३६
दीर्घजिह्वा बृहद् वाचो याभिरिन्द्राणि वामासि ।
गावो घृतस्य मातरो दिवि भेषजमक्रत ॥१॥
अर्जुनीनामपचितां कृष्णा मातेति शुश्रोव ।
मुनेर्देवस्य मूलेन सर्वा: छिनद्मि ता अहम् ॥२॥
छिनद्म्यासां प्रथमां छिनद्म्युत मध्यमाम् ।
उतो जघन्यामासामा छिनद्मि स्तुकामिव ॥३॥
अपेहि मनसस्पते किमशस्तानि शंसति ।
परेहि न त्वा कामये वृक्षान्वनानि सं चर: ॥४॥
अवशसा नि:शसा यत् पराशसोपारिमः यज्जाग्रतो यत् स्वपन्तः ।
अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद् दधातु ॥५॥
यदिन्द्र ब्रह्मणस्पते उत मृषा चरामसि ।
प्रचेता न आङ्गिरसो द्विषतस्पातु तेभ्य: ॥६॥
एहमामुत्तरं कृधि सहस्व पृतनायत: ।
व्यस्मत् कृत्या व्यस्मच्छपथाङ् अज ॥७॥
यो नो ऽधिरुषान्मनसा यश्च पापेन नो भ्यमात् ।
आकूतिं तस्य देवा हृदश्चित्तानि वृश्चन्ताम् ॥८॥
अश्व इव धृतियोग: प्रति हायामहे धस ।
कृत्वानं ब्रह्मणस्पते दंष्ट्राभ्यामभिसं जहि ॥९॥
यो ऽन्या अधिप्रजायथा मूर्ध्नो ऽध्युदवर्धथाः ।
त्वं सपत्नचातनो भ्रातृव्याङ् अव धूनुष्व ॥१०॥
बहुरयं सङ्गुरुष्टो न्यक्तो भूम्यामधि ।
तेनाहमास्यं कृत्स्यामि यथा त्वा मा गमिष्यति ॥११॥
स्थामागं बृहदक्षत्रं स्थामन्ताक्षिणो व्यस्यति ।
अनुष्ठानस्य यो राजा स उत्थाम गमिष्यति ॥१२॥
अगमद्राजा सदनमगमत् सूर्यो दिवम् ।
उदयन् वृत्रहन् प्लीहा अङ्गराजो अवीरहा ॥१३॥
यथा पन्थां कवापथो अप्येति महापथम् ।
एवा त्वं प्लिहीन्नप्लीहि यतीनस्यभ्यागत: ॥१४॥
इन्द्रेण दत्तं बलमासुराभ्यां शितङ्गैः तच्छाल्वतायै च तुभ्यम् ।
तौ नुदेथा कण्वा अशिवा अजुष्टा अधा गृहाणां गृहपास्तमेषाम् ॥१५॥
त्वमग्ने गृहपतिर्गृहाणां त्वं प्रजानां जनिता सुजात: ।
त्वं नुदस्व कण्वा अशिवा अजुष्टाः सदान्वा निदधस्येताः पापीः॥१६॥
चर्माभ्यः क्रूरमानह्य हरिणस्य भयं कृधि ।
मृगाङ् अनु प्र पातय मरीचीरनु नाशय ॥१७॥
यद्यस्यप्सरावी यदि त्वा रक्षो अग्रभीत् ।
तस्मा अपप्लवं हविर्मनसा जुहोमि ते ॥१८॥
(इति त्र्यृचनाम ऊनविंशतिकाण्डे नवमो ऽनुवाकः )

३७
अभि त्वा शतपाशया अथो सहस्रपाशया ।
दासोमत्स्यमिवतीदेन मयि बध्नामि ते मनः ॥१॥
आ हि ते दक्षिणं पदं हृदय्यं ददे ।
उपस्थे पदमोपि नि त्वामकृच्छ्रे ऽवसे ॥२॥
परि त्वा गामिवासरं मम पत्तो निपातवे ।
तं मारुतं ह वैरुधमाव तं करणं कृतम् ॥३॥
आ नयामि ते मनो अश्वमिवाश्वाभिधान्या ।
उप ते मुञ्चे मनः पदोरुपानहौ यथा ॥४॥
यथा सुरा यथा मधु यथाक्षा अधि देवने ।
यथाह गव्यतो मन एवा मामभि ते मनः ॥५॥
एवा कृणुष्व मा प्रियामन्त: कृणुष्व मां हृदि ।
यथा नान्यापचेतया नान्यासां कीर्तयाश्चन ॥६॥
यस्येदं वैष्टपं हविर्भगस्य हस्तयोर्हितम् ।
तेना त्वाभि मृणामसि सौभाग्याय स्वस्तये ॥७॥
भगमेमां त्सं वष्ट्यारो मा पश्चान्मा पुरो दघः ।
अधा भगस्य यो भगस्तेन मां संसृजा भग ॥८॥
भगेन त्वा सं सृजामि मा ररेण सुरामिव ।
अथाससि प्रियः पतिर्देवृग्भ्यः सुभगाससि ॥९॥
उदितो दैव्यं वच इषुमिव त्रीण्यः इष्यते ।
तेनासपत्नान् मामकान् सासहानि जहानि च ॥१०॥
अग्निर्मा पातु वसुभिः पुरस्तात् सवितादित्यैरभि पातु दक्षिणात्।
इन्द्रो मरुद्भिरभि पातु पश्चाद्विश्वे देवा अभिरक्षन्तु नोत्तरात् ॥११॥
देवराक्षसान् मा पाहि मनुष्यराक्षसान् मा पाहि ।
विश्वस्मान् मा रक्षसः पाहि ॥१२॥
असौ यस्त्रिककुद्गिरिः शृङ्गाभ्यामभितिष्ठति ।
स संपतत्रमुद्यगं बलासमिव तिष्ठतु ॥१३॥
दिव्यः सुपर्णो आ पतदयोदंष्ट्रो अयोमुखः ।
स संपतत्रमुद्यगमितो यक्ष्मं पराभवत् ॥१४॥
साके बलास प्र पत चाषेण किकिदीविना ।
सांक वातस्य ध्राज्या सह नश्य निहाकया ॥१५॥

३८
माभिगाय: शबलेयं श्रोणीयं साधुवाहनम् ।
नमस्ते भद्रया कृण्मो ऽविह्वृता चक्षुषा त्वं शमका शमयाति त्वा ॥१॥
तृङ्व विक्षिणीहि पयसः कुर्वाणि गा त्वम् ।
जारेण पत्याजक्षती गृहान् गोपायमानिका शमका शमयाति त्वा ॥२॥
आंक्ष्वाभ्यङ्क्ष्याभ्यंक्ता शपनं गमः ।
अथो पितृभ्यो गा गछ ।
विज्ञानेन भगेन च शमका शमयाति त्वा ॥३॥
अपेहि मनसस्पापाप क्राम परश्चर ।
परो निर्ऋत्या आ चक्षुर्बहुत्रा जीवतो मनः ॥४॥
भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् ।
भद्रं वैवश्वते चक्षुर्बहुत्रा जीवतो मनः ॥५॥
यन्मे छिद्रं मनसो यच्च वाचः सरस्वतीं मन्युचित्तं जगाम ।
विश्वैस्तद् देवैः सह संविदानः सं दधातु बृहस्पतिः ॥६॥
स्फिरा स्फिरतरं स्फिर आत्तार: ।
शतहस्त समाहर सहस्रहस्त सं किर ।
इहैवा किर सं किरेहैवस्फातिमास्फिरम् ॥७॥
स्फिरेयमस्त्वोषधिः समुद्रस्येव संस्रवः ।
उत्तरा आगमं नुपोतरा न आगमम् ॥८॥
इमा या: पञ्च प्रदिशो मानवीः पञ्च कृष्टयः ।
