॥ श्रीगणेशाय नमः ॥
॥ अथ आसनविधिः प्रारभ्यते ॥
ईश्वर उवाच - आसनानि पृथग्वक्ष्ये श्रृणु वाचस्पतेऽधुना ॥
स्वस्तिकं गोमुखं पद्मं वीरं सिंहासनं तथा ॥१॥
भद्रं मुक्तासनं चैव मयूरासनमेव च ॥ सुखासनसमाख्यां च नवमं मुनिपंगव ॥२॥
जानूर्वोरंतरे विप्र कृत्वा पादतळे उभे ॥ समग्रीव - शिरः - कायः स्वस्तिकं परिचक्षते ॥३॥
वामे दक्षिणगुल्फं तु पृष्ठपार्श्वे निवेशयेत् ॥ दक्षिणेपि तथा सव्यं गोमुखं परिचक्षते ॥४॥
अंगुष्ठावपि गृण्हीयाध्धस्ताभ्यां व्युत्क्रमेण तु ॥ ऊर्वोरुपरि विप्रेंद्र कृत्वा पादतलद्वयं ॥५॥
पद्मासनं भवेदेतत्पापरोगभयापहं ॥ दक्षिणोत्तरपादं तु सव्ये ऊरूणि विन्यसेत् ॥६॥
दक्षिणोत्तरपादं तु दक्षिणोरूणि विन्यसेत् ॥ ऋजुकायः सुखासीनो वीरासनमुदाहृतं ॥७॥
गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ॥ दक्षिणं सव्यगुल्फेन वामं दक्षिणगुल्फतः ॥८॥
हस्तौ च जान्वोःसंस्थाप्य स्वांगुलीश्व प्रसार्य च ॥ नासाग्रं च निरीक्षेत भवेत्सिंहासनं हि तत् ॥९॥
पार्श्वपादौ च पाणिभ्यां द्दढं बध्वा सुनिश्चलं ॥ भद्रासनं भवेदेतद्विषरोगविनाशनं ॥१०॥
निष्पीडय सीवनीं सूक्ष्मां दक्षिणोत्तरगुल्फतः ॥ वामं वामेन गुल्फेन मुक्तासनमिदं भवेत् ॥११॥
मेढ्रोपरि विनिक्षिप्य सव्यं गुल्फंततोपरि ॥ गुल्फांतरं च संक्षिप्य मुक्तासनमिदं भवेत् ॥१२॥
कूर्पराग्रौ मुनिःश्रेष्ठ निक्षिपेन्नाभिपार्श्वयोः ॥ भूम्यां पादतळद्वंद्वं निक्षिप्यैकाग्रमानसः ॥१३॥
समुन्नतशिरः पादो दंडवद्वयोम्नि संस्थितः ॥ मयूरासनमेतत्स्यात्सर्वपापप्रणाशनं ॥१४॥
एनकेन प्रकारेण सुखं धैर्यं च जायते ॥ तत्सुखासनमित्युक्तमशक्तस्तत्समाश्रयेत् ॥१५॥
आसनं विजितं येन जितं तेन जगत्रयं ॥ आसनं सकलं प्रोक्तं मुने वेदविदां वर ॥१६॥
अनेन विधिना युक्तः प्राणायामं सदा कुरु ॥१७॥
इति श्रीस्कंदे सूतसंहितायां टीकायां आसननिरूपणं नाम पंचदशोध्यायः ॥१८॥
अथ देवीभागवतोक्त आसनविधिः -
पद्मासनं स्वस्तिकं च भद्रं वज्रासनं तथा ॥ वीरासनमिति प्रोक्तं क्रमादासनपंचकम् ॥१॥
ऊर्वोरुपरि विन्यस्य सम्यक् पादतले उभे ॥ अंगुष्टौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमात्ततः ॥२॥
पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥ जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे ॥३॥
ऋजुकायो विशेद्योगी स्वस्तिकं परिचक्षते ॥ सीवन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चितः ॥४॥
वृषणाधः पाद - पार्ष्णि - पाणिभ्यां परिबंधयेत् ॥ भद्रासनमिति प्रोक्तं योगिभिः परिपूजितम् ॥५॥
ऊर्वौ पादं क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखाङ्गुली ॥ करौ विदध्यादाख्यातं वज्रासनमनुत्तमम् ॥६॥
एकपादमधः कृत्वा विन्यस्योरु तथोत्तरे ॥ ऋजुकायो विशेद्योगी वीरासनमनुत्तमम् ॥७॥ इति