वरणो वारयाता अयं देवो वनस्पतिः ।
यक्ष्मो यो अस्मिन्नाविष्टस्तमु देवा अवीवरन् ॥१॥
इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च ।
देवानां सर्वेषां वाचा यक्ष्मं ते वारयामहे ॥२॥
यथा वृत्र इमा आपस्तस्तम्भ विश्वधा यतीः ।
एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये ॥३॥
ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि ।
अत्रा त इन्द्र: केवलीर्विशो बलिहृतस्करत् ॥४॥केबली
आ त्चाहार्षमन्तरभूर्युवस्तिष्ठाविचाचलत् ।
विशस्त्वा सर्वा आ यन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥५॥
इहैवैधि माप च्योष्ठा: पर्वत इवाविचाचलि ।
इन्द्रेह ध्रुवस्तिष्ठेह राष्ट्रं नि धारय ॥६॥
इन्द्र एतमदीधरद् ध्रुवं ध्रुवेण हविषा ।
तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥७॥
ध्रुवं ते देव: सविता ध्रुवं देवो बृहस्पतिः ।
ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥८॥
ध्रुवा द्यौर्ध्रुवा पृथिवी समुद्राः पर्वता ध्रुवाः ।
देवा ह धर्मणा ध्रुवा ध्रुवो राजा विशामयम् ॥९॥
वृषेन्द्रस्य वृषा दिवो वृषा पृथिव्या अयम् ।
वृषा विश्वस्य भूतस्य त्वमेको वृषो भव ॥१०॥
समुद्र ईशे स्रवतामग्निः पृथिव्या वशी ।
सूर्यो नक्षत्राणामीशे त्वमेकवृषो भव ॥११॥
सम्राडस्यसुराणां ककुन्मनुष्याणाम् ।
देवानामर्थभागसि त्वमेको वृषो भव ॥१२॥
परि वर्त्मान्येषामिन्द्रः पूषा चं सस्त्रतुः ।
मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम् ॥१३॥
मुग्धा अमित्राश्चरत आशीर्षाण इवाहय: ।
अथैषामग्निरुद्धानामिन्द्रो हन्तु वरंवरम् ॥१४॥
ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि ।
पराङ् अमित्र एषत्वर्वाची गौरुपेषतु ॥१५॥


संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ ।
इडस्पदे समिध्यसे स नो वसून्या भर ॥१॥
सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे संजानाना उपासते ॥२॥
समानो मन्त्र: समिति: समानी समानं चित्तं सह वो मनांसि ।
समानेन वो हविषा जुहोमि यथा संमनसो स थ ॥३॥
समानो मन्त्रः समितिः समानी समानं मन: सह चित्तमेषाम् ।
समानं मन्त्रमभिमन्त्रये व: समानमेषां हविषा जुहोमि ॥४॥
उत् सूर्यो दिव एति पुरो विश्वा निजूर्वन् ।
आदित्यः पर्वताङ् अभि विश्वदृष्टो अदृष्टहा ॥५॥
आयुर्विदं विपश्चितं श्रुतां कण्वस्य वीरुधम् ।
आहार्षं विश्वभेषजीमस्यादृष्टान् नि शमयत् ॥६॥
नि गावो गोष्ठे असदन् नि मृगासो अविक्षत ।
नि केतवो जनानां न्यदृष्टा अलिप्सत ॥७॥
हिमवतः प्र स्रवत ता: सिन्धुमपि गच्छत ।
आपो घ मह्यं तद् देवीर्ददन् हद्द्योतभेषजम् ॥८॥
यदक्षीभ्यामादिद्योत पार्ष्णिभ्यां हृदयेन च।
आपस्तत् सर्वं निष्करन् त्वष्टारिष्टमिवानशत् ॥९॥
सिन्धुराज्ञै: सिन्धुपत्नीः सर्वा या नद्य स्थन: ।
दत्त नस्तस्य भेषजं तेन वो भुनजामहै ॥१०॥ भूनजा
पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।
पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥११॥
पुनातु मा पवमान: क्रत्वे दक्षाय जीवसे ।
ज्योक् च सूर्यं दृशे ॥१२॥
उभाभ्यां देव सवित: पवित्रेण सवेन च ।
अस्मान् पुनीहि चक्षसे ॥१३॥
ईर्ष्याया ध्राजिं प्रथमामधमामुत्तमामुत ।
मन्युं हृदय्यं शोकं तं ते निर्मन्त्रयामहे ॥१४॥
एतद्यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम् ।
ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव ॥१५॥
यथा भूमिर्मृतमना मृतान्मृतमनस्तरा ।
यथोत ममुषो मन एवेर्ष्योर्मृतं मन: ॥१६॥


द्यौश्व मा पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणा मा पिपर्तु ।
अनु स्वधा चिकितां सोमो अग्निर्वायुर्मा पातु सविता भगश्च ॥१॥
पुनर्मन: पुनरायुर्न आगन् पुनश्चक्षुः पुनराकूतिरागन् !
वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितादवद्यात् ॥२॥
सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन ।
त्वष्टा सुदत्रो वरिवः कृणोत्वनु नो मार्ष्टु तन्वो विरिष्टम् ॥३॥
इदं तद्युज उत्तरं येनेन्द्रं शुम्भाम्यष्टये ।
अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् ॥४॥
अस्य क्षत्रमग्नीषोमावस्य वर्धयतं रयिम् ।
इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ॥५॥
सबन्धुश्चासबन्धुश्च यो जातो यश्च निष्ट्यः ।
यजमानाय शुन्धते सर्वं तं रीरधासि नः ॥६॥
यशो बृहद् वर्धतामिन्द्रजूतं सहस्रभृष्टि: सुकृतं सहस्वत् । र्वर्धता
प्रसर्स्राणमनु दीर्घाय जीवसे हविष्मन्तं वर्धय सर्वतातये ॥७॥
यशा इन्द्रो यशा अग्निर्यशा: सोमो अजायत ।
यशा विश्वस्य भूतस्याहमस्मि यशस्तम: ॥८॥
वयं ते अग्ने यशसो यशोभिर्यशस्विनो हविषैना विधेम ।
स नो देहि राष्ट्रमिन्द्रजूतं तव ते रातौ अधिवाके स्याम ॥९॥
अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः ।
यथा संमनसौ भूत्वा सखिकेव सचावहै ॥१०॥
वि ते मन्युं नयामसि सखिकेव सचावहै ।
अधस्ते अश्मना मन्युं गुरुणापि नि दध्मसि ॥११॥
अभि तिष्ठामि ते मन्युं पार्ष्णिभ्यां प्रपदाभ्याम् ।
परा ते दंष्ट्रिणं वधं परा मन्युं सुवामि ते ॥१२॥ बधं
हिरण्मयः पन्था आसीदरित्राणि हिरण्मया ।
नावो हिरण्मयीरासन् याभिः कुष्ठं निरावहन् ॥१३॥
सुपर्णसुवने गिरौ जातं हिमवतस्परि ।
धनैरभि श्रुतं यन्ति कुष्ठे हि तक्मनाशन ॥१४॥
यो गिरिषु जायसे वीरुधां बलवत्तमः ।
कुष्ठेहि तक्मनाशन तक्मानं नाशयन्नितः ॥१५॥
(इति त्र्यृचनाम ऊनविंशतिकाण्डे द्वितीयो ऽनुवाकः)


इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन्नमः ।
तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥१॥
इहैव पन्था बहवो देवयाना अनु द्यावापृथिवी संचरन्ति ।
तेषामज्यानिं यतमो न आवहत्तस्मै नो देवा: परि धत्तेह सर्वे ॥२ ॥जतमो
शरद्धेमन्त: शिशिरो वसन्तो ग्रीष्मो वर्षाः स्विते नो दधात ।
आ नो गोषु भजतौषधीषु निवात इद् वः शरणे स्याम ॥३॥
वैश्वानर: न ऊतय आ प्र यातु परावतः ।
अग्निरुक्थैर्नो अंहस: ॥४॥
वैश्वानरो नो आगमदिमं यज्ञं सजूः ।
उपेमं सुष्टुतिं मम ॥५॥
वैश्वानरो नो अङ्गिरोभिस्तोमं यज्ञं च चाक्लृपत् ।
ऐषु द्युम्नं स्वर्यमत् ॥६॥
अजैषं त्वा संलिखितमजैषमुत संरुधम् ।
अविं वृको यथा मथदेवा मथ्नामि ते कृतम् ॥७॥
यथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति ।
एवाहममुं कितवमक्षैर्बध्यासमप्रति ॥८॥
तुराणामतुराणां विशां देवयतीनाम् ।
समैतु विश्वतो भागो अन्तर्हस्तं कृतं मम: ॥९॥
यावद्द्यौर्यावत् पृथिवी यावदाभाति सूर्यः । द्यौर्या
तावत्सृजामि ते विषं यावदर्षन्ति सिन्धवः ॥१०॥
उच्छवसन्त उदीरते गावो अवसथादिव ।
अहीनां पश्यता विषमपवक्ता न विद्यते ॥११॥
आ जघान पृथग्धनुः सङ्गथे धमनीनाम्।
मूर्धन्यं विषमास्कद्याङ्गानि व्यसिस्रसत् ॥१२॥
मा नो देवा अहिर्वधीत् सतोकान्सहपूरुषान् ।
संयतं न वि ष्वरद् व्यात्तं न सं यमत् ॥१३॥
सं ते ददामि दद्भिर्दत: सं ते हन्वा हनू ।
सं ते जिह्वया जिह्वां संत्वास्नाह आस्यम् ॥१४॥
नमो ऽहये असिताय नमस्तिरश्चिराजये ।
स्वजाय बभ्रवे नमो नमो देवजनेभ्यः ॥१५॥

१०
मनसे चेतसे धिय आकूतय उत चित्तये ।
मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ॥१॥
प्राणायपानाय व्यानाय भूरिरेतसे ।
सरस्वत्या उरुव्यचे विधेम हविषा वयम् ॥२॥
मानो हासिषुर्ऋषयो दैव्यासस्तनूपावानः शुचयस्तपोजाः । शूच
अमर्त्या मर्त्याङ् अभि नः सचध्वमायुर्नः प्रतरं जीवसे धुः ॥३॥
इदमिद् वा उ भेषजमिदं रुद्रस्य भेषजम् ।
येनेषुमेकतेजनां शतशल्यामपब्रुवत् ॥४॥
जालाषेणाभि षिञ्चत जालाषेणोप षिञ्चत॥
जालाषे भद्रं भेषजं तस्य नो धत्त जीवसे ॥५॥
शं च नो मयश्च नो मा च नः किं चनाममत् ।
क्षमा रपो विश्वं नो ऽस्तु भेषजम ॥६॥
यशसं मेन्द्रो मघवान् कृणोतु यशसं सोमो वरुणो वायुरग्नि:।
यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया स्यामहम् ॥७॥
यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु ।
यथा विश्वेषु देवेष्वेवा देवेषु यशस: स्याम ॥८॥
अच्छा वयमिन्द्रं यशसं यशोभिर्यशस्विनो हविषैना विधेम ।
स नो दधद्राष्ट्रमिन्द्रजूतं तस्य राते अधिवाके स्याम ॥९॥
एह यातु वरुणः सोम अग्निर्बृहस्पतिर्वसुभिरेह यातु ।
अस्य श्रियमभिसंजात सर्व उग्रस्य चेत: संमनसः सजाताः ॥१०॥
एह यातु माप याताध्यस्मत् पूषा व: परस्तादपथं कृणोतु ।
वास्तोष्पतिरनु वो ऽयमह्वन् मयि सजाता रमतिर्वो अस्तु ॥११॥
यो वः शुष्मो हृदयेष्वन्तर्या आक्फूतिर्मनसि प्रविष्टा ।
तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ।१२॥
मम चित्तः प्रयव मन्युते हेन्द्राग्न्योरिव हवमेत सर्वे ।
बृहस्पतिर्वो नि युनक्तु मह्यं मम वाचमेकचित्ताः सचध्वम् ॥१३॥
अहं गृह्वामि मनसा मनांसि मम चित्तमुप चित्तेभिरेत ।
मम वशे हृदयं वः कृणोमि मम यातमनुवर्त्मान एत ॥१४॥
मां वश्चक्षुर्गच्छतु मां प्राणो धाता पदमनुवर्त्म वः कृणोतु ।
ये वो महान्त उत ये कुमारा मम यातमनु यातेभिरेत ॥१५॥

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP