४६
ध्रुवोसि धरुणोस्तृतो विश्वकर्मणा सुधृतः ।
मा त्चा समुद्र उद् वधीन्मा सुपर्णो व्यथमान इमं दृंह ॥१॥
आषाढोसि सहमान: सहस्वारातिं सहस्व पृतनायत: ।
सहस्रवीर्योसि स इमं जिन्व ॥२॥
अद्भ्य: संभूतोसि पृथिव्या रसाच्च विश्वकर्मण: समवर्त्तता अधि ।
तस्य त्वष्टा विदधदेतिरूपं विद्वान् तत् ते देवमाजानमग्रे ॥३॥
षष्टिश्चाध्वर्यो नवतिश्च पाशा होतारमग्निमन्तरा विचृत्ता: ।
छिन्दन्ति पाशमति धीर एत्वृतस्य पन्थामनु नेषि विद्वान् ॥४॥
यो अध्वर्युः सप्तहोत्राणि विद्वान् पूर्वो होतुर्यजत आ जिघर्ति।
ऊर्ध्वं स यज्ञमध्वरं कृणोति य इं चकेत हविषो विभागे ॥५॥
अत्रो विभक्तिर्हविषो विभागे मा निर्भाक्षीद् भागिनं मोपहत्या।
समो अभागो विदत यो मुमोह ॥६॥
वात आ वातु भेषजं शम्भु मयोभू नो हृदे ।
प्र ण आयूंषि तारिषन् ॥७॥
उत वात पितासि न उत भ्रातोत नः सखा ।
स नो जीवातवे कृधि ॥८॥
यददो वात ते गृहे नि हितं भेषजं गुहा ।
तस्य नो देहि जीवसे ॥९॥
यो न जीवोसि न मृतो देवानाममृतगर्भोसि स्वप्न ।
वरुणानी ते माता यम: पिता ॥१०॥
यथा कलां यथा सफं यथर्णं संनयन्ति ।
एवा दु:ष्वप्न्यं सर्वमप्रिये सं नयामसि ॥११॥
अररुर्नामसि तं त्वा स्वप्न तथा विद्म ।
स नः स्वप्न: सुष्वप्न्यान् तां देहि ॥१२॥
नैतस्याग्रे हविरदन्तु देवा निर्भक्त एष सुकृतस्य लोकात् ।
पापीं धियं जुजुष आत्मनैष स हि दुष्कृन्मनुष्वेष्वन्त: ॥१३॥
यो मातृहा पितृहा स्वसृहा ये च दुष्कृताः ।
दिधिषौते अमृतक्षमल मनुष्या इव ॥१४॥
एतद् देवयुतं निर्ऋतिरुषदेवा भ्रूणघ्नाल्लोकमप्येत्वेषः ।
न चेतृत्वे हविष्षा नाथितश्च राष्ट्रमेते शक्रा वि चृतन्ति पाशम् ॥१५॥

४७
य आखो यो व्युखो विणावाङ् इव सर्पति ।
तं परि परिभेषजं वृश्चिक जम्भनमसि ॥१॥
मयूरो अत्ति वृश्चिकं मयूरं वयं विद्मसि ।
तं परि परिभेषजं वृश्विक जम्भनमसि ॥२॥
आप इद् वा उ भेषजीरापो अमीव चातनी: ।
आपो विश्वस्य भेषजीरापी वृश्चिक जम्भनी: ॥३॥
त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।
त्वं यज्ञेष्वीडय: ॥४॥
यद् वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः।
अग्निष्टद् विश्वादा पृणातु विद्वान् सोमस्य यो ब्राह्मणाङ् आविवेश ॥५॥
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् ।
अग्निर्विद्वान् स यजात् स इद्धोता सो अध्वरान् स ऋतून् कल्पयाति ॥६॥
उत्तदा ईशमिद्वतीं विदुर्योणा इव इविदुं पदायि ।
उतस्याः पातया मन: सश्वतीभ्यः समाभ्यः ॥७॥
पक्वं मांसमिवाश्विना शकुनिः प्रपतनां कृधि ।
मृगाङ् अनु प्र पातय मरीचीरनु नाशय ॥८॥
विश्वञ्चौ गावा वा कुरु विश्वञ्चौ युग्या उत।
उतासौ सूर्य उद्यन विश्वञ्चौ गां व्याकरत् ॥९॥
विषमुग्रं विषं स्थिरं विषस्य महिमा महान् ।
विषं परश्वतः शिरः शतधा व्यापातयत् ॥१०॥
सं दह व्रजं यथा वसुभावसु वर्त्तयत् ।
यं विषं प्र सर्पसि समग्निरिव तं दह ॥११॥
गृहाण मांसानि यव लोमानि पातय ।
पांशुन कुकाट आवपात् सिन्ध्यूत्तान् पादमदीय ॥१२॥   
मधोरहं मधुतरो मधुधान् मधुमत्तरः ।
आसने किल मे मधु मुखेन मन्दनं कृतम् ॥१३॥
मामित्त्वमभ्यचाकशो मृगस्तृष्यन्निवोदकम् ।
अधस्पदान्म उद् वदामि मण्डूको गोशफादिव ॥१४॥
उद् वदाम्यधस्पदान् मण्डूको गोशफादिव ।
अथोपचक्रा आसासैश्चावन्ध इवाहत: ॥१५॥

४८
आवद बहुलं गोष्ठं सुवीरं बहुपूरुषम् ।
यथेतो न: प्र मीयता एवा मे गोष्ठमा वद: ॥१॥
आवद दुहितुस्पित्रे भ्रातुर्जामातराविव ।
पश्चात् उत्तुढ स्फिज: किष्किन्धानामवीर्जहि ॥२॥
यदुलूको वदति मोघमेतद् यत् कपोतः पदमग्नौ कृणोति ।
शितिकर्णाय कवये स्तोम्याय तस्मै यमाय नमो अस्त्वद्य ॥३॥
ये ऐन्द्रा: पाशा ये च वारुणा आरे अस्मत् तान् देवी निर्ऋतिर्दधातु ॥४॥
ये वैश्वानरा: पाशा ये च मारुता आरे अस्मत् तान् देवी निर्ऋतिर्दधातु ॥५॥
ये वैश्वानरा: पाशा ये च वैश्वकर्मणा आरे अस्मत् तान् देवी निर्ऋतिर्दधातु ॥६॥
नारदे कितवे वरुणे सोमे ऐच्छन् महिमानं महान्तम्।
अविन्दत् त्वं विश्वकर्मणः समुद्रे अक्षाणां
क्लदमैनमस्मिन् दधामि ॥७॥
यद्धस्तयोर्यच्चक्षुषोर्मनो यत् प्रविवेश ते।
स्कन्दानस्य प्रस्कन्देन क्लदेन क्लदयामि तत् ॥८॥
त्रिस्रो देवीरप्सरस आकैका साकैका प्रेत प्रयामेत्येकस्या नाम ।
जुषाणा अप्सरस आज्यस्य सहसो व्यन्तु स्वाहा ॥९॥
अत्याक्षं त्वा मनसा अत्याक्षं हृदयेन त्वा ।
अत्याक्षं सर्वैरङ्गैस्त्वा तथा हि त्यजनं कृतम् ॥१०॥
इमा याः प्रति नन्दथ स्त्रियः पुमांसमन्वतम् ।
सर्वाः संगत्य दूत त्यजने त्यजनं कृतम् ॥११॥
त्यजनं मे द्यावापृथिवी आधातां त्यजनं देवः सविता बृहस्पतिः।
अग्निश्च तुभ्यं सूर्यश्च त्यजने त्यजनं कृतम् ॥१२॥
सं दिवः सं पृथिव्या: सं वातात् सं नदीभ्यः ।
संस्कन्दमिन्द्र आरभत् सह गात् संहरादिदम् ॥१३॥
संस्कन्दमोज ओजसा देवेभिर्नाम ते हितम् ।
ईरण्यनाम नाम ते संस्कन्दास्योषधे ॥१४॥
सं समुद्रो नदीभि: सं द्यावापृथिवी उभे ।
सं जायापत्या योन्यां संस्कन्दास्योषधे ॥१५॥
सं ते शीर्ष्णः कपालानि सं योनिं सं गवीन्यो ।
सं ते सर्वाण्यङ्गानि संस्कन्देनाभिदध्मसि ॥१६॥
श्रीयं धातुर्मयि धेहि श्रीयामाधिपतिं कृणु।
वीशामीशानो मघवानिन्द्रो मा यशसा जयत् ॥१७॥
मयि त्वदिन्द्रियं बृहन् मयि दक्ष उत क्रतुः ।
धर्मस्तिश्चित् वि भातु मा गायत्री छन्दसां विराड् ज्योतिषां तस्य दोहमशीय ॥१८॥
अर्कासधस्थौ कविर्मातरिश्वानौजमाङ्गिरसः ।
यशस्विनं मा देवा यशस: कृणुत स्वाहा ॥१९॥
(इति त्र्यृचनाम ऊनविंशतिकाण्डे त्रयोदशो ऽनुवाकः )

४९
इन्द्रं वयं वणिजं हवामहे स नस्त्राता पुर एतु प्रजानन् ।
घ्नन्नरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥१॥
पणो नो अस्तु प्रपणो विक्रयश्च प्रतिपणो नो धनिन: कृणोतु ।
संरराणा आहुतिं जुषन्तां शुनं नो अस्तु चरितमुत्थितं च ॥२॥
यत् पणेन प्रतिपणं चरामि स्वेन देवा धनमिच्छमानः।
इन्द्रो मे तस्मिन् रुचिमा दधातु बृहस्पति: सविता सोम अग्निः ॥३॥
इहैव: पन्था बहवो देवयाना अनु द्यावापृथिवी संचरन्ति । वहवो
तेषामहं मा वर्चस्या दधामि यथा क्रीत्वा धनमावहानि ॥४॥
विध्य वाससे निऋतिर्ये च पाशा अपश्रिता: ।
तेभ्य: प्र मुच्यते वल्मी विष्कन्धमपसादयन् ॥५॥
न वै तद् वासो भवति अस्मिन् विध्यन्ति पूरुषम् ।
अस्मासमज्जते रूपं तस्मात् तदपि लोप्यम् ॥६॥
उत्तिष्ठन् नु प्रियाजेता विद्वान् बहु भाज्यम् ।
न पन्थां भद्रमश्नुते य एनेन चरामहे ॥७॥
ब्रह्मणैतत् प्रतिगृह्यन् तेन तत् कृणुते शिवम् ।
अर्कात् प्रमुच्यते पाशांस्तेन दाता वि पश्यति ॥८॥
यौ व्याघ्राववरुढाववाञ्छौ जिघत्सत: पितरं मातरं च ।
तो दन्तौ ब्रह्मणा ब्रह्मणस्यते शिवौ कृणु त्वमिह जातवेद: ॥९॥
व्रीहिमत्तं यवमत्तं माषमत्तमथो तिलम् ।
एष वां भागो निहितो रत्नधेयं मा हिंसिष्टं पितरं मातरं च ॥१०॥
अघोरौ सयुजा संविदानौ स्योनौ दन्तौ सुमङ्गलौ ।
मा हिंसिष्टं पितरं मातरं चान्यत्र वां तन्वो घोरमस्तु ॥११॥
ऐनान् द्यतामिन्द्राग्नि राज्ञा सोमेन मेदिना ।
इन्द्रो मरुत्वानादानममित्रेभ्य: कृणोतु मे ॥१२॥
इदमादानमकरं तपसेन्द्रेण संशितम् ।
अमित्रा येत्र सन्ति मे ताना द्या द्विषतो मम ॥१३॥
आदानेन संदानेनामित्रान् सं द्यामसि ।
अपाना ये चैषां प्राणा असुनासून् समछिदन् ॥१४॥
प्रतूर्त्ताय मरुत्वते स्वाहा ॥१५॥
जयद्वीरायाभिषक्तने स्वाहा ॥१६॥
बूहस्पतये विश्वदेवते स्वाहा ॥१७॥
    
५०
प्र द्यौः प्र पृथिवी प्रान्तरिक्षं स्वर्महत् ।
प्रैताः समुद्रिया आपः शल्यमुच्चिच्युवुः ॥१॥
प्र त्वा वातश्च्यावयतु प्र भूमिः सह सासह ।
प्रैताः समुद्रिया आपः शल्यमुच्चिच्युवुः ॥२॥
प्र त्वा सूर्यश्यावयतु नक्षत्रैः सह मेदिभिः ।
प्रै ता: समुद्रिया आपः शल्यमुच्चिच्युवुः ॥३॥
यो वा पौतुद्रुवो मणिर्विश्वभेषज आगमत् ।
सो ऽस्मत् सर्वं दुष्वप्न्यमपि हन्तु तमश्च यत् ॥४॥
अपास्मत् सर्वं दुष्वप्न्यमपि पापा या च लक्ष्मीः ।
अधाहिरण्य वर्चसं सर्वधावा मणे कृधि ॥५॥
सर्वधावाहं भगवानिन्द्रियावान् विषासहिः ।
यं मा पौतुद्रुवो मणिर्द्रविणेन स आरुहद्॥
मा इन्द्रियेण स आरुहत् ॥६॥
पुमानश्वो धनं वित्तिः पुमान्निष्को हिरण्ययः ।
पुमांसं पुत्रमोषधेस्यै आ धेहि नार्य्यै ॥७॥
यथा नन्दाः पुंसा जाता न व्रवस्तीति कश्चन ।
एवा त्वं पुत्रमोषधेस्यै आ धेहि नार्य्यै ॥८॥
अश्वेन रिष्येन गवा: क्रीतास्योषधे ।
अश्वश्श्वेतो धनं तव हिरण्यं हरितं तव ।
दत्ता सोमेन राज्ञे ह पुंसवनं भव ॥९॥
यन्मे नृम्णं द्रविणं ब्राह्मणं च यच्च श्रुतं यच्च रत्नं बिभर्मि ।
एतन्नो अत्र निधिपा नु पातु यावद् ऐमि त्रीणिमज्मा व्रज्या: ॥१०॥
यन् मे नृम्णं द्रविणं ब्राह्मणं च ये अग्नयो धृष्णियासो मयीमे।
हरिश्चन्द्रो रक्षतु तन्नो अत्र यावद् ऐमि पुरो ग्रामं चरित्वा ॥११॥
एषैष: ऐमि पुरो ग्रामं चरित्वा सोनृम्णं द्रविणं ब्राह्मणं च।
यदत्रापि त्वे शुचीदं तदहमा ददे ॥१२॥
आसूर्यो हि प्रथमं दस्युहत्याय शक्र हार्यं जाने मघवन् सहस्वन् ।
दासं पर्णं रन्धयनार्याय युञ्चानो बाहू पुरुहूतं वज्रम् ॥१३॥
आहू रूढ ते दस्युहत्याय भूर्णि दृढान् पर्वन् श्रृण्विन्द्र ।
तीव्र: श्रद्धो बहुलान्येषा मयज्मनो अर्पय सं वधेन ॥१४॥
दर्शय नः चित्तपावनमिन्द्रं बहु साकं शराङ् इव पश्यमान: ।
यो न धृष्णिं मघवानं पृतन्यादभिरुतेषु कवयो ववृत्या: ॥१५॥

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP