३१
प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना ।
प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥१॥
प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता ।
आध्रश्चिद् यं मन्यमानस्तुरश्चिद् राजा चिद् यं भगं भक्षीत्याह ॥२॥
भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददत्र:।
भग प्र णो जनय गोभिरश्चैर्भग प्र नृभिर्नृवन्तः स्याम ॥३॥
उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।
उतोदिते मघवन् सूर्ये वयं देवानां सुमतौ स्याम ॥४॥
भग एव भगवाङ् अस्तु देवास्तेन वयं भगवन्तः स्याम ।
तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥५॥
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
अर्वाचीनं वसुविर्द भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥६॥
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥७॥

३२
यस्ते मन्यो ऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् ।
साह्याम दासमार्यं त्वया युजा वयं सहस्कृतेन सहसा सहीयसा ॥१॥
मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः ।
मन्युर्विश ईड़ते मानुषीर्या: पाहि नो मन्यो तपसा सजोषा: ॥२॥
अभीहि मन्यो तपसस्तवीयान् तपसा युजा वि जहि शत्रून् ।
अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं न: ॥३॥
त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामो अभीमातिषाहः ।
विश्वचर्षणिः सहुरिः सहीयाङ् अस्मास्वोजः पृतनासु धेहि ॥४॥
अभाग: सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेत: ।
तं त्वा मन्यो अक्रतुर्जिहीड़ाहं स्वा तनूर्बलदावा न एहि ॥५॥
अयं ते अस्म्युप न एह्यर्वाङ् प्रतीचीनः सहुरे विश्वदावन् ।
मन्यो वज्रिन्नुप न आ ववृत्स्व हनाव दस्यूँरुत बोध्यापे ॥६॥
अभि प्रेहि दक्षिणतो भवा नो अधा वृत्राणि जङ्गनाव भूरि ।
जुहोमि ते धरुणो मध्वो अग्रमुभा उपांशु प्रथमा पिबेव ॥७॥

३३
अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते ।
विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः ॥१॥
सुजातं जातवेदसमग्निं वैश्वानरं विभुम् ।
हव्यवाहं हवामहे स नो मुञ्चत्वंहसः ॥२॥
यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन्।
एवा देवेभ्यः सुमतिं ह्यावह स नो मुञ्चत्वंहसः ॥३॥
यामन्यामन्नुपयुक्तं वहिष्ठं कर्मन् कर्मन्नाभगम् ।
अग्निमीडे रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः ॥४॥
येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः ।
येनाग्निना पणीनिन्द्रो जिगाय स नो मुञ्चत्वंहसः ॥५॥
येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन् ।
येनेदं स्वराभरन् स नो मुञ्चत्वंहसः ॥६॥
यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यञ्च केवलम् ।
स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥

३४
वायो: सवितुर्विदथानि मन्महे यावात्मन्वद्विदथो यौ च रक्षथ: ।  
यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः ॥१॥
ययो: संख्याता वरिमाणि पार्थिवा याभ्यां रजो गुपितमन्तरिक्षम् ।
ययो: प्रयां नानु कश्चनानशे तौ नो मुञ्चतमंहसः ॥२॥
तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो ।
युवं वायुः सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः ॥३॥
प्र सुमतिं सवितर्वाय ऊतये महस्वन्तं मत्सरं मादयेथाम् ।
अर्वाग्वामस्य प्रवता नि यच्छथस्तौ नो मुञ्चतमंहसः ॥४॥
रयिं मे पोषं सवितोत वायुस्तनू दक्षमा सुवतां सुशेवम् ।
अयक्ष्मतां महो अस्मासु धत्तं तौ नो मुञ्चतमंहसः ॥५॥
अपेतो वायुः सविता च दुष्कृतमप यक्ष्मं शिमिदां सेधतं परः॥
सं ह्यूर्जा: सृजथः सं बलेन तौ नो मुञ्चतमंहसः ॥६॥
उप श्रेष्ठा न आशिषो देवयोर्धामन्नस्थिरन् ।
स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चतमंहसः ॥७॥

३५
मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाता अवन्तु।  
आशूनिव सुयमां ह्व ऊतये ते नो मुञ्चन्त्वंहसः ॥१॥
उत्समक्षितं व्यचन्ति ये सदा ये वा सिञ्चन्तु रसमोषधीषु ।
पुरो दधे मरुतः पृश्निमातृंस्ते नो मुञ्चन्त्वंहसः ॥२॥
पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ ।
शग्मा भवन्तु मरुतः स्योनास्ते नो मुञ्चन्त्वंहसः ॥३॥
अपः समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि ये सृजन्ति ।
ये ऽद्भिरीशाना मरुतश्चरन्ति ते नो मुञ्चन्त्वंहसः ॥४॥
ये कीलालैस्तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति ।
य ईशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्वंहसः ॥५॥
यदीदिदं मरुतो मारुतेन यदि देवा दैव्येनेदृगार ।
यूयमीशिध्वे वसवस्तस्य निष्कृतेस्ते नो मुञ्चन्त्वंहसः ॥६॥
युयतिग्ममनीकं विदितं सहस्वन्मारुतं शर्धः पृतनासूग्रम् ।
स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः ॥७॥

(ड़ति सप्तर्चोनामचतुर्थकाण्डे सप्तमो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 11, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP