सूत उवाच
अथ वैष्णवचित्तेषु भक्तिमलौकीकीम ।
निजलोकं परित्यज्य भगवान भक्तवत्सलः ॥१॥
वनमाली घनश्यामः पीतवासा मनोहरः ।
कात्र्चीकलापरुचिरो लसन्मुकुटकुण्डलः ॥२॥
त्रिभंगललितश्चारुकौस्तुभेन विराजितः ।
कोटिमन्मथलावण्यो हरिचन्दनचर्चितः ॥३॥
परमाननन्दचिन्मूर्तिर्मूधूरो मुरलीधरः ।
आविवेश स्वभक्तांनां हृदयान्समलानि च ॥४॥
वैकुण्ठवासिनो ये च वैष्णवा उद्धवादयः ।
तत्काथाश्रवणार्थं ते गूढरूपेण संस्थिताः ॥५॥
तदा जयजयारावो रसपुष्टिरलौकिकी ।
चूर्णप्रसूनवृष्टिश्च मुहूः शंखरवोऽप्यभुत ॥६॥
तत्सभासंस्थितानां च देहगेहात्मविस्मृतिः ।
दृष्ट्वा च तन्मयावस्थां नारदो वाक्यमब्रवीत ॥७॥
अलौकिकोऽयं महिमा मुनीश्वराः सप्ताहजन्योऽद्य विलोकितो मया ।
मूढाः शठा ये पशुपक्षिणोऽत्र सर्वेऽपि निष्पापतमा भवन्ति ॥८॥
अतो नृलोके ननु नास्ति किंचिचित्तस्य शोधाय कलौ पवित्रम ।
अघौघविध्वंसकरं तथैव कथासमानं भुवि नास्ति चान्यत ॥९॥
के के विशुद्धन्ति वदन्तु मह्यं सप्ताहयज्ञेन कथामयेन ।
कृपालुभिर्लोकहितं विचार्य प्रकाशितः कोऽपि नवीनमार्गः ॥१०॥
कुमार ऊचुः
ये मानवाः पापकृतस्तु सर्वदा सदा दुराचाररता विमार्गगाः ।
क्रोधाग्रिदग्धा कुटिलाश्च कामिनः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥११॥
सत्येन हीनाः पितृमातृदूषकास्तृष्णाकुलाश्चाश्रमधर्मवर्जिताः ।
ये दाम्भिका मत्सरिणोऽपि हिंसकाः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥१२॥
पत्र्चोग्रपापाश्छलछद्मकारिणः क्रूराः पिशाचा इव निर्दयाश्च ये ।
ब्रह्मस्वपुष्टा व्यभिचारकारिणः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥१३॥
कायेन वाचा मनम्सापि पातकं नित्यं प्रकृर्वन्ति शठा हठेन ये ।
परस्वपुष्टा मलिना दुराशयाः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥१४॥
अत्र ते कीर्तयिष्याम इतिहासं पुरातनम ।
यस्य श्रवणमात्रेण पापहानिः प्रजायते ॥१५॥
तुगंभद्रातटे पूर्वमभूत्पत्तनमुत्तमम ।
यत्र वर्णाः स्वधर्मण सत्यसत्कर्मतत्पराः ॥१६॥
आत्मदेवः पुरे तस्मिन सर्ववेदविशारदः ।
श्रौतस्मार्तेषु निष्णातो द्वितीय इव भास्कर ॥१७॥
भिक्षुको वित्तवाँल्लोके तत्प्रिय धुन्धुली स्मृता ।
स्वावाक्यस्थापिका नित्यं सुन्दरी सुकुलोद्भवा ॥१८॥
लोकवार्तारता क्रूरा प्रायशो बहुजल्पिका ।
शूरा च गृहकृत्येषु कृपणा कलहप्रिय ॥१९॥
एवं निवसतोः प्रेम्णा दम्पत्यो रममाणयोः ।
अर्थाः कामाअस्तयोरासन्न सुखाय गृहादिकम ॥२०॥
पश्चाद्धर्माः समारब्धास्ताभ्यां संतानहेतवे ।
गोभाहिरण्यवंसांसि दीनेभ्यो यच्छतः सदा ॥२१॥
धनार्धं धर्ममार्गण ताभ्यां नीतं तथापि च ।
नपुत्रो नापि वा पुत्री ततश्चीन्तातुरो भृशम ॥२२॥
एकदा स द्विजो दुःखाद गृहं त्यक्त्वा वनं गतः ।
मध्याह्ने तृषितो जातस्तडांग समुपेयिवान ॥२३॥
पीत्वा जलं निषण्णस्तु प्रजादुः खेन कर्शितः ।
मुहूर्तादपि तत्रैव संन्यासी कश्चिदागतः ॥२४॥
दृष्टा पीतजलं तं तु विप्रो यातस्तदन्तिकम ।
नत्वा च पादयोस्त्स्य निःश्वसन संस्थितः पुरः ॥२५॥
यतिरुवाच
कथं रोदिषि विप्र त्वं का ते चिन्ता बलीयसी ।
वद त्वं सत्वरं मह्यां स्वस्य दुःखस्य कारणम ॥२६॥
ब्राह्मण उवाच
किं ब्रवीमि ऋषे दुःखं पुर्वपापेन संचितम ।
मदीयाः पुर्वजास्तोयं कवोष्णमुपभुज्जाते ॥२७॥
मद्दत्तं नैव गृह्णन्ति प्रीत्या देवा द्विजातयः ।
प्रजादुःखेन शुन्योऽहं प्राणोंस्त्यक्तुमिहागतः ॥२८॥
धिग्जीवितं प्रजाहिनं धिग्गृहं च प्रजां विना ।
धिग्धनं चानपत्यस्य धिक्कुलं संततिं विना ॥२९॥
पाल्यते या मया धेनुः सा वन्ध्या सर्वथा भवेत ।
यो मया रोपितो वृक्षः सोऽपि वन्ध्यत्वमाश्रयेत ॥३०॥
यत्फलं मदगृहायातं तच्च शीघ्र विनश्यति ।
निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे ॥३१॥
इत्युक्त्वा स रुदोच्चैस्तत्पार्श्व दुःखपीडितः ।
तदा तस्य यतोश्चित्ते करुणाभ्रुद्ररीयतसी ॥३२॥
तद्भालाक्शरमलां च वाचयामास योगवान ।
सर्व ज्ञात्वा यतिः प्रश्चाद्विप्रमुचे सविस्तरम ॥३३॥
यातिरुवाच मुत्र्चाज्ञानं प्रजारुपं बालिष्ठा कर्मणो गतिः ।
विवेकं तु समासाद्य त्यज संसारवासनाम ॥३४॥
श्रृणु विप्र मया तेऽद्य प्रारब्धं तु विलोकितम ।
सप्तजन्मावधि तिव पुत्रो नैव च नैव च ॥३५॥
संततेः सगरो दुःखमवापागं पुरा तथा ।
रे मुत्र्चाद्य कुटुम्बाशां संन्यासे सर्वथा सुखम । \३६॥
ब्राह्मण उवाच
विवेकेन भवेक्ति मे पुत्रं देहि बलदपि ।
नो चेत्त्यजाम्यहं प्राणांस्त्वदग्रे शोकमूर्च्छितः ॥३७॥
पुत्रदिसुखहीनोऽयं संन्यासः शुष्क एव ही ।
गृहस्थः सरसो लोके पुत्रपौत्रसमन्वितः ॥३८॥
इति विप्रग्रहं दृष्टवा प्राब्रवीत्स तपोधनः ।
चित्रकेतुर्गतः कष्टं विधिलेखाविमार्जनात ॥३९॥
न यास्यसि सुखं पत्राद्य्था दैवहतोद्यमः ।
अतो हठेन युक्तोऽसि ह्यार्थिनं किं वदाम्यहम ॥४०॥
तस्याग्रहं समालोक्य फलमेकं स दत्तवान ।
इदं भक्षय पत्न्या त्वं ततः पुत्रो भविष्यति ॥४१॥
सत्य शौचं दया दानमेकभक्तं तु भोजनम ।
वर्षावधि स्त्रिया कार्यं तेन पुत्रोऽतिनिर्मलः ॥४२॥
एकमुक्त्या ययौ योगी विप्रस्तु गृहमागतः ।
पन्त्याः पाणौ फलं दत्वा स्वयं यातस्तु कुवाचित ॥४३॥
तरुणी कुटिला तस्य सख्यग्रे च रुरोद ह ।
अहो चिन्ता ममोत्पन्ना फलं चाहं भक्षये ॥४४॥
फलभक्षेण गर्भः स्याद्गर्भेणोदरवृद्धिता ।
स्वल्पभक्षं ततोऽशक्तिर्गुकार्यं कथं भवेत ॥४५॥
दैवादधाटे व्रजेदग्रामे पलायेद्गर्भिणी कथम ।
शुकवन्निवसेद्गर्भस्तं कुक्षेः कथमुत्सृजेत ॥४६॥
तिर्यक्वेदागतो गर्भस्तदा मे मरणं भवेत ।
प्रसूतौ दारूणं दुःखं सुक्कुमारी कथं सहे ॥४७॥
मन्दायां मयि सर्वस्व ननान्दा संहरेत्तदा ।
सत्यशौचादिनियमओ दुराराध्यः स दृश्यते ॥४८॥
लालने पालने दुःखं प्रसूतायाश्च वर्तते ।
वन्ध्या वा विधवा नारी सुखिनी चिति मे मतिः ॥४९॥
एवं कुतर्कयोगेन तत्फलं नैव भक्षितम ।
पत्या पृष्ट फलं भुक्तं भुक्तं चेति तयेरितम ॥५०॥
एकदा भगिनी त्स्यास्तदगृहंस्वेच्छयाऽऽगता ।
तदग्रे कथितं सर्वं चिन्तेयं महती हि मे ॥५१॥
दुर्बला तेन दुःखेन ह्यानुजे करवाणि किम ।
साब्रवीन्मम गर्भोऽस्ति तं दास्यामि प्रसूतितः ॥५२॥
तावत्कालं सगर्भेव गुप्ता तिष्ठ गृहे सुखम ।
वित्तं त्वं मत्पतेर्यच्छ स ते दास्यति बालकम ॥५३॥
षाण्मासिको मृतो बाल इति लोको वदिष्यति ।
तं बालं पोषयिष्यमि नित्यमागत्य ते गृहि ॥५४॥
फलमर्पय धेन्वै त्वं परिक्षार्थ तु साम्प्रतम ।
तत्तदाचरितं सर्वं तथैव स्त्रीस्वभावतः ॥५५॥
अथ कालेन सा नारी प्रसूता बालकं तदा ।
आनीय जनमो बालं रहस्ये धुन्धुलीं ददौ ॥५६॥
तया च कथितं भर्त्रे प्रसूतः सुखमर्भकः ।
लोकस्य सुखमुत्पन्नमात्मदेवप्रजोदयात ॥५७॥
ददौ दानं द्विजातिभ्यो जातकर्म विधाय च ।
गीतवादित्रघोषोभुत्तदद्वारे मंगलं बहु ॥५८॥
भर्तुरग्रेऽब्रवीद्वाक्यं स्तन्य नास्ति कुचे मम ।
अन्यस्तन्येन निर्दुग्धा कथं पुष्णामि बालकम ॥५९॥
मत्स्वसुश्च प्रसूताया मृतो बालस्तु वर्तते ।
तामाकार्य गृहे रक्ष सा तेऽर्भ पोषयिष्यति ॥६०॥
पतिना तत्कृतं सर्व पुत्ररक्षणहेतवे ।
पुत्रस्य धुन्धकारीति नाम मात्रा प्रतिष्ठितम ॥६१॥
त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम ।
सर्वांगसुन्दरं दिव्यं निर्मलं कनकप्रभम ॥६२॥
दृष्ट्वा प्रसन्नो विप्रस्तु संस्कारान स्वयमादधे ।
मत्वाऽऽश्चर्यं जनाः सर्व दिदृक्षार्थ समागताः ॥६३॥
भाग्योदयोऽधुना जात आम्यदेवस्य पश्यत ।
धेन्वा बालः प्रसुतस्तु देवरूपीति कौतुकम ॥६४॥
न ज्ञातं तद्रगस्त्यं तु केनापि विधियोगतः ।
गोकर्ण तं सुतं दृष्टा गोकर्ण नाम चाकरोत ॥६५॥
कियत्कालेन तौ जातौ तरूणौ तनयावुभौ ।
गोकर्ण पण्डितो ज्ञानी धुन्धुकारी महाखलः ॥६६॥
स्नानशौचक्रियाहीनो दुर्भक्षी क्रोधवर्धितः ।
दुष्परिग्रहकर्ता च शवहस्तेने भोजनम ॥६७॥
चौरः सर्वजनद्वेषी परवेश्मप्रदीपकः ।
लालनायार्भकान्धृत्वा सद्यः कृपे न्यपातयत ॥६८॥
हिंसकः शस्त्रधारी च दीनान्धानां प्रपीडकः ।
चाण्डालाभिरतो नित्यं पाशहस्तः श्वसंगतः ॥६९॥
तेन वेश्याकुसगेन पित्र्यं वित्तं तु नाशितम ।
एकदा पिततौ ताण्य पात्राणि स्वयमाहरत ॥७०॥
तत्पिता कृपणः प्रोच्चैर्धनहीनो रुरोद ह ।
वन्ध्यत्वं तु समीचीनं कुपुत्रो दुःखदायकः ॥७१॥
क्व तिष्ठामि क्व गच्छमि को मे दुःखं व्यपोहयेति ।
प्राण्यांस्त्यजामि दुःखेन हा कष्ट मम संस्थितम । \७२॥
तदानीं तु समगत्य गोकर्णो ज्ञानसंयुतः ।
बोधयामास जनकं वैराग्यं परिदर्शयन ॥७३॥
असारः खलु संसारो दुःखरुपी विमोहकः ।
सुतः कस्य धनं कस्य स्नेहवात्र्ज्वलतेऽनिशम ॥७४॥
च चेन्द्रस्य सुखं किंचिन्न सुहं चक्रवर्तिनः ।
सुखमस्ति विरक्तस्य मुनेरेकान्तजीविनः ॥७५॥
मुत्र्चाज्ञानं प्रजारुपं मोहतो नरके गति ।
निपतिष्यति देहोऽयं सर्वं त्यक्त्त्वा वनं व्रज ॥७६॥
तद्वाक्यं तु समाकर्ण्य़ गन्तुकमः पिताब्रवीत ।
किं कर्वव्यं वने तत त्वं वद सविस्तरम ॥७७॥
अन्धकुपे स्नेहपाशे बद्धः पंगुरहं शठः ।
कर्मणा पतितो नुनं मामुद्धर यदयानिधे ॥७८॥
गोकर्ण उवाच
देहेऽस्थिमांसरुधिरेऽभिमैं त्यजं त्वं जायासुतादिषु सदा ममतां विमुत्र्च ।
पश्यानिशं जगदिदं क्षणभंगनिष्ठं वैराग्यरागरसिको भव भक्तिनिष्ठः ॥७९॥
धर्म भजस्व सततं त्यज लोकधर्मान सेवस्व साधुपुरुषात्र्जाहि कामतृष्णाम ।
अन्यस्य दोषगुणाचिन्तनमाशु मुक्त्वा सेवाकथारसमहो नितरां पिब त्वम ॥८०॥
एवं सुतोक्तिवशतोऽपि गृहं विहाय यातो वन स्थिरमतिर्गतषष्टिवर्षः ।
युक्तो हरेरनुदिनं परिचर्ययासौ श्रीकृष्णमाप नियतं दशमस्य पाठात ॥८१॥
इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमहात्म्ये विरमोक्षो नाम चतुर्थोऽध्यायः ॥४॥