिन्द्र त्रिष्पूत्व्यकृणो: सूर्यत्वचम् ॥७॥
२७
दिवस्पृष्ठे मधुपृचः सुपर्णाः पञ्चाशत्ते भुवनस्य गोपाः ।
आनुजावरमनुरक्षन्त उग्रा येषामिन्द्रं वीर्यायैरयन्त ॥१॥
पुरोहितः परमेष्ठी स्वराड् ज्यायाभीवर्धमस्मा अकृणोद् बृहस्पतिः।
तेन सपत्नानधरान् कृणुष्व क्षेमे पशून् बहुलान् वर्धयित्वा जैत्रायोद्यातु रथवाहनं ते ॥२॥
गोभाजमंसं तव ये समाना: सर्वे समग्रा दधृगा भरन्त ।
अभि वर्धस्व भ्रातृव्यानभि ये त्वा पृतन्यत: ॥३॥
नि पिण्ढि सर्वान् धूर्वतो ऽभीवर्धो यथाससि ।
अभीवर्धमभीभवमभीषेणं महागणम् ।
विशस्त्वा सर्वा आयन्त्वापो दिव्याः पयस्वतीः ॥४॥
अभि वर्धस्व प्रजया वावृधानो ऽभ्यनीकैः पशुभिर्भवाति॥
ब्रह्म राजन्यैर्विश्वैर्वावृधानः शूद्रैरतीहि सभया पृतन्यतः ॥५॥
वर्धस्व क्षेत्रैः प्रथस्व प्रजया वर्धस्व वीरैः पशुभिर्बहुर्भव ।
श्रिया शुक्लैर्यतमस्त्वा पृतन्यादाप्तस्तुभ्यं स बलिहृत्याय तिष्ठतु ॥६॥
२८
इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिं हवामहे ।
रथं न दुर्गाद् वसव: सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥१॥
त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु संभुव: ।
रथं न दुर्गाद् वसव: सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥२॥
अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा ।
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥३॥
नराशंसं वाजिनं वाजयन्तं क्षयद्वीरं पूषणं सुम्नैरीमहे ।
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥४॥
बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे ।
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥५॥
इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाढ़ ऋषिरह्वदूतये । निवाढ
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥६॥
देवैर्नो देव्यदितिर्नि पातु देवस्त्राता ब्रायतामप्रयुच्छन् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥७॥
२९
अप नः शोशुचदघम् । अग्ने शुशुग्ध्या रयिम् ॥१॥
अप नः शोशुचदघम् ।
प्र यद् भन्दिष्ठ एषां प्रास्माकासश्च सूरयः ॥२॥
अप नः शोशुचदघम् ।
प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् ॥३॥
अप नः शोशुचदघम् ।
प्र यदग्ने: सहस्वतो विश्वतो यन्ति भानवः ॥४॥
अप नः शोशुचदघम् ।
त्वं हि विश्वतोमुख विश्वत: परिभूरसि ॥५॥
अप नः शोशुचदघम् ।
द्विषो नो विश्वतोमुखाति नावेव पारय ॥६॥
३०
देवाः शरणकृतः शरणा मे भवत प्राच्या दिशो ऽग्निना राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत ॥१॥
देवाः शरणकृतः शरणा मे भवत दक्षिणाया दिश इन्द्रेण राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत ॥२॥
देवाः शरणकृतः शरणा मे भवत प्रतीच्या दिशो वरुणेन राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत ॥३॥
देवाः शरणकृतः शरणा मे भवतोदीच्या दिशः सोमेन राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चास्मन्नादं परा द्विषन्तं शृणीत ॥४॥
देवाः शरणकृतः शरणा मे भवत ध्रुवाया दिशो विष्णुना राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत ॥५॥
देवाः शरणकृतः शरणा मे भवतोर्ध्वाया दिशो बृहस्पतिना राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत ॥६॥
देवाः शरणकृतः शरणा मे भवतोत्तमाया दिशः प्रजापतिना राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत ॥७॥
देवाः शरणकृतः शरणा मे भवत परमाया दिशः परमेष्ठिना राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत ॥८॥
देवाः शरणकृतः शरणा मे भवत सर्वाभ्यो दिग्भ्य ईशानेन राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत ॥९॥
(इति सप्तर्चोनामचतुर्थकाण्डे षष्ठोऽनुवाकः)
N/A
References : N/A
Last Updated : May 11, 2021
TOP