और्व उवाच
बालः कृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः ॥१॥
शौचाचारव्रतं तत्र कार्यं शुश्रुषणं गुरोः । व्रतानि चरता ग्राहो वेदश्च्व कृतबुद्धिना ॥२॥
उभे सन्ध्ये रविं भूप तथैवाग्निं समाहितः । उपतिष्ठेत्तदा कूर्याद्गुरोरप्यभिवादनम् ॥३॥
स्थिते तिष्ठेद्वजेद्याते नीचैरासीत चासति । शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं न सत्र्चरेत ॥४॥
तेनैवोक्तं पठेद्वेदं नान्यचितः पुरस्स्थितः । अनुज्ञातश्च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥५॥
अवगाहेपदः पुर्वमाचार्य़ेणावगाहिताः । समिज्ज्लादिकं चास्य कल्यं कल्यमुपानयेत ॥६॥
गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य च । गार्हस्थ्यमाविशेत्प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥७॥
विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा । गृहस्थकार्यमखिलं कुर्याद्भूपाल शक्तितः ॥८॥
निवापेन पितृनर्चन्यज्ञैर्देवांस्तथातिथीन । अनैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥९॥
भूतानि बलिभिश्चैव वात्सल्येनाखिलं जगत् । प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान ॥१०॥
भिक्षाभुजश्च ये केचित्परिव्राड्ब्रह्मचारिणः । तेऽप्यत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम् ॥११॥
वेदाहरनकार्याय तीर्थस्त्रानाय च प्रभो । अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥१२॥
अनिकेता ह्यानाहारा यत्र सायंगृहाश्च ये । तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिरेव च ॥१३॥
तेषां स्वागतदानादि वक्तव्यं मधुरं नृप । गृहागतानां दद्याच्च शयनासनभीजनम् ॥१४॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यामादाय गच्छति ॥१५॥
अवज्ञानमहंकारो दम्भश्चैव गृहे सतः । परितापोपघातौ च पारुष्यं च न शस्यते ॥१६॥
यस्तु सम्यक्करोत्येवं गृहस्थः परमं विधिम् । सर्वबन्धविनिर्मुक्तो लोकानाप्रोत्यनुत्तमान् ॥१७॥
वयः परिणतो राजन्कृतकृत्यो गृहाश्रमी । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥१८॥
पर्णमूलफलाहारः केशश्मश्रुजटाधरः । भूमिशायी भवेत्तत्र मुनिस्सर्वातिथिर्नृप ॥१९॥
चर्मकाशकुशैः कुर्यात्पारिधानोत्तरीयके । तद्वत्त्रिषवणं स्नानं शस्तमस्य नरेश्वर ॥२०॥
देवताभ्यर्चनं होमस्सर्वाभ्यागतपूजनम् । भिक्षा बलिप्रदानं च शस्तमस्य नरेश्वर ॥२१॥
वन्यस्त्रेहेन गात्राणामभ्यंगश्चास्य शस्यते । तपश्च तस्य राजेन्द्र शीतोष्णादिसहिष्णुता ॥२२॥
यस्त्वेतां नियतश्चर्या वानप्रस्थश्चरेन्मुनिः । स दहत्यग्निवद्योषाज्जयेल्लोकांश्च शाश्वतान् ॥२३॥
चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः । तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥२४॥
पुत्रद्रव्यकलत्रेषु त्यक्तस्त्रेहो नराधित । चतुर्थमाश्रमस्थानं गच्छेन्निर्धूमत्सरः ॥२५॥
त्रैवर्गिकांत्स्त्यजेत्सर्वानारम्भानवनीपते । मित्रादिषु समो मैत्रस्समस्तेष्वेव जन्तुषु ॥२६॥
जरायुजाण्डजादीनां वांमनः कायकर्मभिः । युक्तह कुर्वीत न द्रोह सर्वेसंगश्च वर्जयेत ॥२७॥
एकरात्रस्थितिर्ग्रामे पत्र्चरात्रस्थितिः पुरे । तथा तिष्ठेद्यथाप्रीतिर्द्वेषो वा नास्य जायते ॥२८॥
प्राणयात्रानिमित्तं च व्यंगारे भुक्तवज्जने । काले प्रशस्तवर्णानां भिक्षार्थ पर्यटेद् गृहान् ॥२९॥
कामः क्रोधस्तथा दर्पमोहलोभाद्यश्च ये । तांस्तु सर्वान्परित्यज्य परिव्राड् निर्ममो भवेत् ॥३०॥
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः । तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित ॥३१॥
कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरमग्नि स्वमुखे जुहोति । विप्रस्तु भैक्ष्योपहितैर्हविर्भि श्चिताग्र्निकानां व्रजाति स्म लोकन् ॥३२॥
मोक्षाश्रमं यश्चरते यथोक्तं शुचिस्सुखं कल्पितबुद्धियुक्तः । अनिन्धनं ज्योतिरिव प्रशान्तः स ब्रह्मलोकं श्रयते द्विजातिः ॥३३॥
इति श्रीविष्णुपुराणे तृतीयेऽशे नवमोऽध्यायः ॥९॥