श्रीमैत्रेय उवाच
सूर्यस्य वंश्या भगवन्कथिता भवता मम । सोमस्याप्यखिलान्वंश्यात्र्छ्रोतुमिच्छामि पार्थिवान ॥१॥
कीर्त्यते स्थितकीर्तीनं येषामद्यापि सन्ततिः । प्रसादसुमुखस्तान्मे ब्रह्मान्नाख्यातुमर्हसि ॥२॥
श्रीपराशरजी उवाच
श्रूयतां मुनिशार्दुल वंशः प्रथिततेजसः । सोमस्यानुक्रमात्ख्याता यत्रोर्वीपतयोऽभवन् ॥३॥
अयं हि वंशोऽतिबलपराक्रमद्युतिशीलचेष्टाविद्भिरतिगुणनवितैर्नहुषययातिकार्तवीर्यर्जुनादि
भिर्भूपालैरलंकृतस्तमहं कथयामि श्रूयताम् ॥४॥
अखिलजगत्स्त्रष्टुर्भगवतो नारायणस्य नाभिसरोजसमुद्भब्जयोन्रर्ब्रह्याणः पुत्रोऽत्रिः ॥५॥
अत्रेस्सोमः ॥६॥
तं च भगवानब्जयोनिः अशेषौषधिद्विजनक्षत्राणामाधिपत्येऽभ्यषेचयत् ॥७॥
स च राजसूयतमरोत् ॥८॥
तत्प्रभावदत्युत्कृष्टाधिपत्याधिष्ठातृत्वाच्चैनं मद आविवेश ॥९॥
मदावलेपाच्च सकलदेवगुरोर्बृहस्पतेस्तारां नाम पत्नीं जहार ॥१०॥
बहुरश्च बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानः सकलैश्च देवर्षिभिर्याच्यमानोऽपि न मुमोच ॥११॥
तस्य चन्द्रस्य च बृहस्पतेर्द्वैषादुशना पार्ष्णग्राहोऽभूत ॥१२॥
अंगिरसश्च सकाशादुपसब्धाविद्यो भगवान्रुद्रो बृहस्पतेः साहाय्यमकरोत् ॥१३॥
यतश्चोशना ततो जम्भकुम्भाद्याः समस्ता एव दैत्यदानवनिकाया महान्तमुद्यमं चक्रुः ॥१४॥
बृहस्पतेरपि सकलदेवसैन्ययुतः सहायः शुक्रोऽभवत् ॥१५॥
एवं च तयोरतीवोग्रसंग्राम स्तारानिमित्तस्तारकामयो नामाभूत ॥१६॥
ततश्च समस्तशस्त्राण्यसुरेषु रुद्रपुरोगमा देवा देवेषु चाशेषदानवा ममुचुः ॥१७॥
एवं देवासुराहवसंक्षोभक्षुब्धहृदयमशेषमेव जगद्गह्याणं शरणं जगाम ॥१८॥
ततश्च भगवानब्जयोनिरप्युशनसं शंकरमसुरान्देवाश्च निवार्य बृहस्पतये तारामदापयत् ॥१९॥
तां चान्तः प्रसवामवलोक्य बृहस्पतिरप्याह ॥२०॥
नैष मम क्षेत्रे भवत्यान्यस्य सुतो धार्यस्समुत्सृजैनमलामलमतिधार्ष्ट्येनेति ॥२१॥
सा च तेनैवमुक्तातिपतिव्रता भर्तृवचनानन्तरं तमिषीकास्तम्बे गर्भमुत्ससर्ज ॥२२॥
स चोत्सृष्टमात्र एवातितेजसा देवानां तेजास्याचिक्षेप ॥२३॥
बृहस्पातिमिन्दुं च तस्य कुमारस्यातिचारुतया साभिलाषौ दृष्ट्व देवास्समुत्पन्नसन्देहास्तारां पप्रच्छुः ॥२४॥
सत्यं कथयास्माकमिति सुभगे सोमस्याथा वा बृहस्पतेरयं पुत्र इति ॥२५॥
एवं तैरुक्ता सा तारा ह्रिया कित्र्चिन्नोवाच ॥२६॥
बहुशोऽप्यभिहिता यदासौ देवेभ्यो नाचचक्षे ततस्य कुमारस्तां शप्तुमुद्यतः प्राह ॥२७॥
दुष्टेऽम्ब कस्मान्मम तातं नाख्यासि ॥२८॥
अद्यैव ते व्यलीकलज्जावत्यास्तथा शास्तिमहं करोमि ॥२९॥
यथा च नैवमद्याप्यतिमन्थरवचना भविष्यसीति ॥३०॥
अथ भगवान पितामहः तं कुमारं सन्निवार्य स्वयमपृच्छत्तां ताराम् ॥३१॥
कथय वत्से कस्यायमत्मजः सोमस्य वा बृहस्पतेर्वा इत्युक्ता लज्जमानाह सोमस्येति ॥३२॥
ततः प्रस्फुरदुच्छवसितामलकपोलकान्तिर्भगवानुडुपतिः-कुमारमालिंगय
साधु साधु वत्स प्रोज्ञोऽसीति बुध इति तस्य च नाम चक्रे ॥३३॥
तदाख्यातमेवैतत् स च यथेलायामात्मजं पुरूरवसमुत्पादयामास ॥३४॥
पुरूरवास्त्वतिदानशीलोऽतियज्वातितेजस्वी । यं सत्यवादिनमतिरुपवन्तं मनिस्विनं
मित्रावरूणशापान्मानुषे लोके मया वस्तव्यमिति कृतमतिरुर्वशी ददर्श ॥३५॥
दृष्टमात्रे च तस्मिन्नपहाय मनमशेषमपास्य स्वर्गसुखाभिलाषं तन्मनस्का भूत्वा तमेवोपतस्थे ॥३६॥
सोऽपि च तामतिशयितसकललोक्स्त्रीकन्तिसौकुमार्यलावण्यगतिविलासहासादिगुणामवलोक्य तदायत्तचित्तवृत्तिर्बभूव ॥३७॥
उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तसमस्तान्यप्रयोजनमभूत ॥३८॥
राजा तु प्रागल्भ्यात्तामाह ॥३९॥
सुभ्रु त्वामहमाभिकामोऽस्मि प्रसीदानुरागमुद्वहेत्युक्ता लज्जावखण्डितमुर्वशी तं प्राह ॥४०॥
भवत्वेवं यदि मे समयपरिपालनं भवान् करोतीत्याख्याते पुनरपि तामाह ॥४१॥
आख्याहि मे समयमिति ॥४२॥
अथ पृष्टा पुनरप्यब्रवीत ॥४३॥
शयनसमीपे ममोरनकद्वयं पुत्रभूतं नापनेयम् ॥४४॥
भवांश्च मया न नग्नो द्रष्टव्यः ॥४५॥
घृतमात्रं च ममाहार इति ॥४६॥
एवमेवेति भूपतिरप्याह ॥४७॥
तया सह स चावनिपतिरलकायां चैत्ररथादि वनेष्वमलपद्यखण्डेषु
मानसादिसरस्वतिरमणीयेषु रममाणः षण्टिवर्षसहस्त्राण्यनुदिनप्रवर्द्धमानप्रमोदोऽनयत् ॥४८॥
उर्वशी च तदुपभोगात्प्रतिदिनप्रवर्द्धमानानुरागा अमरलोकवासेऽपि न स्पृहां चकार ॥४९॥
विना चोर्वश्या सुरलोकोऽप्सरसां सिद्धगन्धर्वाणां च नातिरमणीयोऽभवत् ॥५०॥
ततश्चोर्वशीपुरुरवसोस्समयविद्विश्वावसुर्गन्धर्वसमवेतो निशि शयनाभ्याशादेकमुरणकं जहार ॥५१॥
तस्याकाशे नीयमानस्योर्वशी शब्दमश्रृणोत् ॥५२॥
एवमुवाच च ममानाथायाः पुत्रः केनापह्नियते कं शरणमुपयामीति ॥५३॥
त्दाकर्ण्य राजा मां नग्नं देवी वीक्ष्यतीतिज न ययौ ॥५४॥
अथन्यमप्युरणकमादाय गन्धर्वा ययुः ॥५५॥
तस्याप्यपह्नियमाणस्याकर्ण्य शब्दमाकाशे पुनरप्यनाथास्म्यहमभर्तृका कापुरुषाश्रयेत्यार्त्तराविणी बभुव ॥५६॥
राजाप्यवर्षवशादन्धकारमेतदिति खड्गमादाय दुष्ट दुष्ट हतोऽसीति व्याहरन्नभ्यधावत ॥५७॥
तावच्च गन्धर्वैरप्यतीवोज्ज्वला विद्युज्जनिता ॥५८॥
तत्प्रभया चोर्वशी राजानमपगताम्बर दृष्ट्वापवृत्तसमया तत्क्षणादेवापक्रान्ता ॥५९॥
परित्यज्य तावप्युरणकौ गन्धर्वास्सुरलोकमुपगताः ॥६०॥
राजापि च तौ मेषावादायातिहॄष्टमनाः स्वशयनमायातो नोर्वशीं ददर्श ॥६१॥
तां चापश्यन् व्यपगताम्बर एवोन्मत्तरूपो बभ्राम ॥६२॥
कुरुक्षेत्रे चाम्भोजसरस्यन्याभिश्चतसृभिरप्सरोभिस्समवेतामुर्वशीं ददर्श ॥६३॥
ततश्चोन्मत्तरूपो जाये हे तिष्ठ मनसि घोरे तिष्ठ वचसि कपटिके तिष्ठेत्येवमनेकप्रकारं सुक्तमवोचत् ॥६४॥
आह चोर्वशी ॥६५॥
महाराजालमनेनाविवेकचेष्टितेन ॥६६॥
अन्तर्वत्न्यहमब्दान्ते भवतात्रागन्तव्यं कुमारस्ते भविष्यति एकां च
निशामहं त्वया सह वत्स्यामीत्युक्तः प्रहृस्स्वपुरं जगाम ॥६७॥
तासां चाप्सरसामुर्वशी कथयामास ॥६८॥
अयं स पुरुषोत्कृष्टो येनाहमेतावन्तं कालमनुरागाकृष्टमानसा सहोषितेति ॥६९॥
एवमुक्तास्ताश्चाप्सरस ऊचुः ॥७०॥
साधु साध्वस्य रूपमप्यनेन सहास्माकमपि सर्वकालमास्या भवेदिति ॥७१॥
अब्दे च पूर्णे स राजा तत्राजगाम ॥७२॥
कुमारं चायुषमस्मै चोर्वशी ददौ ॥७३॥
द्त्त्वा चैकां निशां तेन राज्ञा सहोषित्वा पत्र्च पुत्रोत्पत्तये गर्भमवाप ॥७४॥
उवाचैनं राजानमस्मत्प्रीत्या महाराजाय सर्व एव गन्धर्वा वरदास्संवृत्ता व्रियतां च वर इति ॥७५॥
आह च राजा ॥७६॥
विजितसकलारातिरविहतेन्द्रियसामार्थ्यौ बन्धुमानमितबलकोशोऽस्मि,
नान्यदस्माकमुर्वशीसालोक्यात्प्राप्तव्यमस्ति तदहमनया सहोर्वश्य कालं
नेतुमभिलषामीत्युक्ते गन्धर्वा राज्ञेऽग्निस्थाली ददुः ॥७७॥
ऊचुश्चैनमग्निमाम्नायानुसारी भूत्वा त्रिधा कृत्वोर्वशीलसोकतामनोरथमुद्दिश्य
सम्यग्यजेथाः ततोऽवश्यमभिलषितमवाप्स्यसीत्युक्तस्तामग्निस्थालीमादाय जगाम ॥७८॥
अन्तरटव्यामचिन्तयत् , अहो मेऽतीव मूढता किमहमकरवम् ॥७९॥
वह्निस्थाली मयैषानीता नोर्वशीति ॥८०॥
अथैनमटव्यामेवाग्निस्थालीं तत्याज स्वपुरं च जगाम ॥८१॥
व्यतीतेऽर्द्धरात्रे विनिद्रश्चाचिन्तयत् ॥८२॥
ममोर्वशीसालोक्यप्राप्त्यर्थमग्निस्थाली गन्धर्वैर्दत्ता सा च मयाटव्यां परित्यक्ता ॥८३॥
तदहं तत्र तदाहरणाय यास्यामीत्युत्थाय तत्राप्युपगतो नाग्निस्थालीमपश्यत् ॥८४॥
शमीगर्भं चाश्वत्थमग्निस्थालीस्थाने दृष्टाचिन्तयत् ॥८५॥
मयात्राग्निस्थाली निक्षिप्ता सा चाश्वत्थश्शमीगर्भोऽभूत ॥८६॥
तदेनमेवाहमग्निरूपमादाय स्वपुरमभिगम्यारणीं कृत्वा तदुत्पन्नाग्नेरुपास्तिं करिष्यामीति ॥८७॥
एवमेव स्वपुरमभिगम्यारणिं चकार ॥८८॥
तत्प्रमाणं चांगुलैः कुर्वन गायत्रीमपठत् ॥८९॥
पठतश्चाक्षरसंख्यान्येवांगुलान्यरण्यभवत् ॥९०॥
तत्राग्निं निर्मथ्याग्नित्रयमाम्रायानुसारी भूत्वा जुहाव ॥९१॥
उर्वशीसालोक्यं फलमभिसंहितवान् ॥९२॥
तेनैव चाग्निविधिना बहुविधान् यज्ञानिष्ट्वा गान्धर्वलोकानवाप्योर्वश्या सहावियोगमवाप ॥९३॥
एकोऽग्निरादावभवत् एकेन त्वत्र मन्वन्तरे त्रेधा प्रवर्तिताः ॥९४॥