रोगी सदा देवरिपौ तनुस्थे कुले च धारी बहुजल्पशीलः । रक्तेक्षणः पापरतः कुकर्मा रतः सदा साहसकर्मदक्षः ॥१॥
राहौ धनस्थे कृतचौरवृत्तिः सदा विलिप्तो बहुदुःखभागी । मत्स्येन मांसेन सदा धनी च सदा वसेन्नीचगृहे मनुष्यः ॥२॥
भ्रातुर्विनाशं प्रददाति राहुस्तृतीयगेहे मनुजस्य देही । सौख्यं धनं पुत्रकलत्रमित्रं ददाति तुङ्गी गजवाजिभृत्यान् ॥३॥
राहौ चतुर्थे धनबन्धुहीनो ग्रामैकदेशे वसति प्रकृष्टः नीचानुरक्तः पिशुनश्च पापी पुत्र्यैकभागी कृतयोषिदासाम् ॥४॥
राहुः सुतस्थः शशिनानुगो हि पुत्रस्य हर्ता कुपितः सदैव । गेहान्तरे सोऽपि सुतैकमात्रं दत्ते प्रमाणं मलिनं कुचैलम् ॥५॥
षष्ठे स्थितः शत्रुविनाशकारी ददाति पुत्रं च धनानि भोगान् । स्वर्भानुरुच्चैरखिलाननर्थान्हन्त्यन्ययोषिद्नमनं करोति ॥६॥
जायास्थराहुर्धनहानिजायां ददाति नार्यो विविधांश्च भोगान् । पापानुरक्तां कुटिलां कुशीलां ददाति शेशैर्बहुभिर्युतश्च ॥७॥
राहुः सदा चाष्टममन्दिरस्थो रोगान्वितं पापरतं प्रगल्भम् । चौरं कृशं कापुरुषं धनाढ्यं मायामतीतं पुरुषं करोति ॥८॥
धर्मस्थिते चन्द्ररिपौ मनुष्यश्चण्डालकर्मा पिशुनः कुचैलः । ज्ञातिप्रमोदे निरतश्च दीनः शत्रों कुलाद्भीतिमुपैति नित्यम् ॥९॥
कामातुरः कर्मगते च राहुः परार्थलोभी मुखरश्च दीनः । म्लानो विरक्तः सुखवर्जितश्च विहारशीलश्चपलोऽति दुष्टः ॥१०॥
आयस्थिते सोमरिपौ मनुष्यो दान्तो भवेन्नीलवपुः सुमूर्तिः । वाचाल्पयुक्तो परदेशवासी शास्त्रज्ञवेत्ता चपलो निलज्जः ॥११॥
व्यये स्थिते सोमरिपौ नराणां धर्मार्थहीनो बहुदुःखतप्तः । कान्ताविमुक्तश्च विदेशवासी सुखैश्च हीनः कुनखी कुवेषः ॥१२॥