श्रीविष्णुपुराण - चतुर्थ अंश - अध्याय ४

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Puranas.


श्रीपराशरजी उवाच

काश्यपदुहिता सुमतिर्विदर्भराजतनया केशिनी च द्वे भार्ये सगरस्यास्ताम् ॥१॥

ताभ्यां चापत्यार्थमौर्वः परमेण समाधिनाराधितो वरमदात् ॥२॥

एका वंशकरमेकं पुत्रमपरा षष्टिं पुत्रसहस्त्राणां जनयिष्यतीति

यस्या यदभिमतं तदिच्छया गृह्यतमित्युक्ते केशिन्येकं वरयामास ॥३॥

सुमतिः पुत्रसहस्त्राणि षष्टिं वव्रे ॥४॥

तथेत्युक्ते अल्पैरहोभिः केशिनी पुत्रमेकम्समज्जसनामानं वंशकरमसृत ॥५॥

काश्यपतनयायास्तु सुमत्याः षष्टिः पुत्रसहस्त्राण्यभवन् ॥६॥

तस्मादसमज्जसांदशुमान्नाम कुमारो जज्ञे ॥७॥

स त्वसमज्जसो बालो बाल्यादेवासद्‌वृत्तोऽभुत् ॥८॥

पिता चास्याचिन्तयदयमतीतबाल्यः सुबुद्धिमान् भविष्यतीति ॥९॥

अथ तत्रापि च वयस्यतीते असच्चरितमेनं पिता तत्याज ॥१०॥

तान्यपि षष्टिः पुत्रसहस्त्राण्यसमत्र्जसचरितमेवानुचकुः ॥११॥

ततश्चासमत्र्चसचरितानुकारिभिस्सागैररपध्वस्तयज्ञादिसन्मार्गे जगति

देवास्सकलाविद्यामयमसंस्पृष्टमशेषदोषैर्भगवतः पुरुषोत्तमस्यांशभूतं कपिलं प्रणम्य तदर्थमूचुः ॥१२॥

भगवन्नेभिस्सगरतनयैरसमत्र्जसचरितमनु-गम्यते ॥१३॥

कथमेभिरसद्‌वृत्तमनुसरद्भिर्जगद्भविष्यतीति ॥१४॥

अत्यार्त्तजगत्परित्राणायच भगवतोऽत्र शरीरग्रहणमित्याकर्ण भगवानाहाल्पैरेव दिनैर्विनंक्षयन्तीति ॥१५॥

अत्रान्तरे च सगरो हयमेधमारधत ॥१६॥

तस्य च पुत्रैरधिष्ठितमस्याश्चं कोऽप्यपहृत्य भुवो बिलं प्रविवेश ॥१७॥

ततस्तत्तनयाश्चाश्वखुरगतिनिर्बन्धोनावनीमेकैको योजनं चख्‍नुः ॥१८॥

पाताले चाश्वं परिभ्रमन्तं तमवनीपतितनयास्ते ददृशः ॥१९॥

नातिदुरे‍ऽवस्थितं च भगवन्तमपधने शरत्कालेऽर्कमिव

तेजोभिरनवरतमूर्ध्वश्वाशेषदिशश्चोद्भासयमानं हयहर्त्तारं कपिलर्षिमपश्यन् ॥२०॥

ततश्चोद्यतायुधा दुरात्मानोऽयमस्मदपकारी यज्ञविघ्रकारी हन्यतां हयहर्ता हन्यतामित्यवोचन्नभ्यधावंश्च ॥२१॥

ततस्तेनापि भगवता कित्र्चिदीषत्परिवर्त्तितलोचनेनावलोकितारस्वशरीरसमुत्थेनानाऽग्निना दह्यामाना विनेशुः ॥२२॥

सगरोऽप्यवगम्याश्वानुसारि तत्पुत्रबलमशेषं परमार्षिण कपिलेन तेजसा

दग्धं ततोंऽशुमन्तमसमज्जसपुत्रमस्वानयनाय युयोज ॥२३॥

स तु सगरतनयखातमार्गेण कपिलमुपगम्य भक्तिनम्रस्तदा तुष्टाव ॥२४॥

अथैनं भगवानाह ॥२५॥

गच्छैनं पितामहायाश्वं प्रापय वरं वृणीष्व च पुत्रक पौत्रश्च ते स्वर्गाद्गंगा भुवनानेष्यदा इति ॥२६॥

अथांशुमानपि स्वर्यातानां ब्रह्मादण्डहतानामस्मत्पितृणामस्वर्गयोग्यानां

स्वर्गप्राप्तिकरं वरमस्माकं प्रयच्छेति प्रत्याह ॥२७॥

तदाकर्ण्य तं च भगवानाह उक्तमेवैतन्मयाद्य पौत्रस्ते त्रिदिवाद्गंगा भुवमानेष्यतीति ॥२८॥

तदम्भसा च संस्पृष्टेष्वस्थिभस्मसु एते च स्वर्गमारोक्ष्यन्ति ॥२९॥

भगवद्विष्णुपादांगुष्ठनिर्गतस्य हि जलस्यैतन्माहात्म्यम् ॥३०॥

यन्न केवलमभिसन्धिपूर्वकं स्नानाद्युपभोगेषूपकारकमनभिसंहितमप्यपेतप्राणस्यास्थिचर्मस्नायुकेशाद्युपस्पृष्टं

शरीरजमपि पतितं सद्यश्शरीरिणं स्वर्गं नयतीत्युक्तः प्रणम्य भगवतेऽश्वमादाय पिता महयज्ञमाजगाम ॥३१॥

सगरो‍ऽप्यश्वमासाद्य तं यज्ञं समापयामास ॥३२॥

सागरं चात्मजप्रीत्या पुत्रत्वे कल्पितवान् ॥३३॥

तस्यांशुमतो दिलीपः पुत्रोऽभवत् ॥३४॥

दिलीपस्य भगीरथः योऽसौ गंगा स्वर्गादिहानीय भागीरथीसंज्ञां चकार ॥३५॥

भगीरथात्सुहोत्रस्सुहोत्राच्छुतः तस्याति नाभागः ततोऽम्बरीषः, तत्पुत्रस्सिन्धुद्वीपः सिन्धुद्वीपादयुतायुः ॥३६॥

तत्पुत्रश्च ऋतुपर्णः योऽसौ नलसहायोऽक्षहृदयज्ञोऽ‍भूत् ॥३७॥

ऋतुपर्णपुत्रस्सर्वकामः ॥३८॥

तत्तनयस्सुदासः ॥३९॥

सुदासात्सौदासो मित्रसहनामा ॥४०॥

स चाटव्यां मृगयार्थी पर्यटन् व्याघ्रद्वयमपश्यत् ॥४१॥

ताभ्यां तद्वनमपमृगं कृतं मत्वैकं तयोर्बाणेन जघान ॥४२॥

म्रियमाणश्चासावतिभीषणाकृतिरतिकरालवदनो राक्षसोऽभूत ॥४३॥

द्वितीयोऽपि प्रतिक्रियां ते करिष्यामीत्युक्त्वान्तर्धानं जगाम ॥४४॥

कालेन गच्छता सौदासो यज्ञमयजत् ॥४५॥

परिनिष्ठितयज्ञे आचार्ये वसिष्ठे निष्क्रान्ते तद्रक्षो वसिष्ठरूपमास्थाय यज्ञावसाने

मम नरमांसभोजनं देयमिति तत्संस्क्रियतां क्षणादागमिष्यामीत्युक्त्वा निष्क्रान्तः ॥४६॥

भूयश्च सुदवेषं कृत्वा राजाज्ञा मानुषं मांसं सस्कृत्य राज्ञे न्यवेदयत् ॥४७॥

असावपि हिरण्यपात्रे मांसमादाय वसिष्ठागमनप्रतीक्षाकोऽभवत् ॥४८॥

आगताय वसिष्ठाय निवेदितवान् ॥४९॥

स चाप्यचिन्तयदहो अस्य राज्ञो दौश्शील्यं येनैतन्मांसमस्माकं प्रयच्छति

किमतेतद्‌द्रव्यताजमिति ध्यानपरोऽभवत् ॥५०॥

अपश्यच्च तन्मासं मानुषम् ॥५१॥

अतः क्रोधकलुषीकृतचेता राजनि शापमुत्ससर्ज ॥५२॥

यस्मादभोज्यमेतदस्मद्विधानां तपस्विनामवगच्छन्नपि भवान्मह्यं ददाति तस्मात्तवैवात्र लोलुपता भविष्यतीति ॥५३॥

अनन्तरं च तेनापि भगवतैवाभिहितोऽस्मीत्युक्ते किं किं मयाभिहितमिति मुनिः पुनरपि समाधौ तस्थौ ॥५४॥

समाधिविज्ञानावगतार्थश्चानुग्रहं तस्मै चकार नात्यान्तिकमेतद्‍द्वादशाब्दं तब भोजनं भविष्यतीति ॥५५॥

असावपि प्रतिगृह्योदकाज्जलिं मुनिशापप्रदानायोद्यतो भगवन्नयस्मद्गुरुर्नार्हस्येनं

कुलदेवताभूतमाचार्यं शत्पुमिति मदयन्त्या स्वपत्‍न्या प्रसादितस्सस्याम्बुदरक्षणार्थ

तच्छापाम्बु नोर्व्या न चाकाशे चिक्षेप किं तु तेनैव स्वपदौ सिषेच ॥५६॥

तेन च क्रोधश्रितेनाम्बुना दग्धच्छायौ तत्पादौ कल्पाषतामुपगतौ ततस्स कल्माषपादसंज्ञामवाप ॥५७॥

वसिष्ठशापाच्च षष्ठे षष्ठे काले राक्षेसस्वभावमेत्याटव्यां पर्यटन्ननेकशो मानुषानभक्षयत् ॥५८॥

एकदा तु कत्र्चिन्मुनिमृतुकाले भार्यासंगतं ददर्श ॥५९॥

तयोश्च तमतिभीषणं राक्षसस्वरूपमललोक्य त्रासाद्दम्पत्योः प्रधावितयोर्ब्राह्यणं जग्राह ॥६०॥

ततस्या ब्राह्मणी बहुशस्तमाभियचितवती ॥६१॥

प्रसीदेक्ष्वाकुकुलतिलकभूतस्त्वं महाराजो मित्रसहो न राक्षसः ॥६२॥

नार्हसि स्त्रीधर्मसुखाभिज्ञो मय्यकृतार्थायामस्मद्भर्त्तारं हन्तुमित्येवं बहुप्रकारं

तस्यां विलपन्त्यां व्याघ्रः पशुमिवारण्येऽभिमतं तं ब्राह्मणमभक्षयत् ॥६३॥

ततश्चातिकोपसमन्विता ब्राह्मणी तं राजानं शशाप ॥६४॥

यस्मादेवं मय्यतृप्तायां त्वयायं मत्पतिर्भक्षितः तस्मात्त्वमपि कामोपभोगप्रवृत्तोऽन्तं प्राप्स्यसीति ॥६५॥

शप्त्वा चैवं साग्निं प्रविवेश ॥६६॥

ततस्तस्य द्वादशाब्दपर्यये विमुक्तशापस्य स्त्रीविषयाभिलाषिणो मदयन्ती तं स्मारयामास ॥६७॥

ततः परमसौ स्त्रीभोगं तत्याज ॥६८॥

वसिष्ठश्चापुत्रेण राज्ञा पुत्रार्थमभ्यर्थितो मदयन्त्यां गर्भाधानं चकार ॥६९॥

यदा च सप्तवर्षाण्यसौ गर्भी न जज्ञे ततस्तं गर्भमश्यना सा देवी जघान ॥७०॥

पुत्रश्वाजायत ॥७१॥

तस्य चाश्मक इत्येव नामाभवत ॥७२॥

अश्मकस्य मूलको नाम पुत्रोऽभवत् ॥७३॥

योऽसौ निःक्षत्रे क्ष्मातलेऽस्मिन् क्रियमाणे स्त्रीभिर्विवस्त्राभिः

परिवार्य रक्षितस्ततस्तं नारीकवचम्कुदाहरन्ति ॥७४॥

मुलकाद्दशरथस्तस्मादिलिविलस्ततश्च विश्वसहः ॥७५॥

तस्माच्च खट्‌वांगो योऽसौ देवासुरसंगग्रामे देवैरभ्यर्थितोऽसुरात्र्जघान ॥७६॥

स्वर्गे च कृतपिर्यैर्देवैर्वरग्रहणाय चोदितः प्राह ॥७७॥

यद्यवश्यं वरो ग्राह्यस्तन्ममायुः कथ्यतामिति ॥७८॥

अनन्तरं च तैरुक्तं एकमुहूर्त्तप्रमाणं तवायुरिक्तोऽथास्खलितगतिना

विमानेन लघिमगुणो मर्त्यलोकमागम्येदमाह ॥७९॥

यथा न ब्राह्मणेभ्यस्सकाशादात्मापि मे प्रियतरो न च स्वधर्मोल्लंघनं मया कदाचितप्यनुष्ठितं

न च सकलदेवमानुषपशुपक्षिवृक्षादिकेष्वच्युतव्यतिरेकवती दृष्टिर्ममाभृत तथा तमेवं

मुनिजनानृस्मृतं भगवन्तमस्खलितगतिः प्रापयेयमित्यशेशदेवगुरौ भगवत्यनिर्द्देश्यवपुषि

सत्तामात्रात्मन्यात्मानं परमात्मनि वासुदेवाख्ये युयोज तत्रैव च लयमवाप ॥८०॥

अत्रापि श्रूयते श्लोकओ गीतस्सप्तर्षिभिः पुरा । खट्‌वांगेन समो नान्यः कश्चिदुर्व्यां भविष्याति ॥८१॥

येन स्वर्गादिहागम्य मुहुर्त्त प्राप्य जीवितम् । त्रयोऽभिसंहिता लोका बुद्ध्या सत्येन चैव हि ॥८२॥

खट्‍वांगद्दीर्घबाहुः पुत्रोऽभवत् ॥८३॥

ततो रघुरभवत ॥८४॥

तस्मादप्यजः ॥८५॥

अजाद्दशरथः ॥८६॥

तस्यापि भगवानब्जनाभो जगतः स्थित्यर्थमात्मांशेन रामलक्ष्मणभरतशत्रुघ्ररूपेण चतुर्द्धा पुत्रत्वमायासीत् ॥८७॥

रामोऽपि बाल एव विश्वामित्रयागरक्षणाय गच्छंस्ताटकां जघान ॥८८॥

यज्ञे च मारीचमिषुवाताहतं समुद्रे चिक्षेप ॥८९॥

सुबाहुप्रमुखांश्च क्षयमनयत् ॥९०॥

दर्शनमात्रेणाहल्यामपापां चकार ॥९१॥

जनकगृहे च माहेश्वरं चापमनायासेन बभत्र्ज ॥९२॥

सीतामयोनिजां जनकाराजतनयां वीर्यशुल्कां लेभे ॥९३॥

सकलक्षत्रियक्षयकारिणमशेषहैहयकुलधूमकेतुभूतं च परशुराममपास्तवीर्यबलावलेपम चकार ॥९४॥

पितृवचनाच्चागणितराज्याभिलाषो भ्रातृ-भार्यासमेतो वनं प्रविवेश ॥९५॥

विराधखरदूषणादीन् कबन्धवालिनौ च निजघान ॥९६॥

बद्धवा चाम्भोनिधिमशेषराक्षसकुलक्षयं कृत्वा दशाननापहृतां भार्यां तद्वधादपहृतकलंका

मप्यनलप्रवेशशुद्धामशेषदेवसंघैः स्तूयमानशीलां जनकराजकन्यामयोध्यामानिन्ये ॥९७॥

ततश्चाभिषेकमंगलं मैत्रेय वर्षशतेनापि वक्तुं न शक्यते संक्षेपेण श्रूयताम् ॥९८॥

लक्ष्मणभरतशत्रुघ्नविभीषणसुग्रीवांगदजाम्बवद्धनुमत्प्रभृतिभिस्समुत्फुल्लवदनैश्छत्रचामरादियुतैः सेव्यामानो

दाशरथिर्ब्रह्योन्द्राग्नियमनिऋतिवरूणवायुकुबेरेशानप्रभृतिभिस्सर्वामरैर्वसिष्ठवामदेव

वाल्मीकिमार्कण्डेयविश्वामित्रभरद्वाजागस्त्यप्रभुतिभिर्मुनिवरैः

ऋग्यजुस्सामाथर्वभिस्संस्तूयमानो नृत्यगीतवाद्याद्यखिललोकमंगलवाद्येर्वीणावेणुमृदंगभेरीपटहशंखकाहलगो

मुखप्रभृतिभिस्सुनादैस्समस्तभूभृतां मध्ये सकललोकरक्षार्थं यथोचितमभिषिक्तो दशरथिः कोसलेन्द्रो

रघुकुलतिलको जानकीप्रियो भ्रातृत्रयप्रियास्सिंहासनगत एकादशाब्दसहस्त्रं राज्यमकरोत् ॥९९॥

भरतो‍ऽपि गन्धर्वविषयसाधनाय गच्छन संग्रामे गन्धर्वकोटीस्तिस्त्रो जघान ॥१००॥

शत्रुघ्नेनाप्यमितबलपराक्रमो मधुपुत्रो लवघो नाम राक्षसो निहतो मथुरा च निवेशिता ॥१०१॥

संहारिणो‍शेषस्य जगतो निष्पादितास्थितयो रामलक्ष्मणभरतशत्रुघ्नाः पुनरपि दिवामारूढाः ॥१०२॥

येऽपि तेषु भगवदंशेष्वनुरागिणः कोसलनगरजानपदास्तेऽपि तन्मनसस्तत्सालोक्यतामवापुः ॥१०३॥

अतिदुष्टसंहारिणो तक्षपुष्कवौ द्वौ पुत्रौ लक्ष्मणस्यांगदचन्द्रकेतु तक्षपुष्कलौ भरतस्य सुबाहूशूरसेनौ शत्रुघ्नस्य ॥१०४॥

कुशस्या तिथिरतिथेरपि निषधः पुत्रोऽभूत् ॥१०५॥

निषधस्याप्यनकस्तस्मादपि नभाः नभसः पुण्डरीकस्तत्तनयः क्षेमधन्वा तस्य च

देवानीकस्तस्याप्यहीनको‌ऽहीनकस्यापि रुरुस्तस्य च पारियात्रकः पारियात्रकाद्देवको देवलाद्वच्चलः

तस्याप्युक्तः पारियात्रकाद्देवको देवलाद्वच्चलः तस्याप्युक्तः उत्काच्च

वज्रनाभस्तस्माच्छंखणस्तस्माद्युषिताश्वस्ततश्च विश्वसहो जज्ञे ॥१०६॥

तस्माद्धिरण्यनाभो यो महायोगीश्व्फ़राज्जैमिनेश्शिष्याद्याज्ञाल्क्याद्योगमवाप ॥१०७॥

हिरण्यनाभस्य पुत्रः पुष्यस्तस्माद्‌ध्रुवसन्धिस्ततस्सुदर्शनस्तस्मादग्निवर्णस्ततश्शीघ्रगस्तस्मादपि मरुः पुत्रोऽभवत् ॥१०८॥

योऽसौ योगमास्थायाद्यापि कलापग्राममाश्रित्य तिष्ठिति ॥१०९॥

आगामियुगे सूर्यवंशक्षत्रप्रवर्त्तयिता भविष्यति ॥११०॥

तस्यात्मजः प्रसुश्रुतस्तस्यापि सुसन्धिस्ततश्चाप्यमर्षस्तस्य च सहस्वांस्ततश्च विश्वभवः ॥१११॥

तस्य बृहद्वलः योऽर्जुनतनयेनाभिमन्युना भारतयुद्धे क्षयमनीयत ॥११२॥

एते इक्ष्वाकुभूपालाः प्राधान्येन मयेरिताः । एतेषां चरितं श्रृण्वन् सर्वपापैः प्रमुच्यते ॥११३॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP