४१
सोमस्य प्राण: पवते पुरस्ताद् दक्षिणत ऐन्द्र आ वातु वात: ।
यस्या दिशा मारुतो या: प्रतीची: स नो देवा: शिवो ऽस्त्विह वात: ॥१॥
मित्रस्य प्राणाः पवते या उत्तराद् बृहस्पतेरूर्ज उद्वातु वात: ।
यो ऽन्तरिक्षमनुवाति विद्वान् स नो देवा: शिवो ऽस्त्विह वात: ॥२॥
य उत्तरात् पवते य: पुरस्ताद् यो दक्षिणात् पवते यश्च पश्चात् ।
उर्ध्वाङ् उद्देशाङ् अनु य: प्रवाति स नो देवा: शिवो ऽस्त्विह वात: ॥३॥
त्रीण्यन्तरिक्षाण्यनुवहसि वात तिस्रो वहसि परावत: ।
सहस्राक्षौ वृत्रहा पाह्यर्वाङ् नुदन् क्षेत्रियं रपः ॥४॥
न तत्र दार: कृपणं ससार न प्रतिघ्नाना रुदती न बिभ्रती ।
इन्द्रो नो य क्रोरुकृर्विचक्षण: स नोज्जातं महति नि यच्छात् ॥५॥
इन्द्र: सेनां मोहयतु मरुतो घ्नन्त्वोजसा ।
अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय: ॥६॥
न द्यौरेषां न पृथिवी नादीति निधनं जयात् ।
चक्षूंष्यग्निरादत्तां पुनर्यन्तु पराजिता: ॥७॥
अमित्राणां दारय ग्राममिन्द्र यो न: शत्रुरभ्येति जिघाँसन् ।
यथैषामिन्द्रनुत्तानामग्निना वेषो अनुवर्त्तयानि मे ॥८॥
जिह्मं युगं कृण्वतामिन्द्रनुत्ताः पराचीनै: पथिभिर्यन्तु रिष्यन्त:।
अमित्रान् जयन्तो अन्वासदेमाग्निना वेषो अनुवर्त्तयन्तः ॥९॥
अमित्राणां ग्राममुपयुक्तमिन्द्रेण नुक्तं विरदात्यग्नि: ।
सत्वान: सन्त्वनुमाद्या इमे येभ्यश्चरामि हविषा घृतेन ॥१०॥
अर्यमाणां हि देवं भद्रं कन्या अयक्षत ।
स एनां वृत्रहा देवो इतो मुञ्चन्तु मामुत: ॥११॥
इयं ते राजन् वरुण जामिका कृणुते हविः।
तस्यै पतिं न्या वह सुभद्रं प्रतिकाम्यम् ॥१२॥
आ क्रन्दय धनपते वरमामनसं कृणु ।
सर्वं प्रदक्षिणं कृधि पतिमस्यै प्रतिकाम्यम् ॥१३॥
आपश्चादापुरस्तादोत्तरादधरादुत ।
पूर्णा भगस्य वर्तनिस्तेनेमामभिवर्तयामसि वर्चसा च भगेन च ॥१४॥
नासृगस्ति पतङ्गस्य तर्दस्य मसकाद् वा: ।
न संपतत्रमुद्यगो न ग्लौरत्र भविष्यति ॥१५॥    
अपदस्कदपादशन् तुण्डिवध्ना अपादशत् |
अपापो चिदीतोदशदपेतो ग्लौर्नशिष्यत्यपिवध्नादशिष्यति ॥१६॥
यथा सूर्यश्चन्द्रमसमुद्यन्नेवावगूहति ।
एवा त्वमुग्र ओषध इमां ग्लावमवगूहतादिति ॥१७॥

४२
अपदस्कदपादशन् तुण्डिवध्ना अपादशत् ।
अपापो चिदीतोदशदपेतो ग्लौर्नशिष्यत्यपिवध्नादशिष्यति ॥१॥
मा शिले मा शिलावति मा ते शेष: शिलोञ्चने ।
यावच्छिलस्य ते शिलं तावच्छेष: शिल तव ॥२॥
यथा यूपाग्रादुदकं विनिष्टं भूमिमश्नुते ।
एवा त्वमरसे शिले विनिष्टा भूमिमश्नुहि ॥३॥
