उदरदशनरोगी शैशवे लग्नभौमे पिशुनमतिकृशाङ्गः पापवित्कृष्णरुपः । भवति चपलचित्तो नीचसेवी कुचैली सकलसुखविहीनः सर्वदा पापशीलः ॥१॥
धनगतपृथिवीजे धातुवादी प्रवासी ऋणधनकृतचित्तो द्दूतकर्त्तासहिष्णुः । कृषीकरणसमर्थो विक्रमे मग्नचित्तःकृशतनुसुखभागी मानवः सर्वदैव ॥२॥
सहजभवनसंस्थे भूमिजे भ्रातृहर्त्ता कृशतनुसुखभागी तुङ्गभौमो विलासी । धनसुखनरहीनो नीचपापारिगेहे वसति सकलपूर्णो मन्दिरे कुत्सिते च ॥३॥
जडमतिरतिदीनो बन्धुसंस्थे च भौमे न भवति कुलआर्ये बन्धुदीनो न दुःखी । भ्रमति सकलदेशे नीचसेवानुरक्तः परवशपरदारे लुब्धचित्तः सदैव ॥४॥
तनयभवनसंस्थो भूमिपुत्रो मनुष्यो भवति तनयहीनः पापशीलोऽतिदुःखी । यदि निजगृहतुङ्गे वर्तते भूमिपुत्रः कृशकमलनिकेतं पुत्रमेकं ददाति ॥५॥
रिपुगृहगतभौमे सङ्गरे मृत्युभागी सुतधनपरिपूर्णो तुङ्गगे सौख्यभागी । रिपुगणपरिदुष्टे नीचगे क्षोणिपुत्रे भवति विकलमूर्तिः कुत्सितः क्रूरकर्मा ॥६॥
मुनिगृहगतभौमे नीचसंस्थेऽगिरेहे युवतिमरणदुःखं जायते मानवानाम् । मकरगृहनिजस्थे नान्यपत्नीश्च धत्ते चपलमतिविशालां दुष्टचित्तां विरुपाम् ॥७॥
प्रलयभवनसंस्थे मङ्गले क्षीणनीचे व्रजति निधनभावं नीरमध्ये मनुष्यः । धनकिरणिचरार्कः सर्वदा चैव भोगी करपदगसुनीलो मृत्युलोकं प्रयाति ॥८॥
नवमभवनसंस्थे क्षोणिपुत्रेऽतिरोगी नयनकरशरीरः पिङ्गलः सर्वदैव । बहुजनपरिपूर्णो भाग्यहीनः कुचैलो विकलजनसुवेशी शीलविद्यानुरक्तः ॥९॥
दशमगतमहीजे दान्तिकः कोशहीनो निजकुलजयकारी कामिनीचित्तहारी । जरठसमशरीरो भूमिजोवोपकोपी द्विजगुरुजनभक्तो नातिनीचो न हस्वः ॥१०॥
सुरजनहितकारी चायसंस्थे च भौमे नृप इव गृहमेधी पीडितः कोपपूर्णः । भवति च यदि तुङ्गे लोकसौभाग्ययुक्तो धनकिरणनियुक्तः पुण्यकामार्थलोभी ॥११॥
परधनहरणेच्छुः सर्वदा चञ्चलाक्षश्चपलमतिविहारी हास्ययुक्तः प्रचण्डः । भवति च सुखभागी द्वादशस्थे च भौमे परयुवतिविलासी साक्षिकः कर्मपूरः ॥१२॥