वीतासङगाः शयनवसनस्नानपानाशनादौ
गायन्त्यस्त्वच्चरितगुणिताः सन्ततं गीतगाथाः ।
औदासीन्यं किमपि सकला बन्धुवृन्दे वहन्त्यो
गोप्यो लीलाक्षितिषु भवतो योगिनीवद्भ्रमन्ति ॥२१३॥
तन्मनस्कास्तदा लापास्तद्वि चेष्टास्तदात्मिकाः ।
तद्गुणानेव गायन्त्यो नात्मागाराणि सस्मरुः ॥२१४॥
या दोहनेऽवहनने मथनोपलेप-
प्रेङेखङखनार्भरुदितोक्षणमार्जनादौ ।
गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठयो
धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ॥२१५॥
गते गोपीनाथे मधुपुरमितो गोपभवनाद्
गता यावद्धूली रथचरणजा नेत्रपदवीम् ।
स्थितास्तावल्लेख्या इव विरहतो दुःखविधुरा
निवृत्ता निष्पेतुः पथिषु शतशो गोपवनिताः ॥२१६॥
श्रुतयः पलालकल्पाः किमिह वयं साम्प्रतं चिनुमः ।
अहियत पुरैव नयनैराभीरीभिः परं ब्रह्म ॥२१७॥
मुक्तमुनीनां मृग्यं किमपि फलं देवकी फलति ।
तत्पालयति यशोदा प्रकामभुवि भुज्यते गोप्या ॥२१८॥
भक्ता मय्यनुरक्ताश्च कति सन्ति न भूतले ।
किन्तु गोपीजनः प्राणाधिकः प्रियतमो मम ॥२१९॥
यं वेद वेदविदपि प्रियमिन्दराया-
स्तन्नाभिनीररुहगर्भगृहो न धाता ।
गोपालबालललना वनमालिनं तं
गोधूलिधूसरशरीरमरीरमंस्ताः ॥२२०॥
शीर्णा गोकुलमण्डली पशुकुलं शष्पाय न स्पन्दते
मूका कोकिलसंहतिः शिखिकुलं न व्याकुलं नृत्यति ।
सर्वे त्वद्विरहेण हन्त नितरां गोविन्द दैन्यं गताः
किन्त्वेका यमुना कुरङगनयनानेत्राम्बुभिर्वर्धते ॥२२१॥
कस्मै किं कथनीयं कस्य मनः प्रत्ययो भवति ।
रमयति गोपवधूटी कुञ्जकुटीरे परं ब्रह्म ॥२२२॥
न तथा मे प्रियतमो ब्रह्मा रुद्रश्च पार्थिव ।
न च लक्ष्मीर्न चात्मा च यथा गोपीजनो मम ॥२२३॥