वज्रो ऽसि सपत्नहा त्वया ह वृत्रं साक्षीय ।
त्यामद्य वनस्पते वृक्षाणामुदयुष्महि ॥४॥
स न इन्द्र पुरोहितो विश्वतस्पाहि रक्षस: ।
अभि गावो अनूषताभि द्युम्नं बृहस्पते ॥५॥
प्राण प्राणं त्रायस्वासो असवे मृड़॥
निर्ऋते निर्ऋत्या न: पाशेभ्य मुञ्च ॥६॥
हृच्छोकमस्मिन्ना दध्मो यथा शुष्याति त्वामनु ।
यथास्य हृदयं शुष्यादपिच्छिलेव शंगुणी ॥७॥
प्रजापतिष्ट्वा प्रजया सं पुत्रेणं सृजतु सं भगेन ।
जुष्टं देष्ट्री हि कामो ब्राह्मणस्य पुमांसं दधत् सवितु: सवेन ॥८॥
प्रत्वास: प्रत्याङ्गतः कुमार: पुरुषादधि: ।
रुतोर्यमृत्वियावती यं ते धाता अचीक्लृपत् ॥९॥
यं ते धाता यं ते त्वष्टा यं ते ब्रह्माचीक्लृपत् ।
तं त्वं पुत्रं विन्दस्व तस्मै त्वं जीव जीवसे ॥१०॥
ध्वस्रास्तिष्ठन्ति रजसा समक्ता यज्ञस्य होत्राः प्रशितास उष्णाः ।
तासां सोमस्य यदिहा वपन्ति तदमूत्रे यजमानस्य रूपम् ॥११॥
ये ब्राह्मणं वर्चोहित्वाय मल्वारेण वर्णेन परि धापयन्ति ।
तासां सोमस्य यदिहा वपन्ति तदमूत्रे यजमानस्य रूपम् ॥१२॥
आा सारथिः सम रथो यथा रथो ह त्वा संविष्टां रक्षसो याति अमून्।
एवा यज्ञो यजमानं जहाति यत्र सोमं सोमपीथान् नयन्ति ॥१३॥
छन्दांसि तद् यजमान सृजन्ति तत्र सोमं सोमपीथान् नयन्ति ।
अब्राह्मणो यत् पिबति सोममस्य तद् वै ऽच्छिन्द्रं दक्षिणयपिधेयम् ॥१४॥
ब्रध्नो ऽसि वाची: परिपाणीः प्रथमा देवेभ्यस्पर्याभृताः।
मा ते रिषन् खनिता यस्मै च त्वा खनामसि ॥१५॥
मा देवा: पापमारान्म मा कर्तुं पापयामुया ।
महान् मरिष्यजो हस्तमारिप्सुर्धनकाम्याम् ॥१६॥
मा मा देवा: पराजातामा मा कर्तव्याध्वम् ।
माहन् मरिष्यज: शिर आरिप्सु मो अहन् मृषी ॥१७॥

४३
प्रतीकं मे विचक्षणमक्ष्यौ मे मधुकाशिनि ।
कर्णाभ्यां भूरि शुश्रुवे ॥१॥
जिह्वा मे मधु संस्रावा जिह्वा मे मधुवादिनी ।
तयाहमद्य जिह्वयोभिरुध्यासन् मधुमद् वच: ॥२॥
यथा मधु मधु कृतः संभरन्ति मधावधि॥
एवाहोमद्य छन्दोभिरुध्यासन् मधुमद् वचः ॥३॥
वायोः पूतः पवित्रेण प्रत्यङ् सोमो ऽधिश्रितः ।
इन्द्रस्य युज्य: सखा ॥४॥
यत् किं चेदं वरुण दैव्ये जने अभिद्रोहं मनुष्याश्चरन्ति ।
अचित्त्या यत् तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥५॥
आपो अस्मान् मातर: सूदयन्तु घृतेन नो घृतप्वः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्तु देवीरुदिदाभ्य: शुचिरा पूत एमि ॥६॥
मित्रश्च सम्राड् वरुणस्य राजा तौ ते भक्षं कृणुतां प्रातरग्ने ।
तयोरहमनुभक्षं कृणोमि सूर्यवर्चा भगभक्तो न आविशः ॥७॥
सूर्यवर्चा न आविश विश्वविन् मनसस्पतिः ।
अनेहा सोमो जागृविरिन्द्रः प्रातो ऽस्तु ते नृभिः ॥८॥
इन्द्रः प्रातस्तु ते वयं शक्रस्य रोचनावतः ।
भक्षीमहि प्रजामिषं सहस्रस्य यशस्विनः ॥९॥
अग्नि प्रात: सवने पात्वस्मान्वैश्वानरः पथिकृद् विश्वकृष्टिः ।
स नः पावको द्रविणे दधात्यायुष्मन्तः सहभक्षा: स्याम ॥१०॥
विश्वे देवा मरुत इन्द्रो अस्मानस्मिन् द्वितीये सवने न जह्युः ।
आयुष्मन्त: प्रियमेषां वदन्तो वयं देवानां सह भक्ष्या स्याम ॥११॥
इदं तृतीयं सवनं कवीनामृतेन यच्चमसं समैरयन् ।
सौधन्वना अमृतमानशाना: स्विष्टिं नो अभि वस्यो नयाथ ॥१२॥
सं सं स्रवन्तु नद्य: सं वाता: सं पतत्रिण: ।
यज्ञमिमं वर्धयता गिर: संस्राव्येण हविषा जुहोमि ॥१३॥
इमं होमाय यज्ञमवतेमं संस्रावणा उत ।
यज्ञमिमं वर्धयता गिर: संस्राव्येण हविषा जुहोमि ॥१४॥
रूपंरूपं वयोवय: संरभ्यैनं परि ष्यजे ।
यज्ञमिमं चतस्र: प्रदिशो वर्धयन्तु नद्य: संस्राव्येण हविषा जुहोमि ॥१५॥

४४
स्यूता देवेभिरमृतैर्न आगन्मुखा स्वसारमधि मेदिमस्थात्।
सत्यं पूर्वं रुषयश्चाकृपाना यज्ञपते: सुप्रतिरंत्वायुः ॥१॥
उखां स्रवन्तीमगदामगन्म त्वष्टा वायुः पृथिव्यन्तरिक्षम् ।
यतश्चुतद् धुतमग्नौ तदस्तु न तत् प्राप्नोति निर्ऋतिः परस्तात् ॥२॥
अन्तरग्नावश्चुतत् स्तोक एष नैनं सुवाते निर्ऋतिः परस्तात् ।
विश्वावसोर्हविषो वावृधानो इमं यज्ञ: सुकृतामेति लोकम् ॥३॥
श्येनोसि गायत्रछन्दा अनु त्वा रभे ।
स्वस्ति मा सं पारय ॥४॥
सम्राडसि त्रिष्टुप्छन्दा अनु त्वा रभे ।
स्वस्ति मा सं पारय ॥५॥
स्वरोसि गयोसि जगच्छन्दा अनु त्वा रभे ।
स्वस्ति मा सं पारय ॥६॥
त्रायमाणे सर्वविदे मा परि देहि।
सर्वविद् द्विपाच्च सर्वं रक्ष चतुष्पाद् यच्च नः स्वम् ॥७॥स्पाद्
सर्वविद् विश्वविदे मा परि देहि।
विश्वविद् द्विपाच्च सर्वं रक्ष चतुष्पाद् यच्च नः स्वम् ॥८॥स्पाद्
विश्ववित् कल्याण्यै मा परि देहि।
कल्याणि द्विपाच्च सर्वं रक्ष चतुष्पाद् यच्च नः स्वम् ॥९॥स्पाद्
कल्याणि त्रायमाणायै मा परि देहि ।
त्रायमाणे द्विपाच्च सर्वं रक्ष चतुष्पाद् यच्च न: स्वम् ॥१०॥स्पाद्
वि खन वि रुज वि जह्यत्रैवा नाकृतश्चन ।
समहमायुषा सं मयायु: ॥११॥
वि खन वि रुज वि जह्यत्रैवा नाकृतश्चन ।
समहं वर्चसा सं मया वर्च: ॥१२॥
वि खन वि रुज वि जहात्रैवा नाकृतश्चन ।
समहं तेजसा सं मया तेज: ॥१३॥
वि खन वि रुज वि जह्यत्रैवा नाकृतश्चन ।
