कृष्णं नारायणं वन्दे कृष्णं वन्दे व्रजप्रियम् ।
कृष्ण द्वैपायनं वन्दे कृष्णं वन्दे पृथासुतम् ।
सच्चीदानन्दरूपाय विश्वोत्पत्यादिहेतवे ।
तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः ॥१॥
यं प्रव्रजन्तमनुपेतमपेकृत्यं द्वैपायनो विरहकातर आजुहाव ।
पुत्रोति तन्मयतया तरवोऽभिनेदुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥२॥
नैमिषे सूतमासीनभिवाद्य महामतिम् ।
कथामृतरसास्वादकुशलः शौनक्रोऽब्रवीत ॥३॥
शौनक उवाच
अज्ञानध्वान्तविध्वंसकोटिसूर्यसमप्रभ ।
सुताख्याहि कथासारं मम कर्णरसायनम् ॥४॥
भक्तिज्ञानविरागाप्तो विवेको वर्धते महान् ।
मायामोहनिरासश्च वैष्णवेः क्रियते कथम् ॥५॥
इह घोरे कलौ प्रायो जीवाश्चासुरतां गतः ।
क्लेशाक्रान्तस्य तस्यैव शोधने किं परायणम् ॥६॥
श्रेयसां यद्भवेच्छ्रेयः पावनांना च पावनम् ।
कृष्णप्राप्तिकरं शश्वत्साधनं तद्वदाधुना ॥७॥
चिन्तामणिर्लोकसुखं सुरद्रुः स्वर्गसम्पदम् ।
प्रयच्छति गुरुः प्रीतो वैकुण्ठं योगिदुर्लभम् ॥८॥
सूत उवाच
प्रीतिः शौनक चित्ते ते होते वच्मि विचार्यच ।
सर्वसिद्धान्तनिष्मन्नं संसारभयनाशनम् ॥९॥
भक्त्योवर्धनं यच्च कृष्णसंतोषहेतुकम ।
तदहं तेऽभिधास्यामि सावधानतया श्रृणु ॥१०॥
कालव्यालमुखग्रसत्रासनिर्णाशहेतवे ।
श्रीमद्भागवतं शास्त्रं कलौ कीरेन भाषितम ॥११॥
एतस्मदपरं कित्र्चीन्मनः शुद्ध्यै न विद्यते ।
जन्मात्तरे भवेत्पुण्यं तदा भागवतं लभेत ॥१२॥
परीक्षिते कथां वक्तुं सभायां संस्थिते शुके ।
सुधाकुम्भं गृहीत्वैव देवास्तत्र समागमन ॥१३॥
शुकं नत्वावदन सर्वे स्ककार्यकुशलाः सुराः ।
कथासुधां प्रयच्छस्व गृहीत्वैव सुधामिमाम ॥१४॥
एवं विनिमये जाते सुधा राज्ञा प्रपीयताम ।
प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतम् ॥१५॥
क्व सुधा क्व कथा लोके क्व काचः क्व मणिर्महान ।
ब्रह्मारातो विचार्यैवं तदा देवात्र्जहास ह ॥१६॥
अभक्तांस्तांश्च विज्ञाय न ददौ स कथामृत ।
श्रीमद्भागवती वार्ता सुराणामपि दुर्लभा ॥१७॥
राज्ञो मोक्षं तथा वीक्ष्य पुरा धाताति विस्मितः ।
सत्यलोक तुलां बद्ध्वाऽतोलयत्साधनान्यजः ॥१८॥
लघून्यनयनि जातानि गौरवेण इदं महत् ।
तदा ऋषिगणाः सर्वे विस्मय परमं ययुः ॥१९॥
मेनिरे भगवद्रूपं शास्त्रं भागवतं कलौ ।
पठनाच्छ्रवणात्सद्यो वैकुण्ठफलदायकम ॥२०॥
सताहेन श्रुतं चैतत्सर्वथा मुक्तिदायकम ।
सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः ॥२१॥
यद्यपि बह्मसम्बन्धाच्छुतमेतत्सुरर्षिणा ।
सप्ताहाश्रवणाविधिः कुमारैस्तस्य भाषितः ॥२२॥
शौनक उवाच
लोकविग्रहमुक्तस्य नारदस्यास्थिरस्य च ।
विधिश्रवे कृतः प्रीति संयोगः कुत्र तैः सह ॥२३॥
सूत उवाच
अत्र ते कीर्तयिष्यमि भक्तियुक्तं कथानकम् ।
शुकेन मम यत्प्रोक्तं रहः शिष्यं विचार्य च ॥२४॥
एकदा हि विशालायां चत्वार ऋषयोऽमलाः ।
सत्सगंआर्थ समायाला ददृशुस्तत्र नारदम् ॥२५॥
कुमारा ऊचुः
कथं ब्रह्मान्दीनमुख कृतश्चिन्तातुरो भवान ।
त्वरितं गम्यते कुत्र कुतश्चागमनं तव ॥२६॥
इदानीं शुन्यचित्तोऽसि गतवित्तो यथा जनः ।
तवेदं मुक्तसंगस्य नोचित वद कारणम् ॥२७॥
नारद उवाच
अहं तु पृथिवीं यतो ज्ञात्वा सर्वोत्तमामिति ।
पुष्करं च प्रयागं च काशीं गोदावरीं तथा ॥२८॥
हरिक्षेत्रं कुरुक्षेत्रं श्रारंग सेतुबन्हनम् ।
एवमादिषु तीर्थेषु भ्रममाण इतस्ततः ॥२९॥
नापश्य कुत्रचिच्छर्म मनः संतोषकारकम् ।
कलिनाऽधर्ममित्रेण धरेयं बाधिताधुना ॥३०॥
सत्यं नास्ति तपः शौचं दया दानं न विद्यते ।
उदरम्भरिणो जीवा वराका ; कुटभाषिणः ॥३१॥
मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ।
पाखण्डनिरताः सन्तो विरक्ताः सपरिग्रहाः ॥३२॥
तरुणीप्रभुता गेहे श्याहको बुद्धीदायकः ।
कन्याविक्रयिणो लोभाद्दम्पतीनांच कल्कनम् ॥३३॥
आश्रमा यवनै रुद्धास्तीर्थानि सरितस्तथा ।
देवतायतनान्यत्र दुष्टैर्नष्टानि भुरिशः ॥३४॥
न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः ।
कलिदावानलेनाद्य साधनं भस्मतां गतम् ॥३५॥
अदृशूला * जनपदाः शिवशुला द्विजातयः ।
कामिन्यः केशशूलिन्यः सम्भवन्ति कलाविह ॥३६॥
एवं पश्यन कलेर्दोषान पर्यटन्नवनीमहम ।
यामुनं तटमापन्नो यत्र लीला हरेरभूत ॥३७॥
तत्राश्चर्य मया दृष्यं श्रुयतां तन्मुनीश्वराः ।
एका तू तरुणी तत्र निषण्णा खिन्नमानसा ॥३८॥
वृद्धौ द्वौ पतितौ पाश्चै निःश्वसन्तावचेतनौ ।
शुश्रुषन्ती पबोधन्ती रुदती च तयोः पुरः ॥३९॥
दशदिक्षु निरिक्षन्ती रक्षितारं निजं वपुः ।
वीज्यमाना शतस्त्रीभिर्बोध्यमाना मुहुर्मुहुः ॥४०॥
दृष्ट्वा दुराद्रतः सोऽहं कौतुकेन तदन्तिकम
मां दृष्टा चोत्थिता बाला विह्वला चाब्रवीद्वचः ॥४१॥
बालोवाच
भो भोः साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय ।
दर्शन तवं लोकस्य सर्वथाघहरं परम् ॥४२॥
बहुधा तव वक्येन दुःखशान्तिर्भविष्यति ।
यदा भाग्यं भवेद्भूरि भवतो दर्शनं तदा ॥४३॥
नारद उवाच
कासि त्वं कविमौचेमा नार्यः काः पद्मलोचनाः ।
वद देवि सविस्तारं स्वस्य दुःखस्य कारणम् ॥४४॥
बालोवाच
अहं भक्तिरिति ख्याता इमौ मे तनयौ मतौ ।
ज्ञानवैराग्यनामानौ कालयोगेन जर्जरौ ॥४५॥
गंगाद्याः सरितश्चेमा मत्सेवार्थ समागताः ।
तथापि न च मे श्रेयः सेवितायाः सुरैरपि ॥४६॥
इदानीं श्रृणु मद्वार्तां सचित्तस्त्वं तपोधन ।
वार्ता मे वितताप्यस्ति तां श्रुत्वा सुखमावह ॥४७॥
उप्तन्ना द्वविडे सायं वृद्धीं कर्णाटके गता ।
क्वचित्क्वचिन्महाराष्ट्रे गुर्जरे जीर्णतां गता ॥४८॥
तत्र घोरकलेर्योगात्पाखण्डैः खण्डितांगका ।
दुर्बलाह निरं याता पुत्राभ्यां सह मन्दताम ॥४९॥
वृन्दावनं पुनः प्राप्य नवीनेव सुरुपिणी ।
जाताहं युवती साम्यक्म्प्रेष्ठरूपा तू साम्प्रतम् ॥५०॥
इमौ तु शयितावत्र सुतौ मे क्लिश्यतः श्रमात ।
इदं स्थान परित्यज्य विदेश गम्यते मया ॥५१॥
जरठत्वं समायातौ तेन दुःखेन दुःखिता ।
साहं तु तरूणी कस्मात्सुती वृद्धाविमौ कूतः ॥५२॥
त्रयाणां सहचारित्वाद्वैपरित्यं कुतः स्थितम ।
घटते जरठा माता तरूणौ तनयाविति ॥५३॥
अतः शोचामि चात्मानं विस्मयाविष्टमानसा ।
वद योगानिधे धीमनं कारण चात्र किं भवेत ॥५४॥
नारद उवाच
ज्ञानेनात्मनि पश्चामि सर्वमेतत्ववानघे ।
न विषादस्त्वया कार्यो हरिः शं ते करिष्यते ॥५५॥
सुत उवाच
क्षणमात्रेण तज्ज्ञात्वा वाक्यामूचे मुनीश्वरः ॥५६॥
नारद उवाच
श्रृणुष्वावहिता बाले युगोऽयं दारूणः कलिः ।
तेन लुप्तः सदाचारो योगमार्गस्तपांसि च ॥५७॥
जना अगहसुरायन्ते शाठ्यदुष्कर्मकारिणः ।
इह सन्तो विषीदन्ति प्रहृष्यन्ति ह्यासाधवः ।
धत्त्ते धैर्य तू यो धीमान स धीरः पण्डितोऽथवा ॥५८॥
अस्पृश्यानवलोक्येयं शेषभारकरी धरा ।
वर्षे वर्षे क्रमाज्जाता मंगलं नापि दृश्यते ॥५९॥
न त्वामपि सुतैः साकं कोऽपि पश्याति साम्प्रतम ।
उपेक्षितानुरागान्धैर्जर्जरत्वेन संस्थिता ॥६०॥
वृन्दावनस्य संयोगात्पुनस्त्वं तरुणी नवा ।
धन्य वृन्दावनं तेन भक्तिर्नृत्यति यत्र च ॥६१॥
अत्रेमौ ग्राहकाभावान्न जरामपि मुत्र्चत ।
कित्र्चिदात्मसुखेनेह प्रसुप्तिर्मन्यतेऽनयोः ॥६२॥
भक्तिरुवाच
कथं परीक्षिता राज्ञा स्थापितो ह्याशुचिः कलिः ।
प्रवृत्ते तू कलौ सर्वसारः कूत्र गातो महान ॥६३॥
करुणापरेण हरिणाप्यधर्मः कथमीक्ष्यते ।
इमं मे संशयं छिन्धि त्वद्वाचा सुखितास्म्यहम् ॥६४॥
नारद उवाच
यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु ।
सर्व वक्ष्यामि ते भद्रे कश्मलं ते गमिष्यति ॥६५॥
यदा मुकुन्दो भगवान क्ष्मां त्यक्त्वा स्वपदंगतः ।
तद्दीनात्कलिरायातः सर्वसाधनबाधकः ॥६६॥
दृष्टो दिग्विजये राज्ञा दीनवच्छरणं गतः ।
न मया मारणीयोऽयं सारंग इव सारभुक् ॥६७॥
यत्फलं नास्ति तपसा न योगेन समाधिना ।
तत्फलं लभते सम्यक्कलौ केशवकीर्तनात् ॥६८॥
एकाकारं कलिं दृष्ट्वा सारवत्सारनीरसम ।
विश्णुरातः स्थापितवान कलिजानां सुखाय च ॥६९॥
कुकर्माचरणात्सारः सर्वतो निर्गतोऽधुना ।
पदार्थाः संस्थिता भुमौ बीजहीनास्तुषा यथा ॥७०॥
विप्रैर्भागवती वार्ता गेहे गेहे जने जने ।
करिता कणलोभेन कथासारस्ततो गतः ॥७१॥
अत्युग्रभूरिकर्माणो नास्तिका रौरवा जनाः ।
तेऽपि तिष्ठन्ति तीर्थेषु तीर्थसारस्ततो गतः ॥७२॥
कामक्रोधमहालोभतृष्णाव्याकुलचेतसः ।
तेऽपि तिष्ठन्ति तपसि तपः सारस्ततो गतः ॥७३॥
मनसश्चाजयाल्लोभाद्दम्भात्पाखण्डसंश्रयात ।
शास्त्रनभ्यसनाच्चैव ध्यानयोगफलं गतम् ॥७४॥
पण्डितास्तु कलत्रेण रमन्ते महिषा इव ।
पुत्रस्योत्पादने दक्षा अदक्षा मुक्तिसाधने ॥७५॥
न हि वैष्णवता कुत्र सम्प्रदायपुरःसरा ।
एवं प्रलयतां प्राप्तो वस्तुसारः स्थले स्थले ॥७६॥
अयं तु युगधर्मो हि वर्तते कस्य दूषणम् ।
अतस्तु पुण्डरीकाक्षः सहते निकटे स्थितः ॥७७॥
सूत उवाच
इति तद्वतनं श्रुत्वा विस्मयं परमं गता ।
भक्तिरूचे वचो भूयः श्रुयतां तच्च शौनक ॥७८॥
भक्तिरुवाच
सुरर्षे त्वं हि ध्नयोऽसि मद्धाग्येन समागतः ।
साधूनां दर्शन लोके सर्वसिद्धिकरं परम् ॥७९॥
जयति जगति मायां यस्य कायाधवस्ते वचनरचनमेकं केवल चाकलय्य ।
ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयं सकलकुशलपात्रं ब्रह्मापुत्रं नतास्मि ॥८०॥
इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्मे भक्तिनारदासमागमो नम प्रथमोऽध्यायः ॥१॥