२१
यथा सूर्यो नक्षत्राणां वर्चांसि युवते दिवः।
एवा सपत्नानामहं वर्च इन्द्रियमा ददे ॥१॥
यच्च वर्च: सपत्नानां भ्रातृव्येषु च यद् वसु ।
तदिन्द्रो वृत्रहा धाता सविता दीधरन् मयि ॥२॥
याश्च गावः सपत्नानां भ्रातृव्येषु च यद् वसु ।
तं निर्येयमवजित्या सविता दीधरन् मयि ॥३॥
सत्यमेव जयतु नानृतं सत्यस्य पन्था रुजुरस्तु साधु: ।
सत्यं वदन्तः समिधे विधेम सत्येन द्यावापृथिवी अप्रचेताम् ॥४॥
वाग्भागस्य च सत्येन रुद्रस्य सुमनस्य या॥
इन्द्रेणाधिब्रुवता वयं वसु प्राशं विधेमहि ॥५॥
या ते रुद्रेषिरा यता वाचि वाते अरङ्कृता ।
येनेदं विविदामहे तस्य प्राशं त्वं जहि ॥६॥
जहि त्वं तस्य प्राशमुतसत्योमुतानृताम् ।
यो ऽस्मानिन्द्र वृत्रहन् वाचा प्राशं जिगीषति ॥७॥
उत् पमैतु प्राणो वह्वीर्यसी देवं पृणः।
उतो दिव स्म सिञ्चतां समुद्रस्येव मध्यतः ॥८॥
समुद्रस्य शतधार: सहस्रधारो आ क्षितिः ।
पुरस्तादिन्द्र आचरत् पूर्णो गोष्ठमिदं पृण: ।
इहोप पृण संपृण वृष प्रजनना: कृधि ॥९॥ बृष
इह गाव: प्र जायध्वमिहाश्वा इह पुरुषा: ।
इहो सहस्र दक्षिणो अभिप्रासा वि षीदतु ॥१०॥
ज्येष्ठघ्न्यै नक्षत्राणामह्ने रात्र्या इदं नम: ।
जुहोमि विश्वकर्मणे स शिवो मृडयाति नः ॥११॥
मा ज्येष्ठं वधीदयमग्निरेषां मूलबर्हणं परिवृणक्त्वेनम् ।
ग्राह्या: पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान् ॥१२॥
उन्मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्थिता येभिरासन् ।
मायं हिंसी: पितरं वर्धमानो मा मातरं प्रमिनीर्या जनित्री ॥१३॥
ग्राह्याः पाशान् वि चृत ये सिनन्ति यां ब्रह्मणा परिवृञ्चन्ति वेधसः ।
उन्मुच पाशांस्त्वमग्न एषां तज्जातस्यानहरहस्तु भद्रम् ॥१४॥
नि वर्तध्वं मानु गातास्मान् सिषक्त रेवतीः ।
अग्नीषोमा पुनर्वसू अस्य वर्धयतं रयिम् ॥१५॥
पुनरेना नि वर्तय पुनरेना उपा कुरु ।
इन्द्र एना नि यछत्वग्निरेना उपाजतु ॥१६॥
परि वो विश्वतो दध ऊर्जा घृतेन पयसा ।
ये देवा: के च यज्ञियास्ते रय्या सं सृजन्तु माम् ॥१७॥

२२
नमो ऽस्तु सर्पेभ्यो ये के च पृथिवीमनु ।
ये अन्तरिक्षे ये दिवि तेभ्य: सर्पेभ्यो नम: ॥१॥
ये चामी रोचने दिवो ये च सूर्यस्य रश्मिषु ।
येषामप्सु सदस्कृतं तेभ्य: सर्पेभ्यो नम: ॥२॥
या इषवो यातुधानानां ये वा वनस्पतीनाम् ।
ये वावटेषु शेरते तेभ्य: सर्पेभ्यो नम: ॥३॥
यवोच्छिष्ट हविषा वर्धयेमं यथा द्युम्नैः कृणुवद् वीर्याणि ।
सजूर्देवेभिरभि भूः सपत्नान् आयुष्मत् क्षत्रमजरं ते अस्तु ॥४॥
पुंसा यवेन हविषा पयस्वतोच्छिष्टस्यायं रक्षन्तु देवाः ।
देवाह्यस्मिन् निदधुर्नृम्णं बृहदस्मादिन्द्रो वयो दधातु ॥५॥
समुच्छिष्टस्य हविषा समुक्थै समायुषा वर्चसा पयो दधातु ।
देवाह्यस्मिन् निदधुर्नृम्णं बृहदस्मादिन्द्रो वयो दधातु ॥६॥
वायुरेना: समाकरत् त्वष्टा पोषाय ध्रियताम् ।
इन्द्र आभ्यो अधि ब्रुवद् रुद्रो भूम्ने चिकित्सतु ॥७॥
यथा चकुर्देवा असुरा यथा मनुष्या उत ।
एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना ॥८॥
लोहितेन स्वधितिना मिथुनं कर्णयो: कृधि ।
अकर्तामश्विनालक्ष्म तदस्तु प्रजया बहु ॥९॥
कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत् पतन्ति ।
आा च वर्तन्ते सदनादृतस्यादिद् घृतेन पृथिवीं व्युद्यते ॥१०॥
पयस्वती: कृणुथाप ओषधीरिमा यदेजथा मरुतो रुक्मवक्षस: ।
ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चता मधु ॥११॥सूमतिं
उदप्लुतो मरुतस्तां इयर्त वृष्टिर्यद् विश्वा निवतस्पृणाथ ।
एजाति गल्हा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया ॥१२॥
त्वष्टेव पूषे सूर्यो दमुनामहि स्वस्तिर्वृषणा न आगन् ।
विश्वा आशा सुयवसा संरराणो ऽस्या रय्याः पुरएता न एहि ॥१३॥
एह यन्तु मधुमद्युहाना अनमीवा उषतीर्विश्वरूपाः ।
बह्वीर्भवन्तीरुपजायमानो इहेन्द्रो वो रमयतु गावः ॥१४॥रूप
प्रजापतिर्जनयतु प्रजा इमास्त्वष्टा दधातु सुमनस्यमान: ।
संवत्सर ऋतुभि: संविदानो मयि पुष्टिं पुष्टिपतिर्दधातु ॥१५॥

२३
सहसी नाम वा असि सहसस्परि यज्ञिषे ।
सहस्वानिन्द्रो देवेषु सहसे त्वा खनामसि ॥१॥
सहस्येन भेषजेन दिव्येन शतपर्वणा ।
तेन सहस्र काण्डेन कृणोमि पुनराभृतम् ! ॥२॥
सहसो ऽहं भेषजस्य दिव्यस्य नाम जग्रभ ।
व्याशिष इव तस्थिरे यक्ष्मासः पुरुषादधि ॥३॥
अपेत एतु निर्ऋतिर्नेहास्यापि किं चन ।
अपास्यां सत्वन: पाशान् मृत्युनेकशतं नुदे ॥४॥
ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे ।
तांस्ते यज्ञस्य मायया सर्वाङ् अप यजामसि ॥५॥
निरितो यन्तु नैर्ऋत्या मृत्योव एकशतं पर: ।
सेधान्मैषां यत्तम: प्राणान् ज्योतिश्च दध्महे ॥६॥
त्रिषप्ता वारणा इमास्ताभिर्मामिन्द्रो अब्रवीत् ।
विषं वारयतादिति विषं दूषयतादिति ॥७॥
अप ब्रूतेदं मरुतो महीन्द्रस्यापवाचनी ।
एषां सहस्रमर्हत्येषां वारयते विषम ॥८॥
अस्थाद् द्यौरस्थात् पृथिव्यस्थाद् विश्वमिदं जगत् ।
अस्थुर्विषस्याभीतय: प्रतिकूल इवाबला: ॥९॥
यथा वाण: सुसंशित: परापतत्याशुमत् ।
एवा कासे परापतत् साकं वातस्य ध्राज्या ॥१०॥
यथा चक्षुश्चक्षुष्मतः परापतति केतुमत् ।
एवा कासे परापतत् साकं सूर्यस्य रश्मिभिः ॥११॥
यथा मदो मन्युमतां परा पतति योजनम् ।
एवा कासे परापतत् समुद्रस्यानु विक्षरम् ॥१२॥
इत एवाव गच्छतोग्रा भवतु माबला: ।
ह्वयन्तु सर्वे वो देवाः सर्वा वो वृण्वतां विशः ॥१३॥
यदवगमेन हविषाव वी गमयामसि ।
अत्रा त इन्द्र: केवलिर्विशी बलिहृतस्करत् ॥१४॥ केबलि
इन्द्रः कश्यप आदग्निरिडा तुरिया व: सखा ।
यद् भूतं भव्यमसुन्वत् तेनाव गमयामिव ॥१५॥