समहं प्रजया सं मया प्रजा ॥१४॥
वि खन वि रुज वि जह्यत्रैवा नाकृतश्चन ।
समहं पशुभि: सं मया पशव: ॥१५॥
दिवो रेतोसि पृथिव्या नभ्यम् ।
नभ्यमसि नभ्यं मा कृणु ॥१६॥
दिवो रेतोसि पृथिव्यां शक्ति: ।
शक्तिरसि शक्तये ते विधेयम् ॥१७॥
दिवो रेतोसि पृथिव्या: वित्तिः ।
वित्तिरसि वित्तये ते विधेयम् ॥१८॥
दिवो रेतोसि पृथिव्याः पुष्टिः ।
पुष्टिरसि पुष्टये ते विधेयम् ॥१९॥
दिवो रेतोसि पृथिव्याः भूतिः ।
भूतिरसि भूतये ते विधेयम् ।
भूतिरसि भूत्या सं भूयासम् ॥२०॥
शुक्रो ऽसि भ्राजो ऽसि ।
स यथा त्वं भ्राजतो भ्राजोस्येवाहं भ्राजतो भ्राज्यसम् ॥२१॥
सायंसायं गृहपतिर्नो अग्निः प्रात:प्रातः सौमनसस्य दाता ।
वसोर्वसोर्वसुदान एधि वयं त्वेन्धानास्तन्वं पुषेम ॥२२॥
प्रात:प्रातर्गृहपतिर्नो अग्नि: सायंसायं सौमनसस्य दाता ।
वसोर्वसोर्वसुदान एधीन्धानास्त्वा शतंहिमा ऋधेम ॥२३॥
यो न आ विः शपतिर्यश्च स्ता यदचित्या मन्युना यत् सपत्नः ।
अग्निष्ट्वान् पाशान् प्रमुमोक्त देवो यावयतु शपथां वरुणो धृतव्रतः ॥२४॥
(इति त्र्यृचनाम ऊनविंशतिकाण्डे एकादशो अनुवाक: )

४५
प्राग्नये वाचमीरय वृषभाय क्षितीनाम् ।
स नः पर्षदति द्विषः ॥१॥
य: परस्या: परावतस्तिरो विश्वाभि रोचते ।
स नः पर्षदति द्विषः ॥२॥
यो रक्षांसि निजूर्वत्यग्निः शुक्रेण शोचिषा ।
स नः पर्षदति द्विषः ॥३॥
यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
स नः पर्षदति द्विषः ॥४॥
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्गावो भवन्तु नः ॥५॥
मधु नक्तं उतोषसो मधुमत् पार्थिवं रजः ।
माध्वीर्न: सन्त्वोषधी: ॥६॥
मधुमान् नो वनस्पतिर्मधुमाँङ् अस्तु सूर्यः ।
मधु द्यौरस्तु नः पिताः ॥७॥
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥८॥
यो वः शिवतमो रसः स्तस्य भाजयतेह नः॥
उशतीरिव मातरः ॥९॥
तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥१०॥
आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः ।
पितरं च प्रयन्त्स्वः ॥११॥
अस्य प्राणादपानत्यन्तश्चरति रोचना ।
व्यख्यन्महिषो दिवम् ॥१२॥
त्रिंशद् धाम वि राजति वाक्पतङ्गाय शिश्रियत् ।
प्रति वस्तोरहर्द्युभिः ॥१३॥
यच्छक्रा वाचमारुहन्नन्तरिक्षं सिषासन्त: ।
सं देवा अमदन् वृषा॥१४॥
शक्रो वाचमधृष्टायोरुवाचो अधृष्णुहि॥
मंहिष्ठ आ मदर्दिवि ॥१५॥
शक्रो वाचमधृष्णुहि धामधर्मन् वि राजति ।
विमदन् बर्हिरासरन ॥१६॥

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP