सुत उवाच
पितर्युपरते तेन जननी ताडिता भृशम ।
क्व वित्तं तिष्ठति ब्रुहि हनिष्ये लत्तया न चेत ॥१॥
इति तद्वाक्यसंत्रासाज्जनन्या पुत्रदुःखत ।
कूपे पातः कृतो रात्रौ तेन सा निधनं गता ॥२॥
गोकर्णस्तीर्थयात्रार्थ निर्गतो योगसंस्थितः ।
न दुःख्ह न सुखं तस्य न वैरी नापि बान्धवः ॥३॥
धुन्धुकारी गृहेऽतिष्ठत्पंचपण्यवधूवृत्तः ।
अत्यौग्रकर्मकर्ता च तत्पोषणविमुढधीः ॥४॥
एकदा कुलटास्तास्तु भूषणान्यभिलिप्सवः ।
तदर्थ निर्गतो गेहात्कामान्धो मृत्युमस्मरन ॥५॥
यतस्ततश्च सहृत्य वित्तं वेश्म पुनर्गतः ।
ताभ्योऽयच्छत्सुवस्त्राणि भुषनानि कियन्ति च ॥६॥
बहुवित्तचयं दृष्टा रात्रौ नार्यो व्यचारयन ।
चौर्य करोत्यसी नित्यमतो राजा ग्रहीष्यति ॥७॥
वित्तं हृत्वा पुनश्चैनं मारयिष्यति निश्चितम ।
अतोऽर्थगुप्तये गुढमस्माभिः किं न हन्यते ॥८॥
निहत्यैनं गृहीत्वार्थ यास्यामो यत्र कुत्रचित ।
इति ता निश्चयं कृत्वा सुप्तं सम्बद्ध्य रश्मिभिः ॥९॥
पाशं कण्ठे निधायास्य तन्मृत्युमुपचक्रमुः ।
त्वरीतं न ममारासौ चिन्तायुक्तास्तदाभवन ॥१०॥
तत्पांगारसमुहांश्र्च तन्मुखे हि विचिक्षिपुः ।
अग्निज्वालतिदुःखेन व्याकुलो निधनं गतः ॥११॥
तं देहं मुमुचुर्गर्ते प्रायः साहसिकाः स्त्रियः ।
न ज्ञातं तद्रहस्यं तु केनापीदं तथैव च ॥१२॥
लोकैः पृष्टा वदन्ति स्म यातः प्रियो हि नः ।
आगमिष्यति वर्षेऽस्मिन वित्तलोभकर्षितः ॥१३॥
स्त्रीणां नैव तु विश्वासं दृष्टांनां कारयेदु बुधः ।
विश्वासो यः स्थितो मुढः स दूःखैः परिभुयते ॥१४॥
सुधामयं वचो यासां कामिनां रसवर्धनम ।
हृदयं क्षुरधाराभं प्रियः को नाम योषिताम ॥१५॥
सहत्य वित्तं ता याताः कुलटा बहुभर्तृकाः ।
धुन्धुकारी बभुवाथ महान प्रेतः कुकर्मतः ॥१६॥
वात्यारूपधरो नित्यं धावन्दशदिशोऽन्तरम ।
शीतातपपरिक्लिष्टो निराहारः पिपासितः ॥१७॥
न लेभे शरणं क्वपि हा दैविति मुहुर्वदन ।
कियत्कालेन गोकर्णो मृत लोकादबुध्यत । \१८॥
अनाथं तं विदित्वैव गया श्राद्धमचीकरत ।
यस्मिस्तीर्थे तु संयति तत्र श्राद्धमवर्तयत ॥१९॥
एवं भ्रमन स गोकर्णः स्वपुरं समुपेयिवान ।
रात्रौ गृहांगणे स्वत्पूमागतोऽलक्षितः परैः ॥२०॥
तत्र सुप्तं स विज्ञान धुन्धुकारी स्वबान्धवम ।
निशीथे दर्शयामास महरौदतरं वपुः ॥२१॥
सकृन्मेषः सकृद्धस्ती सकृच्च महिषोऽभवत ।
सकृदिन्द्रः सकृच्चाग्निः पुनश्च पुरुषोऽभवत ॥२२॥
वैपरीत्यमिदं दॄष्टा गोकर्णो धैर्यसंयुक्त ।
अयं दुर्गतिकः कोऽपि निश्चित्याथ तमब्रवीत ॥२३॥
गोकर्ण उवाच
कस्त्वमुग्रतरो रात्रौ कुतो यतो दशामिमाम ।
किं व प्रेतः पिशाचो वा राक्षसोऽसीति शंसनः ॥२४॥
सूत उवाच
एवं पृष्टस्तदा तेन रुदोदोच्चैः पुनः पुनः ।
अशक्तो वचनोच्चारे संज्ञामात्रं चकार ह । \२५॥
ततोऽत्र्जलौ जलं कृत्वां गोकर्णस्तमुदैयत ।
तत्सेकहतपापोऽसौ प्रवक्तुमुपचक्रमे ॥२६॥
प्रेत उवाच
अहं भ्राता त्वदीयोऽस्मि धुन्धुकारीती नामतः ।
स्वकीयेनैव दोषेण ब्रह्मात्वं नाधितं मया ॥२७॥
कम्रणो नास्ति संख्या मे महाज्ञाने विवर्तिनः ।
लोकांना हिंसकः सोऽहं स्त्रीभिर्दुःखेन मारितः ॥२८॥
अतः प्रेतत्वमपन्नौ दुर्दशां च वहाम्यहम ।
वताहारेण जीवामि दैवाधीनफलोदयात ॥२९॥
अहो बन्धी कृपासिन्धो भ्रातर्मामाशु मोचय ।
गोकर्णो वचन श्रुत्वा तस्मै वाक्यमथाब्रवीत ॥३०॥
गोकर्ण उवाच
त्वदर्थ तु गयापिण्डो मया दत्तो विधानतः ।
तत्कथं नैव मुक्तोऽसि ममाश्छर्यमिदं महत ॥३१॥
गयाश्राद्धान्न मुक्तिश्चेदुपायो नापरस्त्विह ।
किं विधेयं मया प्रेत तत त्वं वद सविस्तरम ॥३२॥
प्रेत उवाच
गया श्राद्धशतेनापि मुक्तिमे न भविष्यति ।
उपायमपरं कंचित्वं विचारय साम्प्रतम ॥३३॥
इति तद्वक्यमाकर्ण्य गोकर्णो विस्मयं गतः ।
शतश्राद्धैर्न मुक्तिश्चेदशाध्यं मोचनं तव ॥३४॥
इदानी तु निजं स्थानमतिष्ठ प्रेत निर्भयः ।
त्वन्मुक्तिसाधकं किंचिदाचरिष्ये विचार्य च ॥३५॥
धुन्धुकारी निजस्थानं तेनादिष्टस्ततो गतः ।
गोकर्णाश्चिन्तयामास तां रात्रिं न तदध्यगात ॥३६॥
प्रातस्तमागतं दृष्टा लोकाः प्रीत्या समागताः ।
तत्सर्व कथितं तेन यज्जातं च यथा निशि ॥३७॥
विद्वासो योगनिष्ठाश्च ज्ञानिनो ब्रह्मावादिनः ।
तन्मुक्तिं नैव तेऽपश्यन पश्यन्तः शास्त्रंसंचयान ॥३८॥
ततः सर्वे सुर्यवाक्य तन्मुक्तौ स्थापितं परम ।
गोकर्णः स्तम्भनं चक्रे सूर्यवेगस्य वै तदा ॥३९॥
तुभ्यं नमो जगत्साक्षिन ब्रुहि मे मुक्तिहेतुकम ।
तच्छुत्वा दुरतः सूर्य स्फूटिमत्यभ्यभाषत ॥४०॥
श्रामद्भागवतान्मुक्ति सप्ताहं वाचनं कुरु ।
इति सुर्यवचः सर्वैधर्मरूपं तु विश्रुतम ॥४१॥
सर्वेऽबुवन प्रयत्नेन कर्तव्य सुकरं त्विदम ।
गोकर्ण निश्चयं कृत्वां वाचनार्थ प्रवर्तितः ॥४२॥
तत्र संश्रवणार्थाय देशग्रामाज्जना ययुः ।
पड्ग्वन्धवृधामन्दाश्च तेऽपि पापक्षयाय वै ॥४३॥
समाजस्तु महात्र्जातो देवविस्मयकारकः ।
यदैवासनमास्थाय गोकर्णाऽकथायत्कथाम ॥४४॥
सप्रेतोऽपि तदाऽयातः स्थानं पश्यन्नितस्ततः ।
सप्तग्रन्थियुतं तत्र्यापश्यक्तिचकमुच्छ्रितम ॥४५॥
तन्मुलच्छिद्रमाविष्य श्रवनार्थ स्थितो ह्यसौ ।
वातरुपी स्थितिं कर्तुमशक्तो वंशमाविशत ॥४६॥
वैष्णवं ब्राह्मणं मुख्य श्रोतांरं परिकल्प्य सः ।
प्रथमस्कन्धतः स्पष्टमाख्यानं धेनुजोऽकरोत ॥४७॥
दिनान्ते रक्षिता गाथा तदा चित्रं बभुव ह ।
वंशैकग्रन्थिभेदोऽभुत्सशब्दं पश्यतां सताम ॥४८॥
द्वितीयेऽह्नि तथा सायं द्वितीयग्रन्थिभेदनम ।
तृतीयेऽह्नि तथा सायं तृतीयग्रन्थिभेदनम ॥४९॥
एवं सप्तदिनौ श्चैव सप्तग्रन्थिविभेदनम ।
कृत्वा स द्वादशास्कन्धश्रवनाप्रेततां जहौ ॥५०॥
दिव्यरुपधरो जातसुत्लसीदाममण्डितः ।
पीतवासा घनश्यामो मुकुटी कुण्डलन्वितः ॥५१॥
ननाम भ्रातरं सद्यो गोकर्णमिती चाब्रवीत ।
त्वयाहं मोचितो बन्धो कॄपया प्रेतकश्मलात ॥५२॥
धन्या भागवती वार्ता प्रेतपीडाविनाशिनी ।
सप्ताहोऽपि तथा धन्यः कृष्णलोकफलप्रदः ॥५३॥
कम्पन्ते सर्वपापानि सप्ताहश्रवणे स्थिते ।
अस्माकं प्रलयं सद्यः कथा चेयं करिष्यति ॥५४॥
आर्द्र्य शुष्कं स्थुलं वाडमनः कर्मभि कृतम ।
श्रवणं विदहेत्पापं पावकः समिधो यथा ॥५५॥
अस्मिन वै भारते वर्षे सुरिभिर्देवसंसादि ।
अकथाश्राविणां पुंसां निष्फलं जन्म कीर्तितम ॥५६॥
किं मोहतो रक्षितेन सुपुष्टेन बलीयसा ।
अध्रुवेण शरीरेण शुकशास्त्रकथां विना । \५७॥
अस्थिस्तम्भ स्नायुबद्धं मांसशोणितलेपितम ।
चर्मावनद्धं दुर्गन्धं पात्रं मूत्रपुरीषयोः ॥५८॥
जराशोकविपाकार्त रोगमन्दिरमातुरम ।
दुष्पुरं दुर्धरं दुष्टं सदोषं क्षणभंगुर ॥५९॥
कुमिविंभस्मसंज्ञान्त शरीरमिति वर्णितम ।
अस्थिरेण स्थिरं कर्म कुतोऽयं साधयेन्न ही ॥६०॥
यत्प्रातः संस्कृतं चान्नं सायं तच्च विनश्यति ।
तदीयरससम्पुष्टे काये का नाम नित्यता ॥६१॥
सप्ताहश्रवणाल्लोके प्राप्यते निकटे हरिः ।
अतो दोषनिवृत्यर्थमेतदेव हि साधनम ॥६२॥
बुदबुदा इव तोयेषु मशका इव जन्तुषु ।
जायन्ते मरणायैव कथा श्रवणावर्जिताः ॥६३॥
जडस्य शुष्कवंशस्य यत्र ग्रन्थिविभेदनम ।
चित्रं किमु तदा चित्तग्रन्थिभेदः कथाश्रवात ॥६४॥
भिद्यते हृदयग्रन्थिश्लिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि सप्ताहश्रवणे कृते ॥६५॥
संसारकर्दमालेपप्रक्षालनपटीयसि ।
कथातीर्थे स्थिते चित्ते मुक्तिरेव बुधैः स्मृता ॥६६॥
एवं ब्रुवति वै तस्मिन विमानमागमत्तदा ।
वैकुंण्ठवासिभियुउक्तं प्रस्फुरद्दीप्तिमण्डलम । \६७॥
सर्वेषां पश्यता भेजें विमानं धुन्धुलीसुत ।
विमाने वैष्णवान वीक्ष्म गोकर्णा वाक्यमब्रवीत ॥६८॥
गोकर्ण उवाच
अतैव बहवः सन्ति श्रोतारो मम निर्मलाः ।
आनीतानि विमानानि न तेषां युगतत्कुतः ॥६९॥
श्रवणं समभागेन सर्वेषामिह दृश्यते ।
फलभेदः कुतो जातः प्रबुवन्तु हरिप्रियाः ॥७०॥
हरिदासा ऊचुः
श्रवणस्य विभेदेन फलभेदोऽत्र संस्थितः ।
श्रवणं तु कृतं सर्वैर्न तथा मननं कृतम ।
फलभेदस्ततो जातो भजनादपि मानद ॥७१॥
सत्परातमुपोष्यैव प्रेतेन श्रवणं कृतम ।
मननादि तथा तेन स्थिरचित्ते कृतं भृशम ॥७२॥
अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम ।
संदिग्धो हि हतो मन्त्रो व्याग्रचित्तो हतो जपः ॥७३॥
अवैष्णवो हत्तो देशो हतं श्राद्धमपात्रकम ।
हतमश्रोत्रिये दानमनाचारं हतं कुलम ॥७४॥
विश्वासो गुरुवाक्येषु स्वस्मिन्दीनत्वभावना ।
मनोदोषजयश्चैव कथायां निश्चला मतिः ॥७५॥
एवमादि कृतं चेत्स्यात्तदा वै श्रवणे फलम ।
पुनः श्रवान्ते सर्वेषां वैकुण्ठं वसतिध्रुवम ॥७६॥
गोकर्ण तव गोविन्दो गोलोंकं दास्यति स्वयम ।
एवमुक्त्त्वा ययुः सर्वे वैकुण्ठं हरिकीर्तनाः ॥७७॥
श्रावणे मासि गोकर्णः कथामुचे तथा पुनः ।
सत्परात्रवतीं भुयः श्रवणं तैः कृतं पुनः ॥७८॥
कथासमाप्तौ यज्जातं श्रुयतां तच्च नारद ॥७९॥
विमानौः सह भक्तैश्च हरिराविर्बभुव ह ।
जयशब्दा नमः शब्दास्तत्रासन बहवस्तदा ॥८०॥
पांचजन्यध्वनिं चक्रे हर्षात्तत्र स्वयं हरिः ।
गोकर्ण तु समालिंग्याकरोत्स्वसदृशं हरिः ॥८१॥
श्रोतृनन्यन घनश्यामान पीतकौशेयवाससः ।
कीरीटिनः कुण्डलीनस्तथा चक्रे हरिः क्षणात ॥८२॥
तदग्रामे ये स्थिता जीवा आश्चचाण्डालजातयः ।
विमाने स्थापितास्तेऽपि गोकर्णकृपया तदा ॥८३॥
प्रेषिता हरिलोके ते यत्र गच्छन्ति योगिनः ।
गोकर्णेन स गोपालो गोलोंकं गोपवल्लभम ।
कथाश्रवणतः प्रीतो निर्ययो भक्तवत्सल ॥८४॥
अयोध्यावसिनः पूर्व यथा रामेण संगता ।
तथा कृष्णेन ते नीता गोलोकं यिगिदुर्लभम ॥८५॥
यत्र सुर्यस्त सोमस्य सिद्धांनां न गतिः कदा ।
तंलोकं ही गतास्ते तु श्रीमद्भागवतश्रवात ॥८६॥
ब्रुमोऽत्र ते किं फलवृनमुज्ज्वलं स्त्पाहयज्ञेन कथासु संचितम ।
कर्णेन गोकर्णकथाक्षरो यैह पीतश्च ते गर्भगता न भुयः ॥८७॥
वताम्बुपर्णाशनदेहशोषणै स्तपोभिरुग्रैश्चिरकालसंचितैः ।
योगैश्चसंयान्ति न तां गतिं वै सप्ताहगाथाश्रवणेन यान्ति याम ॥८८॥
इतिहासमिमं पुण्यं शाण्डिल्योऽपि मुनीश्चरः ।
पठते चित्रकुटस्थो ब्रह्मानन्दपरिप्लुतः ॥८९॥
आख्यानमेतत्परमं पवित्रं श्रुत सकृदै विदहेदघौघम ।
श्राद्धे प्रयुक्तं पितृतृप्तिमावहे न्नित्यं सुपाठादपुनर्भवं च ॥९०॥
इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतामाहात्म्ये गोकर्णमोक्षवर्णनं नाम पंचमोऽध्यायः ॥५॥