वृष्टे शापं नदीरिवेह स्फातिं ससावहान् ॥९॥
वि मयुखा आ यच्छन्तु गर्दभा इव तूर्यजाः ।
मुह्यन्तु सर्वे तन्तवो व्रतानाड़ी वि तन्तिके ॥१०॥
प्रवामीष्वे प्रपतां प्रययन्तु प्र निवेष्टनम् ।
मुह्यन्तु सर्वे तन्तवोऽन्धे वितत वायौः ॥११॥
आयवनी निवेष्टनं व्रतात सरमीष्वे ।
मुह्यन्तु सर्वे तन्तवोऽन्धे वितत वायौः ॥१२॥
मयारकारी प्रथमोर्णवाभिरथोशका ।
देवानां पत्नी: कृत्तिका इमं तन्तुममोमुहन् ॥१३॥
अग्निर्न एतु प्रथम: पुरएता बृहस्पति: ।
अधा भग प्र णो यच्छ त्वं हि धनदा असि ॥१४॥
प्रणः शूद्र उतार्यः प्र णो राजोत वृत्रहा ।
अथो यत् सर्वमात्वन्वत् प्र णो यच्छतु दक्षिणाम्॥१५॥
कविर्यज्ञस्य वि तनोषि पन्थामृतस्य पृष्ठे अधिदीध्यान: ।
येन हव्यं वहसि देवदूत इत: प्रचेताममुतोवनीयान् ॥१६॥
मधुहस्तो मधुजिह्वो मधुपर्णो मधुव्रत: । मदु
अथो मधु प्रशामनो भगो मा वर्चसावतु ॥१७॥

३९
या त्रिसप्ताः पुनरेति नाना रूपाणि बिभ्रतीः ।
वाचस्पतिर्बला तस्या आरे हेतिर्दधातु मत् ॥१॥
वाचा नुत्ता कृत्यादीन्द्रवती जाग्रता स्वपथे कृता ।
नुत्ता पाकस्य शंसेन प्रत्यक्कर्त्तारमृच्छतु ॥२॥
यदेतद् भूरि स्पर्धसे कृत्या स्माति मन्यसे ।
प्रतीचीना परेत्य विषादिव विषमन्धत: ॥३॥
परेणैत्वघशंसो मैनेन समरामहै ।
द्यौश्चास्मान् पृथिवी चोभेपातामंहसः ॥४॥
यवयास्मद् द्वेषांसि यवमयेन हविषा ।
दुर्हार्दे चकृषे कृत्यां ग्रीवासु प्रति मुञ्चता ॥५॥
अन्या वो अन्यामव त्वन्यान्यस्या उपावत ।
अश्वयवः प्रवल्गन्तीः कृत्यां हतौषधयो ऽरातिं हतौषधयः ॥६॥
मेहोप गा मपरस्या पथानि दुर्गाण्यवेहि ।
सपत्नीं नश्यतादितो दूरं गच्छाध्योकसः ॥७॥
यस्यास्ते नाम गृह्णामि यस्मिन् धारमसेचने ।
आपरस्या: परावत: सपत्नीं नाशयामसि ॥८॥
त्रिंशतं त्रिंश्च पर्वतान् चतुरश्च गिरीनति ।
सपत्नीं ब्रह्मणस्पते परो भ्रूणान्यर्पय ॥९॥
उन् मादयत: मरुतः समुद्र्या उद् द्यावापृथिवी उभे ।
उत्वा समुद्ररर्षतृद् उत्वामग्निरयं दुहात् ॥१०॥
यत् सपत्नी सपत्न्या अमुष्या वर्च आददे ।
अधस्तादुपवादिन्य सौम्यादहमुत्तरात् ॥११॥
आ ते बध्नाम्योषधिं सपत्नेभ्यः प्रचातनीम्।
यथा ते ऽसदुदंपतिः पुत्राणां ते भवत् पिता ॥१२॥
यान्नृणान्यनुवर्त्तादस्मि यमस्य येन बलिना चरामि।
इदं तदग्ने अनृणो भवामीदं तदग्ने अवदानमस्तु ॥१३॥   
यास्ते सप्त प्रवतो या उ तिस्रो यास्ते सन्तु निवतो या अभिवतः।
अर्वागतो अष्टधा त्रीणि रोचनास्तास्ते अग्ने संमनसो भवन्तु ।
जानं यमाय निवहा कुसीदम् ॥१४॥
यास्त उर्ध्वास्तन्वो जातवेदो यास्तिरश्चिरुत या अनूची: । नुचीः
अभिष्टमग्ने सयुजाः स्तृणानो जानं यमाय निवहा कुसीदम् ॥१५॥

४०
नाशय पलितं शीर्ष्णो यः कृष्णास्तन्व आभर: ।
तमोषधे त्वं वर्धय केशं कृष्णतरं कृधि ॥१॥
यथाञ्जनं यथासित यथा त्रैककुदं तथा ।
तत्संभवा तत् संभरते व्युच्छन्तीरनुषसः ॥२॥
यत्रास्ति यत्र तिष्ठति यतो नश्यत्वासिनम् ।
दिव्यः सुपर्णो ऽब्रवीदेतत् पलित भेषजम् ॥३॥
दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसाय ।
समिन्द्रियेण पयसाहमग्नि रुषीणां यज्ञै: सुकृतां कृतेन ॥४॥
यदि वृक्षादभ्यपप्तत् फलं तदभ्यन्तरिक्षात् तदु वायुरेव ।
यत्रास्पृक्षत् तन्वो यत्र वाससो न तत् प्राप्नोति निर्ऋति परस्तात् ॥५॥
अभ्यञ्जनं सुरभ्यादुवासश्च तं हिरण्यमधि पूत्रिमं यत् ।
सर्वा पवित्रा वितताध्यस्मच्छतं जीवाति शरदस्तवायम् ॥६॥
य: कीकसा: प्रशृणाति तलीद्यमुपतिष्ठति ।
परास्थं सर्वं जायान्यं य: कश्च ककुदि श्रितः ॥७॥
पक्षी जायान्य: पतति य आ विशति पूरुषम् ।
तस्याहं वेद ते नाम यती जायान्य जायसे ॥८॥
वेद वै ते नाम यतो जायान्य जायसे ।
कथं ह तत्र त्वं हन्या यत् कुर्यान् महद्धविः ॥९॥
यः आस्यं प्रविशति करोत्युदरं महत् ।
यक्ष्मो यो अत्र जायते तं जायान्यमनीनशम् ॥१०॥
आरोहात् सर्वा जातास्मि ऋषभस्य पयो धनात्।
स्वादीयसी सुराया लवणाच्चारुमुत्तरात् ।
गोभ्यो वनीयसी दहम् ॥११॥
यां त्वा वातोवरयदाद्रनाभामहर्षय: ।
तस्यास्ते देवि पृथिव्याहं संवननं दद
आ ते सौ: ष्कास्यन्ददे ॥१२॥
युक्तौ मनसा सं च रेतसा देवेभ्यो हव्यं कृणवाम साधु ।
येषां भागस्तु इदं जुषन्तामविक्षुद्वादयार्य भद्रया ॥१३॥
येन देवा ज्योतिषा द्यामुपायन् येनादित्या वसवो येन रुद्राः।
येनाङ्गिरसः स्वरारुरुहुस्तेनोदयद् यजमानः स्वस्ति ॥१४॥
यं पपाच्चादिति: पुत्रकामा येन प्रजा: कश्यप: पर्यगृह्णात् ।
य ओदनः पच्यते वैश्वदेवः स नो य मे अक्षतो भागो अस्तु ॥१५॥
(इति त्र्यृचनाम ऊनविंशतिकाण्डे दशमो ऽनुवाकः )

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP