श्रीपराशर उवाच
इक्ष्वाकुतनयो योऽसौ निमिर्नाम सहस्त्रं वत्सरं सत्रमारेभे ॥१॥
वसिष्ठं च होतारं वरयामास ॥२॥
तमाह वसिष्ठोयऽहमिन्द्रोण पत्र्चवर्षशतयागार्थ प्रथमं वृत्तः ॥३॥
तदनन्तरं प्रतिपाल्यातामागतस्तवापि ऋत्विग्भविष्यामीत्युक्ते स पृथिवीपतिर्न कित्र्चिदुक्तवान् ॥४॥
वसिष्ठोऽप्यनेन समन्वीप्सितमित्यमरपतेर्यागमकरोत् ॥५॥
सोऽपि तत्काल एवान्यैर्गौतिमादिभिर्यागमकरोत् ॥६॥
समाप्ते चामरपतेर्यागे त्वरया वसिष्ठो निमियज्ञं करिष्यामीत्याजगाम ॥७॥
तत्कार्मकर्तृत्वं च गौतमस्य दृष्ट्या स्वपते तस्मै राज्ञे मां प्रत्याख्यायैतदनेन
गौतमाय कर्मान्तरं समर्पितं यस्मात्तस्मादयं विदेहो भविष्यतीति शापं ददौ ॥८॥
प्रबुद्धश्चासाववनिपतिरपि प्राह ॥९॥
यस्मान्मामम्भाष्याज्ञानत एव शयानस्य शापोत्सर्गमसौ दुष्टगुरुश्चकार
तस्मात्तस्यापि देहः पतिष्यतीति शापं दत्त्वा देहमत्यजत् ॥१०॥
तच्छापाच्च मित्रावरूणयोस्तेजसि वसिष्ठस्य चेतः प्रविष्टम् ॥११॥
उर्वशीदर्शनादुद्भूतबीजप्रपातयोस्तयोस्सकाशाद्वसिष्ठो देहमपरं लेभे ॥१२॥
निमेरपि तच्छरीरमतिमनोहरगन्धतैलादिभिरुपसंस्क्रियमाणं नैव क्लेदादिकं दोषमवाप सद्यो मृत इव तस्थौ ॥१३॥
यज्ञसमाप्तौ भागग्रहणाय देवानागतानृत्विज ऊचुर्यजमानाय वरो दीयतामिति ॥१४॥
देवैश्च छन्दितोऽसौ निमिराह ॥१५॥
भगवन्तोऽखिलसंसारदुःखहन्तारः ॥१६॥
न ह्योतादृगन्यद् दुःखमस्ति यच्छरीरात्मनोर्वियोगे भवति ॥१७॥
तदहमिच्छामि सकललोकलोचनेषु वस्तुं न पुनश्शरीरग्रहणं कर्तुमित्येवमुक्तैर्देवैरसावशेषभूतानां नेत्रेष्ववतारितः ॥१८॥
ततो भूतान्युन्मेषनिमेषं चक्रुः ॥१९॥
अपुत्रस्य च भूभुजः शरीरमराजकभीरवो मनुयोऽरण्या ममन्थुः ॥२०॥
तत्र च कुमारो जज्ञे ॥२१॥
जननाज्जनकसंज्ञां चावाप ॥२२॥
अभूद्विदेहोऽस्य पितेति वैदेहः, मथनान्मिथिरिति ॥२३॥
तस्योदावसुः पुत्रोऽभवत् ॥२४॥
उदावसोर्नन्दिवर्द्धनस्ततस्सुकेतुः तस्माद्देवरात-स्ततश्च बृहदुक्थः तस्य च महावीर्यस्तस्यापि सुधृतिः ॥२५॥
ततश्च धृष्टकेतुरजायत ॥२६॥
धृष्टकेतोर्हर्यश्वस्तस्य च मनुर्मनोः प्रतिकः तस्मात्कृतरथस्तस्य देवमीढः, तस्य च
विबुधो विबुधस्य महाधूतिस्ततश्च कृतरातः ततो महारोमा
तस्य सुवर्णरोमा तत्पुत्रो ह्यस्वरोमा ह्रस्वरोम्णस्सीरध्वजोऽभवत् ॥२७॥
तस्य पुत्रार्थं यजनभुवं कृषतः सीरे सीता दुहिता समुत्पन्ना ॥२८॥
सीरध्वजस्य भ्राता सांकश्याधिपतिः कुशध्वजनामासीत् ॥२९॥
सीरध्वजस्यापत्यं भानुमान् भानुमतश्शतद्युम्रः तस्य तु शुचिः तस्माच्चोर्जनामा पुत्रो जज्ञे ॥३०॥
तस्यापि शतध्वजः ततः कृतिः कृतेरत्र्जनः तत्पुत्रः कुरुजित् ततोऽरिष्टनेमिः तस्माच्छृतायुः
श्रुतायुषः सुपार्श्वः तस्मात्सृत्र्जयः ततः क्षेमावी क्षेमाविनोऽनेनाः तस्माद्भौमरथः तस्य सत्यरथः
तस्मादुपगुरुपगोरुपगुप्तः तत्पुत्रः स्वागतस्तस्य च स्वानन्दः, तस्माच्च सुवर्चाः तस्य च सुपार्श्वः
तस्यापि सुभाषः विजयस्य ऋतः, ऋतात्सुनयः सुनयाद्वीतहव्यः तस्मादधॄतिर्धृतेर्बलाश्वः तस्य पुत्रः कृतिः ॥३१॥
कृतौ सन्तिष्ठतेऽयं जनकवंशः ॥३२॥
इत्येते मैथिलाः ॥३३॥
प्राणेयैते आत्मविद्याश्रयिणो भूपाला भवन्ति ॥३४॥