श्रीमैत्रेय उवाच
यथावत्कथितं सर्वें यत्पुष्टोऽसि मया गुरो । श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे ॥१॥
सप्त द्वीपानि पातालविधयश्च महामुने । सप्तलोकाश्च येऽन्तःस्था ब्रह्माण्डस्यास्य सर्वतः ॥२॥
स्थूलैः सूक्ष्मैस्तथा सूक्ष्मसूक्ष्मात्सूक्षतरैस्तथा । स्थूलात्स्थूलतरैश्चैव सर्वं प्राणिभिरावृतम् ॥३॥
अंगुलस्याष्टभागोऽपि सोऽस्ति मुनिसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥४॥
सर्वे चैते वंश यान्ति यमस्य भगवन किल । आयुषोऽन्ते तथा यान्ति यातनास्तत्प्रचोदिताः ॥५॥
यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु । जन्तवः परिवर्तन्ते शास्त्राणामेष निर्णयः ॥६॥
सोऽहमिच्छामि तच्छ्रोतुं यमस्य वशावर्त्तिनः । न भवन्ति नरा येन तत्कर्म कथयस्व मे ॥७॥
श्रीपराशरजी उवाच
अयमेव मुने प्रश्नो नकुलेन महात्मना । पृष्टः पितामहः प्राह भीष्मो यत्तच्छृणुष्व में ॥८॥
भीष्म उवाच
पुरा ममागतो वत्स सखा कालिंगको द्विजः । स मामुवाच पृष्टो वै मया जातिस्मरो मुनिः ॥९॥
तेनाख्यातमिदं सर्वमित्थं चैतद्भविष्याति । तथा च तदभूद्वत्स यथोक्तं तेन धीमता ॥१०॥
स पृष्टश्च मया भूयः श्रद्दधानेन वै द्विजः । यद्यदाह न तद्दृष्टमन्यथा हि मया क्वचित् ॥११॥
एकदा तु मया पृष्टमेतद्यद्भवतोदितम् । प्राह कालिंगको विप्रस्स्मृत्वा तस्य मुनेर्वचः ॥१२॥
जातिस्मरेण कथितो रहस्यः परमो मम । यमकिंघरयोर्योऽभूत्संवादस्तं ब्रवीमि ते ॥१३॥
कालिंग उवाच
स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसुदनप्रपन्नान प्रभुरहमन्यनृणामवैष्णवानाम् ॥१४॥
अहममरवरार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः । हिरगुरुवशगोऽस्मि न स्वतन्तःप्रभवति संयमने ममापि विष्णुः ॥१५॥
कटकमुकुटकर्णिकादिभिदैः कनकमभेदमपीष्यते यथैकम् । सुरपशुमनुजादिकल्पनाभि र्हरिरखिलाभिरुदीर्यते तथैकः ॥१६॥
क्षितितलपरमाणवोऽनिलान्ते पुनरुपयान्ति यथैकतां धरित्र्याः । सुरपशुमनुजादयस्तथान्ते गुणकलुषेण सनातनेन तेन ॥१७॥
हरिममरवरार्चिताड्घ्रिपद्यं प्रणमति यः परमार्थतो हि मर्त्यः । तमपगतसमस्तपापबन्धं व्रज परिहत्य यथाग्निमाज्यसिक्तम् ॥१८॥
इति यमवचनं निशम्य पाशी यमपुरुषस्तमुवाच धर्मराजम् । कथय मम विभो समस्तधातु र्भवति हरेः खलु यादृशोऽस्य भक्तः ॥१९॥
यम उवाच
न चलति निजवर्णधर्मतो यः । सममतिरात्मसुह्रुद्विपक्षपक्षे । न हरति न च हन्ति कित्र्चिदुच्चैः सितमनसं तमवेहि विष्णुभक्तम् ॥२०॥
कलिकलुषमलेन यस्य नात्मा विमलमतेर्मलिनीकृतस्तमेनम् । मनासि कृतजनार्दनं मनुष्यं सततमवेहि हरेरतीवभक्तम् ॥२१॥
कनकमपि रहस्यवेक्ष वुद्धया तृणमिव यस्समर्वैर्ति वै परस्वम् । भवति चं भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम् ॥२२॥
स्फटिकगिरिशिलामलः क्व विष्णु र्मनसि नृणां क्व च मत्सरादिदोषः । न हिं तुहिनमयूरखरश्मिमपुत्र्चे भवति हुताशनदीप्तिजः प्रतापः ॥२३॥
विमलमतिमत्सरः प्रशान्त श्शुचिचरितोऽखिलसत्त्वमित्रभूतः । प्रियहितवचनोऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः ॥२४॥
वसति हृदि सनातने च तस्मिन् भवति पुमात्र्जगतोऽस्यं सौम्यरूपः । क्षितिरसतिरम्यमात्मनोऽन्तः कथयति चारुतयैव शालपोतः ॥२५॥
यमनियमविधूतकल्मषाणा मनुदीनमच्युतसक्तमानसानाम् । अपगतमदमानमत्सराणां त्यज भट दुरतरेण मानवानाम् ॥२६॥
हृदि यदि भगवाननादिरास्ते हरिरसिशंखगदाधरोऽव्ययात्मा । तदघमघविघातकर्त्तृभिन्नं भवति कथं सति चान्धकारमर्के ॥२७॥
हरति परधनं निहन्ति जन्तून् वदति तथाऽनृतनिष्ठुराणि यश्च । अशुभजनितदुर्मदस्य पुंसः । कलुषमतेर्ह्रदि तस्य नास्त्यनन्तः ॥२८॥
न सहति परसम्पदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः । न यजति न ददाति यश्च सन्तं मनसि न तस्य जनार्दनोऽधमस्य ॥२९॥
परमसुह्रदि बान्धवे कलत्रे सुततनयापितृमातृभॄत्यवर्गे । शठमतिरुपयाति योऽर्थतृष्णां तमधमचेष्टमवेहि नास्य भक्तम् ॥३०॥
अशुभमतिरसत्प्रवृत्तिसक्त स्सततमनार्यकुशीलसंगमत्तः । अनुदिनक्रुतपापबन्धयुक्तः पुरुषपशूर्न हि वासुदेवभक्तः ॥३१॥
सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरस्स एकः । इति मतिरचला भवत्यनन्ते हृअयगते व्रज तान्विहाय दुरात् ॥३२॥
कमलनयन वासुदेव विष्णो धरणिधराच्युत शंखचक्रपाणे । भव शरणमितीरयन्ति ये वै त्यज भट दुरतरेण तानपापान् ॥३३॥
वसति मनसि यस्य सोऽव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते । तव गतिरथ वा ममास्ति चक्र प्रतिहतवीर्यबलस्य सोऽन्यलोक्यः ॥३४॥
कालिंग उवाच
इति निजभटशासनाय देवो रवितनयस्स किलाह धर्मराजः । मम कथितामिदं च तेन तुभ्यं कुरुवर सम्यगिदं मयापि चोक्तम् ॥३५॥
श्रीभीष्म उवाच
नकुलैतन्ममाख्यातं पूर्वं तेन द्विजन्मना । कलिंगदेशादभ्येत्य प्रीतेन सुमहात्मना ॥३६॥
मयाप्येतद्यथान्यायं सम्यग्वत्स तवोदितम् । यथा विष्णुमृते नान्यत्त्राणं संसारसागरे ॥३७॥
किंगराः पाशदण्डाश्च न यमो न च यातनाः । समर्थास्तस्य यस्यात्मा केशवालाम्बनस्सदा ॥३८॥
श्रीपराशरजी उवाच
एतन्मुने समाख्यातं गीतं वैवस्वतेन यत् । त्वत्प्रश्नानुगतं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥३९॥
इति श्रीविष्णुपुराणे तृतीयेऽशे सप्तमोऽध्यायः ॥७॥