श्रीमैत्रेय उवाच
भगवन्भगवान्देवः संसारविजिगीषुभिः । समाख्याहि जगन्नाथो विष्णुराराध्यते यथा ॥१॥
आराधिताच्च गोविन्ददाराधनपरैर्नरैः । यत्प्राप्यते फलं श्रोतुं तच्चेच्छमि महामुने ॥२॥
श्रीपराशरजी उवाच
यत्पृच्छति भवानेतत्सगरेण महात्मना । और्वः प्राह यथा पृष्टस्तन्मे निगदतश्श्रृणु ॥३॥
सगरः प्रणिपत्यैनमौर्व पप्रच्छ भार्गवम् । विष्णोराराधनोपायसम्बन्धं मुनिसत्तम ॥४॥
फलं चाराधिते विष्णौ यत्पुसामभिजायते । स चाह पृष्टो यत्नेन तस्मै तन्मेऽखिलं श्रृणु ॥५॥
और्व उवाच
भौमं मनोरथं स्वर्गं स्वर्ग रम्यं च यत्पदम् प्राप्रोत्याराधिते विष्णो निर्वाणमपि चोत्तमम् ॥६॥
यद्यदिच्छति यावच्च फलमारधितेऽच्युते । तत्तदाप्रोति राजेंद्र भूरि स्वल्पमथापि वा ॥७॥
यत्तु पृच्छसि भूपाल कथमाराध्यते हरिः । तदहं सकलं तुभ्यं कथयामि निबोध मे ॥८॥
वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥९॥
यजन्यज्ञान्यजत्येनं जपत्येनं जपन्नुप । निघ्रन्नन्यान्हिनस्त्येनं सर्वभूतो यतो हरिः ॥१०॥
तस्मात्सदाचारवता पुरुषेण जनार्दनः । आराध्यते स्ववर्णोक्तधर्मानुष्ठानकारिणा ॥११॥
ब्राह्मणः क्षत्रियो वैश्यः शुद्रश्च पृथिवीपते । स्वधर्मतत्परो विष्णुमाराधयति नान्यथा ॥१२॥
परापवांद पशुन्यमनॄतं च न भाषते । अन्योद्वेगकरं वापि तोष्यते तेन केशवः ॥१३॥
परदारपरद्रव्यपरहिंसासु यो रतिम् । न करोति पुमान्भुप तोष्यते तेन केशवः ॥१४॥
न ताड्यति नो हन्ति प्राणिनोऽन्यांश्च देहिनः । यो मनुष्यो मनुष्येन्द्र तोष्यते तेन केशवः ॥१५॥
देवद्विजगुरुनां च शुश्रुषासु सदोद्यतः । तोष्यते तेन गोविन्दः पुरुषेण नरेशअर ॥१६॥
यथात्मनि च पुत्रे च सर्वभूतेषु यस्तथा । हितकामो हरिस्तेन सर्वदा तोष्यते सुखम् ॥१७॥
यस्य रागादिदोषेण न दुष्टं नृप मानसम् । विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा ॥१८॥
वर्णाश्रमेषु ये धर्माश्शास्त्रोक्ता नृपसत्तम । तेषु तिष्ठन्नरो विष्णुमाराधयति नान्यथा ॥१९॥
सगर उवाच
तदहं श्रोतुमिच्छमि वर्णधर्मानशेषतः । तथैवाश्रमधर्मांश्च द्विजवर्य ब्रवीहि तान् ॥२०॥
और्व उवाच
ब्राह्मणक्षत्रियविंशा शूद्राणां च यथाक्रमाम् । त्वमेकाग्रमतिर्भूत्वा श्रृणु धर्मान्मयोदितान् ॥२१॥
दानं दद्याद्यजेद्देवान्यज्ञैस्स्वाध्यायतप्तरः । नित्योदकी भवेव्दिप्रः कुर्याच्चग्निपरिग्रहम् ॥२२॥
वृत्यर्थ याजयेच्चान्यानन्यानध्यापयेत्तथा । कुर्यांत्प्रतिग्रहादानं शुक्लार्थान्न्यायतो द्विजः ॥२३॥
सर्वभूतहितं कुर्यान्नाहितं कस्यचिद् द्विजः । मैत्री समस्तभूतेषु ब्राह्मणस्योतमं धनम् ॥२४॥
ग्राव्णि रत्ने च पारक्ये समबुद्धिर्भवेद द्विजः । ऋतावभिगमः पत्न्यां शस्यते चास्य पार्थिव ॥२५॥
दानानि दद्यदिच्छातो द्विजेभ्यः क्षत्रियोऽपि वा । यजेच्च विविधैर्यज्ञैरधीयीत च पार्थिवः ॥२६॥
शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका । तत्रापि प्रथमः कल्प पृथिवीपरिपालनम् ॥२७॥
धरित्रीपालनेनैव कृतकृत्वा नराधिपाः । भवन्ति नृपतेरंशा यतो यज्ञादिकर्मणांम् ॥२८॥
दुष्टांनां शासनाद्राजा शिष्टांनां परिपालनात् । प्राप्नोत्यभिमताँल्लोकान्वर्णसंस्था करोति यः ॥२९॥
पाशुपाल्यं च वाणिज्यं कृषिं च मनुजेश्वर । वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥३०॥
तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते । नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥३१॥
द्विजातिसंश्रितं कर्म तादर्थ्य तेन पोषणम् । क्रयविक्रयजैर्वापि धनैह कारुद्भवेन वा ॥३२॥
शूद्रस्य सन्नादिश्शौचं सेवा स्वामिन्यमायया । अमन्त्नयज्ञो ह्यास्तेयं सत्संगो विप्ररक्षणम् ॥३३॥
दानं च दद्याच्छूद्रोऽपि पाकयज्ञैर्यजेत च पित्र्यादिकं च तत्सर्व शुद्रः कुर्वीत तेन वै ॥३४॥
भृत्यादिभरणार्थाय सर्वेषां च परिग्रहः । ऋतुकालेऽभिगमनं स्वदारेषु महीपते ॥३५॥
दया समस्तभूतेषु तितिक्षा नातिमानिता । सत्यं शौचमनायासो मंगलं प्रियवादिता ॥३६॥
मैत्र्यस्पृहा तथा तद्वदकर्पण्यं नरेश्वर । अनसूया च सामान्यवार्णानां कथिता गुणाः ॥३७॥
आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः । गुणांस्तथापद्धर्मांश्च विप्रादीनामिमात्र्छृणु ॥३८॥
क्षात्रं कर्म द्विजस्योक्तं वैश्यं कर्म तथाऽपदि । राजन्यस्य च वैश्योक्तं शूद्रकर्म न चैतयोः ॥३९॥
सामर्थ्ये सति तत्त्याज्यमुभाभ्यामपि पार्थिव । तदेवापदि कर्तव्यं न कुर्त्यात्कर्मसंकरम् ॥४०॥
इत्येते कथिता राजन्वर्णधर्मा मया तव धर्मानाश्रमिणां सम्यग्बुवतो मे निशामय ॥४१॥
इति श्रीविष्णुपुराणे तृतीयेऽशे अष्टमोऽध्यायः ॥७॥