२४
न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते ।
यं भेषजस्य गुग्गुलो: सुरभिर्गन्धो ऽश्नुते ॥१॥
यं गुग्गुलोर्भेषजस्य सुरभिर्गन्धो ऽश्नुते ।
विश्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते ॥२॥
यद् गुग्गुलु सैन्धवं यद् वाघासि समुद्रियम् ।
उभयोरग्रभं नामास्मा अरिष्टतातये ॥३॥
देवा एतं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः ।
इन्द्र आसीत् सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानव: ॥४॥
बृहत् पलाशे सुभग उर्ध्वस्वप्न ऋतावरि ।
मातेव पुत्रेभ्यो मृड केशेभ्यो न: शमि ॥५॥
यस्ते मदोवकेशो यो विकेशो येनाभिहस्यं पुरुषं कृणोषि ।
भृणघ्नो विरुवारा चर त्वं तस्य ते प्रजयाः प्र सुवामि केशान ॥६॥
आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु ।
यामाशामेमि केवली सा मे अस्तु विदेयमेनां मनसि प्रविष्टाम् ॥७॥
आकूत्या नो बृहस्पत आकूत्या न उपा गहि ।
अथो भगस्य नो धेह्यथो नः सुभगो भव ॥८॥
बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम् ।
यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् ॥९॥
मनो न्वा हुवामहे नाराशंसेन स्तोमेन ।
पितॄणां च मन्मभिः ॥१०॥
आा न एतु मन: पुनः क्रत्वे दक्षाय जीवसे ।
ज्योक् च सूर्यं दृशे ॥११॥
पुनर्नः पितरो मनो ददातु दैव्यो जनः । पन
जीवं व्रातं सचेमहि ॥१२॥
वयं सोम व्रते तव मनस्तनूषु बिभ्रतः ।
प्रजावन्त: सचेमहि ॥१३॥
वर्चो मे मित्रावरुणा वर्चो देवी सरस्वती ।
वर्चो मे अश्विनोभा धत्तां पुष्कर स्रजा ॥१४॥
यच्च वर्चो यजमाने यच्च यज्ञेध्याहितम् ।
सुरायां बभ्रु यद् वर्चस्तस्य भक्षीय वर्चसः ॥१५॥
या उत्सेभ्यः प्रस्रवन्ति दिवोधारा नदीभ्यः ।
तासां त्वा सर्वासामपामभि सिञ्चामि वर्चसा ॥१६॥
यद्राजानं शकधूमं नक्षत्राण्यकृण्वत ।
भद्राहमस्मै प्रायच्छन् ततो राष्ट्रमजायत ॥१७॥
भद्राहमस्तु नः सायं भद्राहं प्रातरस्तु नः ।
भद्राहमस्मभ्यं त्वं शकधूम सदा कृणु ॥१८॥
यो नो भद्राहमकरत् सायं प्रातरथो दिवा ।
तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥१९॥
यदाहु: शकधूमं महा नक्षत्राणां प्रथमजं ज्योतिरग्रे ।
तन्नः सतीं मधुमतीं कृणोतु रयिं च न सर्ववीरं नि यच्छात् ॥२०॥
(ह्रति त्र्यृचनाम उनविंशतिकाण्डे षष्ठोऽनुवाकः )

२५
यूपेरन्ते विद्वेषणं देवानां वर्चसा कृतम् ।
अग्निर्वामस्त्वन्तरा यथा वां न सहासति ॥१॥
यथाहिं द्वेष्टि पूरुषो ऽहिर्वा द्वेष्टि पूरुषम् ।
अग्निर्वामस्त्वन्तरा यथा वां न सहासति ॥२॥
नानानं वामाकूतानि नाना चित्तानि सन्तु वाम् ।
विश्वञ्चौ पर्यावर्तयेथां यथा वां न सहासति ॥३॥
अडदेकमडद्दवे तुण्डे न मशीतकं भङ्गलापतेद् वः ।
एतद् यत् ते यद् वा न चासन् नो च ते भूवत् ॥४॥
स्वप्ने वित्तं यथा धनं नश्याद्यदेति रेचितम् ।
आगिलो गिला पापाजितो गिल नश्यात् ब्रध्नकमभिकम् ॥५॥
दीर्घायुत्वाय सहसे मह्या अरिष्टतातये ।
सुपर्णो मह्यमब्रवीदेतदाश्लिष्ट भेषजम ॥६॥
सक्तुर्नवति तुतउना पुनन्तो विद्वांसो वाचमग्रत ।
अङ्गेभ्यो विश्वाङ्गेभ्यः प्र ते छिनद्भ्यांश्लिष्टम् ॥७॥
अवछिन्द्याश्लिष्टं ऊर्वा ह्यसि भेषजी ।
दिव्यः सुपर्णो अब्रवीदेतदाश्लिष्ट भेषजम् ॥८॥
अभिभूरहमागमं विश्वकर्मास्यायुज: ।
अहं मित्रस्य कल्पयन् आाश्वाश्वासुदुष्टर: ॥९॥
अहं समित्ययनो अहं विशां पुरोहितः ।
अहं मित्राणि कल्पयन्मयि वागस्तु धरुण्यसि ॥१०॥
आवश्चक्षुरावो वाचमा व: समितिं ददे ।
योगक्षेमं व आदायाहं भूम्यासमुत्तमः ॥११॥
ब्रह्मणाग्नि: संविदानो रक्षोहा नुदतामित:।
अरायो यस्ते तन्वां दुर्णामा योनिमाशये ॥१२॥
यस्तेराया तन्वां दुर्णामा योनिमाशये ।
अग्निष्टं ब्रह्मणा युजा रक्षोहा नुदतामित: ॥१३॥
यान्यृत्व्यानि रक्षांसि येराया यातुधाना: ।
अग्निष्टान् शग्मया तन्वा रक्षहा पातु तेभ्यः ॥१४॥

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP