श्रीपराशरजी उवाच
रजेस्तु पत्र्च पुत्रशतान्यतुलबलपराक्रमसाराण्यासन् ॥१॥
देवासुरसंग्रामारम्भे च परस्परवधेप्सवो देवाश्चासुराश्च ब्रह्माणमुपेत्य पप्रच्छुः ॥२॥
भगवन्नसमाकमत्र विरोधे कतरः पक्षो जेता भविष्यतीति ॥३॥
अथाह भगवान् ॥४॥
येषामर्थे रजिरात्तायुधो योत्साति तप्तक्षो जेतेति ॥५॥
अथ दैत्यैरुपेत्य अजिरात्मसाहय्यदानायाभ्यर्थितः प्राह ॥६॥
योत्स्येऽहं भवतामर्थेयद्यहममरजयाद्भवतामिन्द्रो भविष्यामीत्त्याकर्ण्यैतत्तैरभिहितम् ॥७॥
न वयमन्यथा वदिष्यामोऽन्यथा करिष्यामोऽस्माकमिन्द्रः प्रह्लादस्तदर्थमेवायमुद्यम
इत्युक्त्वा गतेष्वसुरेषु देवैरप्यसाववनिपरिरेवमेवोक्तस्तेनापि च
तथिवोक्ते देवैरिन्द्रस्त्वं भविष्यसीति समन्वीप्सितम् ॥८॥
रजिनापि देवसैन्यसहायेनानेकैर्महास्त्रैस्त्सदसेषमहौसुरबलं निषूदितम् ॥९॥
अथ जितारिपक्षश्च देवेन्द्रो रजिचरणयुगलमात्मनः शिरसा निपीड्याह ॥१०॥
भयत्राणादन्नदानाद्भवानस्मत्पिताऽशेषलोकानामुत्तमोत्तमो भवान् यस्याहं पुत्रस्त्रिलोकेन्द्रः ॥११॥
स चापि राजा प्रहस्याह ॥१२॥
एवमस्त्वेवमस्त्वनतिक्रमणीया हि वैरिपक्षादप्यनेकविधचाटुवाक्यगर्भा प्रणतिरित्युक्त्वा स्वपुरं जगाम् ॥१३॥
शतक्रतुरपीन्द्रत्वं चकार ॥१४॥
स्वर्याते तु रजौ नारदर्षिचोदिता रजिपुत्राश्शतक्रतुमात्मपितृपुत्रं समाचारद्राज्यं याचितवन्तः ॥१५॥
अप्रदानेन च विजित्येन्द्रमतिबलिनः स्वयमिन्द्रत्वं चक्रुः ॥१६॥
ततश्च बहुतिथे काले ह्यातीते बृहस्पतीमेकान्ते दृष्टा अपहृतत्रैलोक्ययज्ञभागः शतक्रतुरुवाच ॥१७॥
बदरीफलमात्रमप्यर्हसि ममाप्यायनाय पुरोडाशखण्डं दातुमित्युक्तो बृहस्पतिरुवाच ॥१८॥
यद्येवं त्वयाहं पूर्वमेव चोदितस्स्यां तन्मयां त्वदर्थं किमकर्त्तव्यमित्यल्पैरेवाहोभिस्त्वां निजं पदं
प्रापयिष्यामीत्यभिधाय तेषामनुदिनमाभिचारिकं बुद्धिमोहाय शक्रस्य तेजोऽभिवृद्धये जुहाव ॥१९॥
ते चापि तेन बुद्धिमोहेनाभिभूयामाना ब्रह्माद्विषो धर्मत्यागिनो वेदवादपराड्मुखा बुभूवुः ॥२०॥
ततस्तानपेतधर्माचारानिन्द्रो जघान ॥२१॥
पुरोहिताप्यायिततेजाश्च शक्रो दिवमाक्रमत् ॥२२॥
एतदिन्द्रस्य स्वपदच्यवनादारोहणं श्रुत्वा पुरुषः स्वपदभ्रंश दौरात्म्यं च नाप्रोति ॥२३॥
रम्भस्त्वनपत्योऽभवत् ॥२४॥
क्षत्रवृद्धसुतः प्रतिक्षत्रोऽभवत् ॥२५॥
तत्पुत्रः सज्जयस्तस्यापि जयस्तस्यापि विजयस्तस्माच्च जज्ञे कृतः ॥२६॥
तस्य च हर्यधनो हर्यधनसुतस्सहदेवस्तस्माददीनस्तस्य जयत्सेनस्ततश्च
संस्कृतिस्तत्पुत्रः क्षत्रधर्मा इत्येते क्षत्रवृद्धस्य वंश्याः ॥२७॥
ततो नहुषवंशं प्रवक्ष्यामि ॥२८॥