श्रीमैत्रेय उवाच
ज्ञानमेतन्मया त्वत्तो यथा सर्वमिदं जगत् । विष्णूर्विष्णो विष्णुतश्च न परं विद्यते ततः ॥१॥
एतत्तु श्रोतुमिच्छमि व्यस्ता वेदा महात्मना । वेदव्यासस्वरूपेण तथा तेन युगे युगे ॥२॥
यस्मिन्यस्मिन्युगे व्यासो यो य आसीन्महामुने । तं तमाचक्ष्व भगवत्र्छखाभेदांश्च मे वद ॥३॥
श्रीपराशरजी उवाच
वेदद्रुमस्य मैत्रेय शाखाभेदास्सहस्त्रशः । न शक्तो विस्तराद्वक्तुं संक्षेपेण श्रृणुष्व तम् ॥४॥
द्वापरे द्वापरे विष्णुर्व्यासरूपी महामुने । वेदमेकं सुबहुधा कुरुते जगतो हितः ॥५॥
वीर्यं तेजो बलं चाल्पं मनुष्याणामवेक्ष्य च । हितीय सर्वभुतानां वेदभेदान्करोति सः ॥६॥
ययासौ कुरुते तन्वा वेदमेकं पृथक् प्रभुः । वेदव्यासाभिधाना तु सा च मूर्तिर्मधुद्विषः ॥७॥
यस्मिन्मन्वन्तरे व्यासा ये ये स्युस्तान्निबोध मे । यथा च भेदश्श्याखानां व्यासेन क्रियते मुने ॥८॥
अष्टांविशंतिकृत्वो वै वेदो व्यस्तो महर्षिभिः । वैवस्वतेऽन्तरे तस्मिन्द्वापरेषु पुनः पुनः ॥९॥
वेदव्यासा व्यतीता ये ह्याष्टाविंशाति सत्तम । चतुर्धा यैः कृतो वेदो द्वापरेषु पुनः पुनः ॥१०॥
द्वापरे प्रथमे व्यस्तस्स्वयं वेदः स्वयम्भुवा । द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥११॥
तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः । सविता पत्र्चमे व्यासः षष्ठे मृत्युस्स्मॄतः प्रभुः ॥१२॥
सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे स्मृतः । सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥१३॥
एकादशे तु त्रिशिखो भरद्वाजस्ततः परः । त्रयोदशे चान्तरिक्षो वर्णीं चापि चतुर्दशे ॥१४॥
त्रय्यारुणः पत्र्चद्शे षोडशे तु धनज्त्रयः । ऋतुत्र्जयः सप्तदशे तदूर्ध्वं च जयस्स्मृतः ॥१५॥
ततो व्यासो भरद्वाजो भरद्वाजाच्च गौतमः । गौतमादुत्तरो व्यासो हर्यात्मा योऽभिधीयते ॥१६॥
अथ हर्यात्मनोऽन्तेच स्मृतो वाजश्रवा मुनिः । सोमशुष्मायणस्तस्मात्तृणबिन्दुरिति स्मृतः ॥१७॥
ऋक्षोऽभूद्भार्गवस्तस्माद्वाल्मीकिर्योऽभिधीयते । तस्मादस्मत्पिता शक्तिर्व्यासस्तस्मादहं मुने ॥१८॥
जातुकर्णोऽभवन्मत्तः कृष्णद्वैपायनस्ततः । अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः ॥१९॥
एको वेदश्चतुर्धा तु तैः कृतो द्वापरादिषु ॥२०॥
भविष्ये द्वापरे चापि द्रौणिर्व्यासो भविष्याति । व्यतीते मम पुत्रेऽस्मिन् कृष्णद्वैपायने मुने ॥२१॥
ध्रुवमेकाक्षरं ब्रह्म ओमित्येव व्यवस्थितम् । बृहत्वाद्बृंहणत्वाच्च तद्ब्रह्योत्यभिधीयते ॥२२॥
प्रणवावस्थितं नित्यं भूर्भुवस्स्वरितीर्यते । ऋग्यजुस्सामाथर्वाणो यत्तस्मै ब्रह्मणे नमः ॥२३॥
जगतः प्रलयोत्पत्योर्यत्तत्कारणसंज्ञितम् । महतः परमं गृह्यां तस्मै सुब्रह्माणे नमः ॥२४॥
अगाधापारमक्षय्यं जगत्सम्मोहनालयम् । स्वप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् ॥२५॥
सांख्यज्ञानवतां निष्ठा गतिश्शमदमात्मनाम् । यत्तदव्यक्तममृतं प्रवृत्तिब्रह्म शाश्वतम् ॥२६॥
प्रधानमात्मयोनिश्च गुहासंस्थं च शब्दयते । अविभागं तथा शुक्रमक्षयं बहुधात्मकम् ॥२७॥
परमब्रह्माणे तस्मै नित्यमेव नमो नमः । यद्रूपं वासुदेवस्य परमात्मस्वरूपिणः ॥२८॥
एतद्रुब्रह्म त्रिधा भेदमभेदमपि स प्रभूः । सर्वबेदेष्वभेदोऽसौ भिद्यते भिन्नबुद्धिभिः ॥२९॥
स ऋंमयस्साममयः सर्वात्मा स यजुर्मयः । ऋग्यजुस्सामसारात्मा स एवात्मा शरीरिणाम् ॥३०॥
स भिद्यते वेदमयस्स्ववेदं करोतिं भेदैर्बहुभिस्सशाखम् । शाखाप्रणेता स समस्तशाखा ज्ञानस्वरूपो भगवानसंग ॥३१॥
इति श्रीविष्णुपुराणे तृतीयेंऽशे तृतीयोऽध्यायः ॥३॥