तनुस्थः शिखी बान्धवक्लेशकर्त्ता तथा दुर्जनेभ्यो भयं व्याकुलत्वम् । कलत्रादिचिन्ता सदोद्वेगता च शरीरे व्यथा नैकधा मारुती स्यात् ॥१॥
धने केतुरव्यग्रता किं नरेशाद्धने धान्यनाशो मुखे रोगकृच्च । कुटुम्बाद्विरोधो वचः सत्कृतं वा भवेत्स्वे गृहे सौम्यगेहेऽतिसौख्यम् ॥२॥
शिखी विक्रमे शत्रुनाशं विवादं धनं भोगमैश्चर्यतेजोधिकं च । सुत्दृद्वर्गनाशं सदा बाहुपीडा भयोद्वेगचिन्ताकुलत्वं विधत्ते ॥३॥
चतुर्थे न मातुः सुखं नो कदाचित्सुत्दृद्वर्गतः पैतृकं नाशमेति । शिखी बन्धुवर्गात्सुखं स्वोच्चगेहे चिरं नो वसेत्स्वे गृहे व्यग्रता चेत् ॥४॥
यदा पञ्चमे राहुपुच्छं प्रयाति तदा सोदरे घातवातादिकष्टम् स्वबुद्धिव्यथासन्ततः स्वल्पपुत्रः स दासो भवेद्वीर्ययुक्तो नरोऽपि ॥५॥
तमः षष्ठभागे गते षष्ठभावे भवेन्मातुलान्मानभङ्गो रिपूणाम् । विनाशश्चतुष्पात्सुखं तुच्छचित्तं शरीरे सदानामयं व्याधिनाशः ॥६॥
शिखी सप्तमे भूयसी मार्गचिन्तानिवृत्तः स्वनाशोऽथवा वारिभीतिः । भवेत्कीटगः सर्वदा लाभकारी कलत्रादिपीडा व्ययो व्यग्रता चेत् ॥७॥
गुदं पीड्यतेऽर्शादिरोगैरवश्यं भयं वाहनादेः स्वद्रव्यस्य रोधः । भवेदष्टमे राहुपुच्छेऽर्थलाभः सदा कीटकन्याजगोयुग्मकेतुः ॥८॥
शिखी धर्मभावे यदा क्लेशनाथः सुतार्थी भवेन्म्लेच्छतो भाग्यवृद्धिः । सहोत्थव्यथां बाहुरोगं विधत्ते तपोदानतो हास्यवृद्धिं तदानीम् ॥९॥
पितुर्नो सुखं कर्मगो यस्य केतुस्तदा दुर्भगं कष्टभाजं करोति । तदा वाहने पीडितं जातु जन्म वृषाजालिकन्यासु चेच्छत्रुनाशम् ॥१०॥
सुभाग्यः सुविद्याधिको दर्शनीयः सुगात्रः सुवस्त्रः सुतेजोऽपि तस्य । दरे पीड्यते संततिर्दुर्भगा च शिखी लाभगः सर्वलाभं करोति ॥११॥
शिखी रिष्फगो वस्तिगुह्याङ्घिकोऽपि रुजापीडनं मातुलान्नैव शर्म । सदा राजतुल्यं नरं सद्वययं तद्रिपूणां विनाशं रणेऽसौ करोति ॥१२॥