श्रुतिमपरे स्मृतिमपरे भारमपरे भजन्तु भवभीताः ।
अहमिह नन्दं वन्दे यस्यालिन्दे परं ब्रह्म ॥१९१॥
दोहः प्रायो न भवति गवां दोहनञ्चेन्न पाकः
क्षीराणां स्यात् स यदि घटते दुर्लभं तद्दधित्वम् ।
दध्नः सिद्धौ क्व खलु मथनं मन्थने क्वोपयोगः
तक्रादीनामिह गतिरभूदद्य गोधुग्गृहेषु ॥१९२॥
अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥१९३॥
तद्भूरिभाग्यमिह जन्म किमप्यटव्यां
यद्गोकुलेऽपि कतमा ङ्घ्रिरजोऽभिषेकम् ।
यज्जीवितं तु निखिलं भगवान्मुकुन्द०
स्त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥१९४॥