अथ श्रीदत्तकल्पः प्रारभ्यते .
श्रीगणेशाय नमः ॥ किरातरूपी भगवान् कदाचिदिरिजापतिः ॥ कदाचिदिष्टलाभेषु पार्वत्या पृष्ट ईश्वरः ॥१॥
त्वत्तः श्रुतानि सर्वाणि मंत्रजालानि कृत्स्त्रशः ॥ आदावभ्रमतीमंत्रः तत्पश्वाद्भद्रसावती ॥२॥
ततो धूमावतीमंत्रः ततो वाराहिको मनुः ॥ मंत्रोपि बगळो मुख्यो सर्वमंत्रोत्तमो मनुः ॥३॥
अष्टधायक्षिणीमंत्रास्सांगोपांगास्समीरिताः ॥ कातवीर्यार्जुनस्यापि मंत्रास्सांगमुदीरिताः ॥४॥
अपेक्षा वर्तते श्रोतुं दत्तात्रेयस्य योगिनः ॥ मंत्रान् फलप्रदांच्छीघ्रान्नियमैर्बहुळैर्विना ॥५॥
शबररूपी शंकर उवाच - श्रृणु वक्ष्यामि शबरी कबरीभरशोभिते ॥ समहितमना भूत्वा समाकर्णय तन्मनून् ॥६॥
न वै नियमबाहुल्यं तर्पणस्य बाहुल्यं तर्पणस्य च ॥ पूर्वसेवाप्रयासो वा नास्ति नास्त्येव सर्वदा ॥७॥
सर्वदा ध्यानयोगेन ब्राह्मणानां च भोजनात ॥ सर्वत्र तन्मयज्ञानात्तस्य चारित्रकीर्तनात् ॥८॥
मंत्रसित्धिर्भवेच्छीघ्रं वांछितार्थप्रदायिनी ॥ द्वादशाक्षरमंत्रश्व प्रोक्तः स्यात् षोडशाक्षरः ॥९॥
षडक्षरमनुः पश्वात्तत एकाक्षरो मनुः ॥ अष्टाक्षरमनुः पश्वाद्विंशद्वर्णमनुस्तथा ॥१०॥
अनुष्टुभं ततः पश्वान्मालामंत्रस्ततः परम् ॥ एवमष्टविधा मंत्रा दत्तात्रेयस्य योगिनः ॥११॥
शीघ्रमिष्टार्थदातारस्तत्रापि च कलौयुगे ॥ भोगीभवेत्सुभोगी च चिरजीवी च जायते ॥१२॥
तन्मंत्रजापको मर्त्यः अणिमाद्यष्टसित्धिमान् ॥ अंजनाकर्षणाद्दश्या द्वश्यवादौपयस्थितिम् ॥१३॥
दूरश्रुतिं दूरद्दष्टिं सुदूरगमनं तथा ॥ साक्षान्मधुमती शक्तिः प्रसन्नस्य प्रयच्छति ॥१४॥
पाताळलोकसंचारो बिलसित्धा प्रजायते ॥ महिम्ना खेचरत्वादिसंचारः सर्वकामदः ॥१५॥
सर्वत्र सर्वदा सर्वं वेत्ति ज्ञानप्रभावतः ॥ सप्तकोटिमहामंत्राः कलान्नर्हंति षोडशीम् ॥१६॥
इंद्रादयः प्रसन्नाः स्युः व्यासादिमनिपुंगवाः ॥ शक्तयश्व चतुःषष्टि प्रसन्नाःस्युः क्रमक्रमात् ॥१७॥
त्रयस्त्रिंशत्कोटिदेवाः प्रसन्नाः स्युस्ततः परम् ॥ शंभुः - स्वयंभुर्विष्णूनां सन्निधौ च दिनंचरेत् ॥१८॥
नरः स्त्रियोनुधावंति मोहितास्त्रिविधा स्त्रियः ॥ कार्यसित्धिमहिम्ना यो भवेत षोडशवर्षवान ॥१९॥
नासाध्यं विद्यते तस्य त्रिषु लोकेषु दुर्लभम ॥ यशस्वी महिमोपेतो जीवे दाचंद्रतारकम् ॥२०॥
हेमविद्याराजविद्या घुटिकासिद्धिसिद्धयः ॥ दत्तात्रेयमनुर्यस्य तस्य सिध्द्यंत्यसंशयः ॥२१॥
श्रीपार्वत्युवाचद्वादशार्णमनोद्धारमाचक्ष्व मम शंकर ॥ श्रीशंकर उवाच - आदौ प्रणवमुच्चार्य पाशबीजमथोद्धरेत् ॥२२॥
हृल्लेखामुद्धरेत्पश्वात्तत्पश्वान्मदनांकुशः ॥ एहीति पदमुच्चार्य दत्तात्रेयस्ततः परम् ॥२३॥
वन्हिजायां ततः पश्वान्मंत्रोयं द्वादशाक्षरः ॥ मंत्रराज इति ख्यातो दत्तात्रेयस्य योगिनः ॥२४॥
उद्धारज्ञानमात्रेण सर्वं सिध्यति मंत्रिणः ॥ पार्वत्युवाच - जपः कियान् कियान् होमः तर्पणं कियदुच्यते ॥
ब्राह्मणाः कति भोक्तव्याः समाचक्ष्व सविस्तरम् ॥२५॥
शंकर उवाच - द्वादशाक्षरसंख्याकजपात्सिध्यत्ययं मनुः ॥ चातुर्वर्णाधिकारोयं दत्तात्रेयमनुर्भवेत् ॥२६॥
गुरूपदेशमात्रेण मंत्रसिद्धिर्भवेध्द्रुवम ॥ सिद्धःसाध्यस्सुसिद्धारिः शोधना नात्र विद्यते ॥२७॥
पुस्तकं लिखितं द्दषा वृत्धानुज्ञापुरः सग्म् ॥ जप्तव्योयं महामंत्रः शीघ्रं सिध्यति पार्वति ॥२८॥
अर्क १२ संख्या सहस्त्रस्य होमसंख्या प्रकीर्तता ॥ साज्यपायसहोमेन वैष्णवाग्निसमाचरेत् ॥२९॥
होमायाः पूर्वसेवायाः काम्यहोम इहोच्यते ॥ आज्यं त्रिमधुरोपेतं वश्यजालादिकर्मणि ॥३०॥
पारिभद्रस्य पत्राणि तैलाक्तानि निरोधने ॥ विभीतपल्लवैरुष्ट्रारोमभिश्वाटनं भवेत् ॥३१॥
ग्रहधूमेन सित्धार्थेर्बीजैः कार्पाससंभवैः ॥ लशुनापिष्टसंयुक्तैः पापकर्मप्रणाशनम् ॥३२॥
लवणं मधुरद्दव्ययुक्तमाकृष्टकारणम् ॥ हरिद्राहरिताळैश्व दुष्टसंस्तंभनं भवेत् ॥३३॥
अष्टद्रव्यै रोचनाद्यैः शीघ्र्म दारिद्रयनाशनम् ॥ रक्तैश्व दूर्वमंदारकुसुमैर्मधुसंयुतैः ॥३४॥
राजवश्यं भवेच्छीघ्रं यावज्जीवार्थदायकम् ॥ भूतशांतिर्गुग्गुलाभिः रामठेनाथवा भवेत ॥३५॥
अपामार्गवटाहोमात्पंचगव्यसमन्वितात् ॥ कृत्यास्सर्वे विनश्यंति व्याधयोपि महाग्रहः ॥३६॥
दूर्वांकुरमृतावल्लीकांडानि चतुरंगुलम् ॥ गोघृतानि नियुक्तानि सर्वरोगप्रशांतये ॥३७॥
एरंडकांडैराज्याक्तेः गणवश्यः प्रजायते ॥ ब्रह्मवृक्षसमिद्भिस्तु द्विजवश्यः प्रजायते ॥३८॥
चूतपल्लवहोमेन वेश्यावश्यं प्रजायते ॥ सिध्यंति सर्वकर्माणि गवामाज्यैस्तु रोचनैः ॥३९॥
सिध्यंति रक्तवस्त्राणि जपाकुसुमहोमतः ॥ चांपेयकुसुमैः पीतेः केतकीकुसुमैस्तथा ॥४०॥
विष्णुक्रांतिप्रसूनैश्व नीलवस्त्राणि साधयेत् ॥ तत्तद्वर्णप्रसूनैश्च तत्तद्वर्णसुखागमः ॥४१॥
ये ये यद्यद्यथा चित्रे भावयेत्तत्तथा भवेत् ॥ श्रृणु गुह्यतरं लोके षट्कर्मविधिसाधनम् ॥४२॥
वश्ये तु चतुरस्त्रं स्यादाकर्षे तु त्रिकोणकम् ॥ स्तंभने वर्तुळं देवी षट्कोणं नाशनं स्मृतं ॥४३॥
पंचकोणं च विद्वेषे तथैवोच्चाटन स्मृतम् ॥ ज्ञात्वा त्रिवर्षपर्यंतं पापकर्मणि निष्ठितम् ॥४४॥
तथा प्रयोगं कुर्वीत तथापि नहि मारणम् ॥ देव - ब्राह्मण - बाल स्त्री - धन - धान्य - पशुक्षयम् ॥४५॥
एतदेकस्य राष्ट्रस्य परदेशाधिपेनचेत् ॥ तदा तन्मारणं कुर्यादो - ब्राह्मणहिताय वै ॥४६॥
द्वेषमात्रेण कर्तव्यं स्वयमेव विनश्यति ॥ दत्तात्रेयस्स भक्ताय शांतस्सर्वहितैषिणे ॥४७॥
परघातं नकुर्वीत दयामेव प्रकुर्वते ॥ कोपे कदाचिज्जातेपि शांतिमायाति तत्क्षणात् ॥४८॥
दत्तात्रेयो महायोगी शांतिमेव प्रयच्छति ॥ कोपेनतीव्रयोगः स्यात्तस्य कोपो नविद्यते ॥४९॥
दत्तात्रेयसमो भूत्वा योगी चरति मंत्रवान् ॥ प्रयोगमंत्रसामर्थ्यं ज्ञापनार्थमुदीरितम् ॥५०॥
तर्पणस्य च वै संख्या सहस्त्रं द्विशतोत्तरम् ॥ शतं विंशति संयुक्तं संख्या स्याद्विजभोजने ॥५१॥
मंत्रसिद्धिर्भवेदेव जपात्धोमाच्च तर्पणात् ॥ ब्राह्मणानां भोजनैर्वा शीघ्रं स्यान्मंत्रसाधनम् ॥५२॥
स्पर्शादिमोक्षपर्यंतं जप्त्वा हवनभोजनैः ॥ मंत्रसित्धिर्भवेत्सद्यो तन्मयज्ञानतोपि वा ॥५३॥
श्रीपार्वत्युवाच - यंत्रोत्धारः कथं तस्य वद विस्तरतो विभो ॥ पूजाविधानमप्यस्य सम्यग्वद महेश्वर ॥५४॥
ईश्वर उवाच - यंत्रोद्धारं प्रवक्ष्यामि सावधानमना श्रृणु ॥ आदौ वृत्तं समालिख्य चतुरस्त्रं ततःपरम् ॥५५॥
ततः पश्वादष्टदळं विलिखेद्भूपुरं ततः ॥ वेदादिं विलिखेद्व्टत्ते तद्वीजं प्रणवांतरे ॥५६॥
चतुर्दळेषु चत्वारि वेदादीनि समालिखेत् ॥ एह्यादीन्यष्टबोजानि दळेष्वष्टसु विन्यसेत् ॥५७॥
तत्संधौ सर्वमंत्राणां समंतात्परिपूरयेत् ॥ अकारादिक्षकारांतैर्बीजवन्मातृकाक्षरैः ॥५८॥
अनुलोम - विलोमाभ्यां वेष्टयेच्च दळाष्टकम् ॥ भूपुरं वेष्टयेद्वीजैर्भूबीजैर्दशभिः प्टथक् ॥५९॥
वृत्तं तु प्रणवेनैव वेष्टयेच्च प्रयत्नतः ॥ चतुर्दळं वेष्टयेच्च बीजैः पाश - गजां - कुशैः ॥६०॥
एतद्यंत्रं मया प्रोक्तं रहस्यं सांप्रदायकम् ॥ एतद्यंत्रस्य महिमा वर्ण्यते श्रूणु पार्वति ॥६१॥
श्रीपार्वत्युवाच - वर्ण्यतां महिमा पश्वात्पूर्वं बीजाक्षरं वद ॥ द्वादशाक्षरमंत्रस्य न्यास - ध्यानं च किं वद ॥६२॥
शंकर उवाच - बीजोद्धारं प्रवक्ष्यामि दत्तात्रेयस्य योगिनः ॥ दक्षिणामूर्तिबीजं च रामबीजेन संयुतम् ॥६३॥
मिळित्वैकाक्षरं ज्ञेयं बिंदु - नाद - कला - न्वितं ॥ एतद्वीजं मया प्रोक्तं ब्रह्मा - विष्णु - शिवात्मकम् ॥६४॥
वेदव्यासेन कथितं प्रकारांतरमुच्यते ॥ द्त्तस्यादिर्महाग्राह्याः आत्रेयस्यादिमः स्मृतः ॥६५॥
तत्रस्थ रेफसंयुक्तं कळा निधिसमन्वितम् ॥ दत्रात्रेयाक्षरं प्रोक्तं साक्षाद्विष्ण्वात्मकं महत् ॥ ६६॥
बीजोद्धारो मया प्रोक्तो नदेयो यस्यकस्याचित् ॥ द्वादशाक्षरमंत्रस्य न्यासं वक्ष्यामि तच्छृणु ॥६७॥
द्वाभ्यां द्वाभ्यां पुनर्द्वाभ्यां चतुर्भिश्व ततः परम् ॥ पुनर्द्वाभ्यां प्रकुर्वीत पंचांगन्यास ईरितः ॥६८॥
उपयुक्तेन बीजेन षडंगान्यथवा क्रियाः ॥ एवं न्यासविधिं कृत्वा ततो ध्यानं समाचरेत् ॥६९॥
श्लोकम् ॥ व्याख्यामुद्रां करसरसिजे दक्षिणे संदधानो जानून्यस्तापरकरसरो जातवामोन्नतांगः ॥
न्यासध्यानात्सखपरवशादर्धमामीलिताक्षो दत्तात्रेयो भसितधवळः पातु नः कृत्तिवासाः ॥१॥
एवं ध्यात्वा समाधाय चित्तचिंतितदायिनम् ॥ सप्तावरणसंयुक्तं द्त्तात्रेयं प्रपूजयेत् ॥७०॥
तत्रावरणमाद्यं स्यादंगैः षड् भिर्यथाक्रमात् ॥ वन्हीशरक्षो - वाय्वादीन् प्टष्ठेष्वंगानि पुजयेत् ॥७१॥
ऋग्यजुः सामाथर्वैश्व इतिहास - पुराणकैः ॥ मीमांसया च न्यायेन द्वितीयावरणं यजेत् ॥७२॥
सरस्वती गणपतिः शुकश्वापि सुमंतुना ॥ जैमिन्याख्येन मुनिना वैशंपायनमौनिना ॥७३॥
पैलेन गोभिलेनापि तृतीयावरणं यजेत् ॥ कश्यपोत्रिर्भरद्वाजः विश्वामित्रश्व गौतमैः ॥७४॥
जमदग्निवसिष्ठाभ्यां व्यासेन च चतुर्थकम् ॥ अणिमा महिमा चैव गरिमा लघिमा तथा ॥७५॥
प्राप्तिः प्राकाम्यमीशित्वं विशित्वं पंचसे यजेत् ॥ मत्स्येंद्रकं दळेंद्रं च गोरक्षं गोगणेश्वरम् ॥७६॥
नागार्जुनं मेघनादं भुजंगं कुरुनायकम् ॥ यजेदरुणवीर्याख्यान् नंदनाथपुरः सरान् ॥७७॥
षष्ठेप्यावरणे सिद्धान्नवनाथान्सभैरवान ॥ इंद्राग्नि - यम - नैऋत्य - वरुणानिला - यक्ष - पान् ॥७८॥
ईशानं च यजेद्दिक्षु सप्तमावरणे सुधीः ॥ सप्तावरणसंयुक्तं द्त्तात्रेयं मुनीश्वरम् ॥७९॥
सकृध्यायन्नर्चयन्वा योगी भवति मंत्रवित् ॥ ध्यानभेदात्फलं भिन्नं ध्यानभेदान्वदामि ते ॥८०॥
जपापुष्पारुणाकारो जटापल्लवशोभितः ॥ तांबुलांचन्मुखीसाक्षाद्वव्हस्त्रो वश्यकृद्युवा ॥८१॥
शूलं दोर्भ्यां समादाय भित्वा दिक्षु विनिक्षिपेत् ॥ नानावर्णश्व भृकुटीः क्रूरास्यो द्वेषकारकः ॥
वाय्वस्थः कृष्णरूपस्थः तमेवं चालयन्यजेत् ॥८२॥
ज्याघातैः पादघातैश्व शत्रोरुच्चाटकारकः ॥ तिष्ठन जानुयुगेनैव नम्रपाणियुगे समे ॥८३॥
कंठे बध्वा रिपून् हंता ध्येयः कर्मणि मारणे ॥ सपाशांकुशमध्यस्थो रक्तनानाविभुषणम् ॥८४॥
साध्यं नयंतं भिन्नाग्रे छायेवाकृष्टकर्मणि ॥ पीतं पीतांकुशं पीतपुष्पं पीतविभूषणम् ॥८५॥
पीतालेपं द्विषड् जिव्हाधरं स्तंभकरं स्मरेत् ॥ श्रीपार्वत्युवाचपूर्वं त्वया यंत्रराजं तद्यंत्राधिक्यकीर्तनम् ॥८६॥
तत्सर्वं सम्यगाचक्ष्व सर्वे जीवंतु जंतवः ॥ शिव उवाच - एतद्यंत्रस्य माहात्म्यं नाहं शक्नोमि वर्णितुम् ॥८७॥
तथापि किंचिद्व क्ष्यामि यथा ज्ञातं यथा श्रुतम् ॥ वेदव्यासेन कथितं तत्सर्वं कथयामि ते ॥८८॥
भुर्जे वा ताडपत्रे वा पाषाणे वा वटेऽपि वा ॥ रजते वा सुवर्णे वा नागे वा वंगकेऽपि वा ॥८९॥
महीतले वा भित्तौ वा यंत्रं सांगं समालिखेत् ॥ अष्टगंधैरष्टपिष्टैरष्टद्रव्यैः सितेतरैः ॥९०॥
रक्तश्वेतैश्चित्रवर्णैस्तत्र पत्रस्वरूपतः ॥ सांप्रदायं गुरुमुखात्सम्यग्ज्ञात्वा समालिखेत् ॥९१॥
नयुक्तितो नैव मत्या कुर्यात्कृत्वाऽशुभं व्रजेत् ॥ गुरुहीनं च यत्किंचिन्नकर्तव्यं कदाचन ॥९२॥
कलशे निक्षिपेद्यंत्रं क्षीरमध्येऽथवा जले ॥ तज्जलात्सेचनात्क्षीरपानादस्य फलं श्रृणु ॥ ९३॥
गुदरोगान्नाभिरोगानक्षिरोगांश्व त्द्दद़तान् ॥ कंठरोगान् दंतरोगान् श्रोत्ररोगान् द्दगाश्रितान् ॥९४॥
नासारोगान् कर्णरोगान् शिरोरोगान् कचाश्रितान् ॥ त्वग्रोगो रक्तरोगो वा मांसरोगास्थिरोगकाः ॥९५॥
मज्जारोगाश्व मेदो वा शुक्लरोगाविदुर्भवाः ॥ नश्यंति सकलान् रोगान् सत्यमेतद्वदामि ते ॥९६॥
भूचराः खेचराश्वापि यक्ष - रक्ष - पिशाचकाः ॥ ब्रह्मराक्षस - वेताळाः कूष्मांडा भैरवादयः ॥९७॥
उक्तानुक्ताश्व सर्वे वै अथर्वणसमुद्भवाः ॥ यंत्रधारणमात्रेण सर्वे नश्यंत्यसंशयम् ॥९८॥
हस्त्यश्वरथपादातं यंत्रयुग्मं च दर्शनात् ॥ पलायंते क्षणेनैव या वंध्या पुत्रवद्भवेत् ॥९९॥
सर्वशांतिकरं पुण्यं सर्वपापप्रणाशनम् ॥ सर्वकामप्रदं चापि सर्वोपद्रवनाशनम् ॥१००॥
राजानो दासतां यांति शत्रवो मित्रतां गताः ॥ वन्हयः शीततां यांति दत्तात्रेयः प्रसीदति ॥१०१॥
वृत्तषट्कोणाष्टपत्रचतुष्टाशाश्रिसुस्वरैः ॥ प्राणं दद्यात्धनं दद्यान्मानं दद्यादथापि वा ॥१०२॥
पुत्रान् दद्यात्पशून्दद्यान्नदद्यात षोडशाक्षरम् ॥ अवाच्यमपि वक्ष्यामि त्वमर्धांगं ममापि यत् ॥१०३॥
दरिद्रायातिशांताय नित्यधर्मपराय च ॥ प्राणहिंसाविहीनाय सर्वजीवदयाळवे ॥१०४॥
राग - द्वेषविहीनाय परस्त्रीविमुखात्मने ॥ मंत्रे गुरौ देवतायां विश्वासाधरशालिने ॥ १०५॥
षोडशाक्षरमंत्रोयं देयोन्यस्मै कदाचन ॥ तारमादिं समुच्चार्य ततोवाग्भवमुच्चरेत् ॥१०६॥
कामबीज त्रिधा कुर्याज्जातित्रितयसंयुतम् ॥ भुवने शीं तथा कुर्यात्तत्तु जातित्रयान्वितम् ॥१०७॥
चंद्रबीजं विसर्गांतं नवमं परिकीर्तितम् ॥ ॐ दत्तात्रेयसंभवे ॥ तारवाग्भववीजाभ्यां द्वाभ्यां त्द्ददयमाचरेत् ॥१०८॥
कामबीजैस्त्रिभिः शिर्षं हृल्लेखाभिस्त्रिभिः शिखाम् ॥ चंद्रबीजेन कवचं अस्त्रं दत्तादिसप्तभिः ॥१०९॥
एवं पंचांगकं न्यासं कृत्वा ध्यानं समाचरेत् ॥ अथ ध्यानं प्रवक्ष्यामि सर्वकामफलप्रदम् ॥११०॥
येन विज्ञानमात्रेण सिद्धिः स्यात्सर्वसंपदः ॥ ध्यानं - मंदारमूले मणिपीठसंस्थं सुवर्णदानैकनिबद्धदीक्षम् ॥
ध्यायेत्परीतैः नवनाथसिध्धैः दारिद्रयदावानलदेवमेघैः ॥१११॥
एवं ध्यात्वा जपेन्मंत्रं मंत्राक्षरसहस्त्रकं ॥११२॥
तद्दशांशो भवेत्धोमः तद्दशांशं तु तर्पणम् ॥ तद्दशांशं भोजनं च मंत्रसिद्धिः प्रजायते ॥११३॥
सिद्धिसिद्धिर्भवेत्तस्य नरसिद्धिः प्रजायते ॥ ये चरंति च सर्वत्र चिरजीवी भवन्ति च ॥११४॥
( होमादिसर्वंद्वादशाक्षरवत् ) यंत्रोद्धारं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् ॥ त्रिकोणं विलिखेत्पूर्वं षट्कोणं विलिखेत्तत्तः ॥११५॥
अष्टपत्रं लिखेत्पद्मं ततः पार्थिवमंड़लम ॥ तारावाग्भवतद्विंदून् त्रिकोणेषु च वै लिखेत् ॥११६॥
धारणादस्य यंत्रस्य नानाविषविनाशनम् ॥ अलर्ककीटशूकाहिमुखजंगमजं विषम् ॥११७॥
स्थावरं बीजनिर्यासं फलवालुकमूलजं ॥ योगजं कृत्रिमं चैव यद्यदन्यन्महाविषम् ॥११८॥
नबाधते यंत्रवंतं यंत्रसिक्तांबुनाऽथवा ॥ बालग्रहादयस्सर्वे यंत्रं द्दष्टवा विवासिताः ॥११९॥
निधिनिक्षेपसंरक्षमहाग्रहपलायनम् ॥ अनुक्तं यद्यदस्त्यद्य तत्सर्वं द्वादशार्णवत् ॥१२०॥
षडक्षरमनु वक्ष्ये श्रृणु देवि प्रयत्नतः ॥ आदौ प्रणवमुच्चार्य श्रीबीजं तदनंतरम् ॥१२१॥
मायाबीजं ततः पश्वात्कामबीजं ततःपरम् ॥ भूबीजं तु ततःपश्वाद्दत्तबीजं ततःपरम् ॥१२२॥
अयं षडक्षरो मंत्रो रहस्यस्तव ईरितः ॥ षड्बीजैश्व षंडगानि शषं पूर्ववदाचरेत् ॥१२३॥
लक्षमात्रं पुनश्वर्यात्ततः कार्याणि साधयेत् ॥ श्लो० - उत्तानके करतलेप्यपसव्यसव्ये सोपानपर्वसद्दशे उपरि स्वनाभेः ॥
आस्थाय चर्मवसनं भसितांगरागंमंत्रेण सेतुभुजरक्तजटाकलापम् ॥१॥
एवं ध्यानं मया प्रोक्तं सर्वसंपत्प्रदायकम् ॥१२४॥
अस्यावरणभेदोस्ति वक्ष्येऽहं श्रृणु पार्वति ॥ लक्ष्मीनारायणौ प्राच्यां दक्षिणे पार्वतीश्वरौ ॥१२५॥
पश्विमे रतिकंदर्पौ भूवराहौ तदुत्तरे ॥ एवमावरणोपेतं चक्रवर्तित्वदायकम् ॥१२६॥
अष्टादशादिद्वीपानामाधिपत्यप्रदायकम् ॥ एवं सावरणं ध्यायेत्सर्वं सिध्यति तत्क्षणात् ॥१२७॥
उच्चरेन्मनसा मंत्रं सर्वदा सर्वकामदम् ॥ नारायणो जगत्कर्ता वेत्ति माहात्म्यमस्य वै ॥१२८॥
बहुना किं प्रलापेन नास्ति तत्सद्दशो मनुः ॥ सर्वं होमादिकं कार्यं द्वादशाक्षरमंत्रवत् ॥१२९॥
यंत्रमस्य प्रवक्ष्यामि त्रिकोणं पूर्वमालिखेत् ॥ षट्कोणं विलिखेत्पश्वात्रिकोणे प्रणवं लिखेत् ॥१३०॥
षट्कोणे मंत्रमखिलं तत्संधिष्वंगमंत्रकान् ॥ एतद्यंत्रस्य माहात्म्यं वेत्ति हैहयनायकः ॥१३१॥
एतन्मंत्रेण यंत्रेण कार्तवीर्यो महानभूत् ॥ एतद्यंत्रं विनिक्षिप्तं जलस्य स्त्रान - पानतः ॥ १३२॥
प्रोक्षणादेव नश्यंति गदाश्शिथिलकादयः ॥ ईतिबाधा विनश्यंति यंत्रं यत्रस्थितं ततः ॥१३३॥
यं यं कामयते सम्यक् तं तमाप्नोत्यसंशयः ॥ एकाक्षरमनुं वक्ष्ये बीजमेकाक्षरो मनुः ॥१३४॥
षडंगान्यत्र योज्यानि बीजादक्षरयोगतः ॥ ध्यायं - ध्यानं वक्ष्ये शैलपुत्री सर्वदा सर्वकामदम ॥१३५॥
योगारूढं योगपद्मं निवीतं हस्तद्वंद्वं जानुयुग्मं प्रसार्य ॥ अंसाग्रस्तद्रक्तचंचज्जटाकं दत्तात्रेयं भावयेद्वीक्षमाणम् ॥१॥
एवं ध्यात्वा सदा देवि गच्छन् तिष्ठन् भजन् जपन् ॥ जिघ्रन् पश्यन् स्वपन् श्रृण्वन् वदन् ध्यायन् समर्पयन् ॥१३६॥
एवं ध्यानजुषां नृणां दत्तात्रेयोनुधावति ॥ षडक्षरस्य यद्यंत्रं एकाक्षरमनोश्व तत् ॥१३७॥
द्वादशाक्षरवत्सर्वं कुर्यान्मंत्रं समाहितः ॥ अष्टाक्षरमनुं वक्ष्ये तद्वीजं क्रों ततः परम् ॥१३८॥
नमश्शब्दसमायुक्तं विदुरष्टाक्षरो मनुः ॥ न्यास - ध्यानादिकं सर्वं एकाक्षरमनोरिव ॥१३९॥
एकाक्षरमनोरेव यंत्रमष्टदळादिकम ॥ जपमष्टसहस्त्राणि पुरश्वरणसिद्धये ॥१४०॥
विश्वदर्पणमनुं वक्ष्ये षोडशाक्षरमंत्रतः ॥ नमः प्राक श्रीविष्णवेति विंशद्वर्णात्मको मनुः ॥१४१॥
षोडशाक्षरवत्सर्वं जप - होमार्चनादिकम् ॥ षोडशाक्षरयंत्रं यद्विश्वदर्पणमनोरपि ॥१४२॥
अधिकं किंचिदस्त्यस्य पश्वाद्दादशपत्रकम् ॥ अष्टाश्रपत्र नास्त्यत्र किंतु द्वादशपत्रकम् ॥१४३॥
अनुष्टुभमनुं वक्ष्ये सर्वमंत्रोत्तमोत्तमम् ॥ दत्तात्रेयपदं पूर्वं ततो हरिपदं वदेत ॥१४४॥
ततः कृष्णपदं वाच्यं उन्मत्ताख्यमतः परम् ॥ आनंददायकं चैव दिगंबरपदं ततः ॥१४५॥
ततो मुनिपदं वाच्यं ततो बालपदं वदेत् ॥ पिशाचपदमुच्चार्य ज्ञानसागर इत्यतः ॥१४६॥
सर्वाणि संबुध्यन्तानि पदान्येतानि कीर्तयेत ॥ अयमानुष्टुभो मंत्रो सर्वमंत्रपुरातनः ॥१४७॥
सर्वमंत्रप्राणदायी सर्वमंत्रैकसाधनः ॥ सकृत्स्मरणमात्रेण सर्वकार्यप्रसिद्धितः ॥१४८॥
पार्वत्युवाचछंदोऋषिं देवतां च न्यासं ध्यानं क्रमाद्वद ॥ छंदांसि पूर्वमंत्राणां सम्यग्वद महेश्वर ॥१४९॥
ईश्वर उवाच - सर्वेषांपूर्वमंत्राणां गायत्रीछंद ईरितं ॥ ऋषिः सर्वत्र शबरो महारुद्रः प्रकीर्तितः ॥१५०॥
अस्यानुष्टुभमंत्रस्य न्यासं वक्ष्ये श्रृणु प्रिये ॥ पादाभ्यां प्रणवादिभ्यां द्वाभ्यां द्वाभ्यां क्रमान्यसेत् ॥१५१॥
वन्हिजाया समेताभ्यां पंचांगन्यासमारभेत् ॥ ध्यानं वक्ष्यामि देवेशि नानाभीष्टप्रदायकम् ॥१५२॥
ध्यानमात्रेण सिध्यंति चिंतिताभीष्टसंपदः ॥
ध्यानं - काशी कोल्ला माहुरी सह्यकेषु स्नात्वा जप्त्वा प्राश्य शेतेऽन्वहं यः ॥
दत्तात्रेयः तत्क्षणात्सर्वगामी त्यागी भोगी दिव्ययोगी दयाळुः ॥१॥
ध्यानमुक्तंमया देवि यंत्रमस्य प्रवक्ष्यते ॥१५३॥
त्रिकोणमथ षट्कोणमष्टपत्रमतः परम् ॥ द्वादशारं षोडशारं विंशत्यारमतःपरम् ॥१५४॥
द्वात्रिंशद्दळपत्रं च ततस्त्रिवलयं लिखेत् ॥ भूपुरं द्वितयं पश्वादष्टवज्रविभूषितम् ॥१५५॥
त्रिकोणे विलिखेद्वीजम् प्रणवेनैव वेष्टयेत् ॥ षडक्षरं तु षट्कोणे मायाबीजेन वेष्टयेत् ॥१५६॥
लिखेदष्टदळे पद्मे अष्टाक्षरमनुत्तमम् ॥ वेष्टयेत्कामबीजेन पद्ममष्टदळं सुधीः ॥१५७॥
द्वादशारे द्वादशार्णम् रमाबीजेन वेष्टयेत् ॥ षोडशारे तु विलिखेत् षोडशाक्षरकं मनुं ॥१५८॥
कळाभिर्वेष्टयेत्सम्यक् षोडशारं सरोरुहम् ॥ विंशत्यारे तु विलिखेद्विंशद्वर्णात्मकं मनुम् ॥१५९॥
वेष्टयेद्रसबीजेन विंशत्यारं सरोरुहाम् ॥ द्वात्रिंशद्दळपद्मे तु लिखेदानुष्टुभं मनुम् ॥१६०॥
हलभिर्वेष्टयेत्पद्मं त्रिंशद्दळसमन्वितम् ॥ मालामंत्रं ततो लिख्यादंतरे लेखयोर्द्वयोः ॥१६१॥
तत्सर्वं वेष्टयेत्पश्वात्पाशांकुशयुगेन वै ॥ भूपुरे विलिखेत्पश्वाच्चतुर्धाष्टाक्षरान् दश ॥१६२॥
दिक्पालबीजान् विलिखेत्प्राणस्थापनमाचरेत् ॥ जपं कुर्याद्धि हवनं कुर्याद्वाह्मणभोजनम् ॥१६३॥
गंधानुलेप - वसन - भूष - तांबूल - दक्षिणैः ॥ एवं कृत्वाऽभ्यर्च यंत्रं दत्तात्रेयस्य योगिनः ॥१६४॥
वंदारुजनमंदारं वांछितार्थफलार्णवम ॥ भवारण्यमहादावनिर्वापणबलाहकम् ॥ १६५॥
महाघहरणं पुंसां महाव्याधिनिवारणम् ॥ महाग्रहोच्चाटनं च महाश्रेयस्करं परम् ॥१६६॥
मैलामरेणुकाकाक - घूक - वारणबाहुभिः ॥ शिथिले कीटमधुभिः वल्मीकैः संघतो गतः ॥१६७॥
देशागतैः शुभप्राप्तैः कालप्राप्तैरघागतैः ॥ दुर्निमित्तैः दुष्टगतैः यैरघाभिर्विनश्यति ॥१६८॥
कीर्तनाच्छ्रवणाध्ध्यानाल्लेखनाद्धारणक्षणात् ॥ यं यं कामयते कामं तं तमाप्रोत्यसंशयः ॥१६९॥
भुजमूले शिरोदेशे कंठे वा श्रवणेऽपि वा ॥ पट्टणे वा ग्रहे सौधे ग्रामे वाऽरामतोपि वा ॥१७०॥
कूपे वाप्यथ गोष्ठे वा क्षितौ वा धान्यराशिषु ॥ ध्वजाग्रे वा गजाश्वे वा आज्यभांडे मुखेऽपि वा ॥१७१॥
पुत्तळे मस्तक वाऽपि द्त्तयंत्रं विधीयते ॥ तत्तत्सम्यग्भवेत्कार्यं तत्तदापन्निवारणम् ॥ १७२॥
एवं यंत्रं मया प्रोक्तं मालामंत्रेष्वयं क्रमः ॥ यंत्रोद्धारस्य कर्तव्यो मालामंत्रमिहोच्यते ॥१७३॥
मालामंत्रमहं वच्मि सकृदुच्चारणार्थदम् ॥ एकवारोच्चारणेन मंत्रेणाखिलसिद्धयः ॥१७४॥
नपुनरुच्चारणक्लेशो नात्यंतनियमोऽथवा ॥ अतिध्यानप्रयासो वा ह्यत्यंतहवनक्षतिः ॥
प्रत्यहं दशधोच्चारो द्त्तात्रेयायते भुवि ॥१७५॥
इति श्रीदत्तकल्पः समाप्तः