अथ श्रीद त्त वज्रकवचम्
श्रीगणेशाय नमः ॥ ऋषय ऊचुः - कथं संकल्पसिद्धिःस्याद्वेदव्यास कलौयुगे ॥
धर्मार्थ - काम - मोक्षाणां साधनं वेदसंभतम् ॥१॥
श्रीव्यास उवाच - श्रृण्वंतु मुनयः सर्वे शीघ्रं संकल्पसाधनम् ॥
सकृदुच्चारमात्रेण भोगमोक्षविधायकम् ॥२॥
गौरीश्रृंगे हिमवतः कल्पवृक्षोपशोभिते ॥ दिव्यदीप्तमहारत्ने हेममंटपमध्यतः ॥३॥
रत्नसिंहासनासीनं प्रसन्नं परमेश्वरम ॥ मंदस्मितमुखांभोजंशंकरं प्राह पार्वती ॥४॥
पार्वत्युवाच - देवदेव महादेव लोकशंकर शंकर - मंत्रजालानि सर्वाणि यंत्रजालानि कृत्स्त्रशः ॥५॥
तंत्रजालान्यशेषाणि मया त्वत्तः श्रुतानि वै ॥ इदानीं द्दष्टुमिच्छामि विशेषाणि महीतले ॥६॥
इत्युदीरितमाकर्ण्य पार्वत्यासह शंकरः ॥ ययौ भूमंडलं द्दष्टुं गौर्यै चित्राणि दर्शयन ॥७॥
क्वचिद्विंध्याचलप्रांते महारण्ये सुदुर्गमे ॥ एधांस्याहर्तुमायांतं भिल्लं परशुधारिणम ॥८॥
बाध्यमानं महाव्याघ्रं नखदंष्ट्राभिलक्षितम् ॥ अतीत्य चित्रचरितं वज्रकायममारितम् ॥९॥
अप्रयत्नमनायासं अखिन्नं सुखतः स्थितम ॥ पलायंतं मृगं पश्वाध्व्याघ्रभीत्या पलायितम् ॥१०॥
एतदाश्वर्यमालोक्य पार्वती प्राहशंकरम ॥ किमाश्वर्यं किमाश्वर्यमग्रे शंभो प्रतीक्ष्यताम् ॥११॥
इत्युक्तः सा तया शंभुर्द्दष्वा प्राह पुराणवित् ॥ गौरी वक्ष्यामिते चित्रमवाङ्मानसगोचरम् ॥१२॥
अद्दष्टपूर्वमस्माभिर्नास्ति किंचिन्नकुत्रचित् ॥ मया सम्यक समेनैव वक्ष्यामि श्रृणु पार्वति ॥१३॥
अयं दूरश्रवा नाम भिल्लः परमधार्मिकः ॥ समित्कुश - प्रसूनानि कंद - मूल - फलादिकम् ॥१४॥
प्रत्यह विपिनं गत्वा समाधाय प्रयासतः ॥ प्रीतिपूर्वं मुनींद्रेभ्यः प्रयच्छति नवांछति ॥१५॥
तेपि तस्मिन्नतिदयां कुर्वंते सर्वमौनिनः ॥ दलादनो महायोगी वसन्नेव निजाश्रमे ॥१६॥
कदाचिदस्मरत्सिद्धं दत्तात्रेयं दिगंबरम् ॥ दत्तात्रेयः स्मर्तगामी प्रत्यहं संपरीक्षितुम ॥१७॥
तत्क्षणेनापि योगींद्रो द्त्तात्रेय उपांस्थतः ॥ तं द्दष्ट्वाश्वर्य - तोषाभ्यां दलदानमहामुनिः ॥१८॥
संपूजितं दत्तदेव अवधूतमुवाच तम् ॥ ममोपचारैस्संप्राप्तो दत्तात्रेयो महामुनिः ॥१९॥
स्मर्तृगामित्वमित्युक्त्वा किं वदंती परीक्षितुम ॥ मयाऽद्य संस्मृतोसि त्वमपचारोयमेव च ॥२०॥
द्त्तात्रेयो मुनिः प्राह मम प्रकृतिरद्दिशी ॥ अभक्त्या वाथवा भत्त्या यः स्मरेन्मामनन्यधीः ॥२१॥
तदंतिकमुपागम्य ददामि तदभीप्सितम् ॥ यदिष्टं तद्दृणष्वि त्वं यत्प्राप्तोहं त्वया स्मृतः ॥२२॥
दलादनमुनिः प्राह मया किमपि नोच्यते ॥ त्वच्चित्ते रोचते तन्मे प्रयच्छ मुनिपुंगव ॥२३॥
ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिः ॥ तथेत्यंगीकृतवते दलादमुनये मुनिः ॥२४॥
सवज्रकवचं प्राह ऋषि - च्छंदपुरस्सरम् ॥ न्यासं ध्यानं फलं तत्तत्प्रयोजनविशेषणम् ॥२५॥
ॐ अस्य श्रीवज्रकवचस्तोत्रमहामंत्रस्य वै ऋषिः दत्तात्रेयो ख्यातः ॥ छंदोनुष्टुप् प्रकीर्तितम् ॥
देवताप्यहमेवास्य द्रांबीजमिति कीर्तितम् ॥ आंशक्तिः क्रोंकीलकम् स्यदोमात्मा र्हीं मनो मम ॥
द्रांद्रींद्रूंद्रैद्रौंद्रः ॥ ॐ द्रां अंगुष्टकाभ्यांनमः ॥ ॐ द्रीं तर्जनीभ्यां नमः ॥ ॐ द्रूं मध्यमाभ्याम् नमः ॥
ॐ द्रैं अनामिकाभ्याम् नमः ॥ ॐ द्रौं कनिष्टिकाभ्याम् नमः ॥ ॐ द्रः करतलकरप्टष्ठाभ्याम् नमः ॥
ॐ द्रां त्द्ददयायनमः ॥ ॐ द्रीं शिरसेस्वाहा ॥ ॐ द्रूं शिखायैवौषट् ॥ ॐ द्रैं कवचायहुम् ॥
ॐ द्रौं नेत्रत्रयायवौषट् ॥ ॐ द्रः अस्त्रायफट् ॥ ॐ भूर्भुवः स्वरोम् इति दिग्बंधः ॥
दत्तप्रसादसिध्यर्थे जपे विनियोगः ॥ ध्यानम् - वाराणसीपुरस्नायी कोल्लापूरजपादरः ॥
माहुरीपुरभैक्षाशी सर्पशायी दिगंबरः ॥१॥
इंद्रनीलसमाकारश्वंद्रकांतिसमोद्विजः ॥ वैदूर्यसद्दशस्फूर्तिः अंचत्किंचिज्जटाधरः ॥२॥
स्त्रिग्धधावल्यदिग्धांगो इंद्रनीलकनीनिकः ॥ भ्रूपक्ष्म - श्मश्रुनैल्यांकः शशांकसद्दशाननः ॥३॥
हासनिर्जितनीहारः कंठनिर्जितकंचुकः ॥ मांसलांसो दीर्घबाहुः पाणिनिर्जितपल्लवः ॥४॥
विशालपीनवक्ष स्कः पद्मपाणितलोदरः मृदुलश्रोणिललितो विशालजघनस्थलः ॥५॥
रक्तारविंदसद्दशरमणीयपदाधरः ॥ चर्मांबरधरो योगी द्विषद्वारणदीक्षितः ॥६॥
सिद्धासनस्थोबलवान् ऋजुकायो हसन्मुखः ॥ वामहस्तेन वरदो द्क्षिणेनाभयप्रदः ॥७॥
बालोन्मत्तपिशाचामः क्वचिदुक्तं परीक्षितुम् ॥ त्यागी योगी महायोगी नित्यानंदो निरंजनः ॥८॥
सर्वरूपी सर्वदाता सर्वगः सर्वकालकः ॥ भस्मोध्दूलितसर्वांगो महापातकनाशनः ॥९॥
भुक्तिप्रदो मुक्तिदाता जपन्मुक्तिप्रदायकः ॥ एवं ध्यात्वानन्यचित्तो मद्वज्रकवचं पठेत् ॥१०॥
मामेव पश्यन् सर्वत्र स मया सह संचरेत् ॥ दत्तात्रेय उवाच - द्त्तात्रेय्यो शिरः पातु सहस्त्राराब्जसंस्थितः ॥११॥
फालं पात्वनसूयेयः चंद्रमंडलमध्यगः ॥ कूर्चं मनोमयः पातु हंक्षं द्विदलमध्यभूः ॥१२॥
ज्योतिरूपोक्षिणी पातु शद्वम् शब्दात्मकः कृतीः ॥ नासिकां पातु गंधात्मा मुखं पातु रसात्मकः ॥१३॥
जिव्हां वेदकरः पातु दंतोष्ट्रं पातु धार्मिकः ॥ कपोलावत्रिभूः पातु पात्वशेषं सदात्मभूः ॥१४॥
सर्वात्मा षोडशाराब्जस्थितश्वात्मावतद्नलम ॥ स्कंधौ चंद्रानुजः पातु भुजौ पातु कृतादिभूः ॥१५॥
जत्रुणी शत्रुजित्पातु पातु वक्षस्थळं हरिः ॥ कादिठांतद्वादशारपद्मगो मरुदात्मकः ॥१६॥
योगीश्वरेश्वरः पातु ह्रदयं ह्रदयेश्वरः ॥ पार्श्वौदूरः पार्श्ववर्ती पातु पार्श्वस्थितिर्मम ॥१७॥
हठयोगादियोगज्ञः कुक्षी पातु कृपानिधिः ॥ डकारादिफकारान्तदशारसरसीरुहे ॥१८॥
नाभिस्थळे वर्तमानो नाभिं वत्सात्मकोऽवतात् ॥ वकारादिलकारांतं क्षदलांबुजबोधकः ॥१९॥
जलतत्त्वमयोयोगो रक्षतां मणिपूरकम् ॥ सित्धासनसमासीन ऊरू सित्धेश्वरोऽवतात् ॥२०॥
वादिसांतचतुः पत्रसरोरुहनिबोधकः ॥ मूलाधारं महीरुपो रक्षाताद्वीर्यनिग्रही ॥२१॥
अर्षवद्वितयं पातु जानुन्यस्त करांबुजः ॥ जंघे पात्ववधूतेंद्रः पात्वंघ्री तीर्थपावनः ॥२२॥
सर्वांगं पातु सर्वात्मा पातु रोमाणि केशवः ॥ चर्म चर्मांबरः पातु रक्तं भक्तप्रियोऽवतात् ॥२३॥
मांसं मांसकरः पातु मज्जा सारात्मकोऽवतात् ॥ अस्थीनि स्थिरधीः पायात् मेदो वेदाः प्रपालयेत् ॥२४॥
शुक्लं सुखकरः पायात्संधींश्व सुद्दढाकृतिः ॥ मनोबुत्धिरहंकारं हृषीकेशात्मकोऽवतात् ॥२५॥
कर्मैद्रियाणि पात्वीशः पातु ज्ञानेंद्रियाण्यजः ॥ चंद्रो बंधूत्तमः पातु शत्रुभ्यः पातु शत्रुजित् ॥२६॥
गृहाराभ - धन - क्षेत्र - पुत्रा - दीन् शंकरोऽवतात् ॥ भार्यां प्रकृतिवत्पातु पश्वादीन पातु शार्ङभृत् ॥२७॥
प्राणान्पातु प्रधानज्ञो भूम्यादीन् भास्करोऽवतु ॥ सुखं चंद्रात्मकः पातु दुःखात्पातु पुरांतकः ॥२८॥
प्राच्यां विषहरः पातु पात्वाग्नेयां मखात्मकः ॥ याम्यां धर्मात्मकः पातु नैऋत्यां पातु वैरिजित् ॥२९॥
वाराहः पातु वारुण्यां वायव्यां प्राणदोऽवतात ॥ कौबेर्यां धनकृत्पातु पात्वैशान्यां महागुरुः ॥३०॥
ऊर्ध्वं पातु महासित्धः पात्वधस्ताज्जटाधरः ॥ रक्षाहीनं तु मे स्थानं रक्षत्वादिमुनीश्वरः ॥३१॥
एतन्मे वज्रकवचं यः पठेच्छृणुयादपि ॥ वज्रकायश्विरंजीवी दत्तात्रेयोहमब्रुवम् ॥३२॥
त्यागी योगी महायोगी सुखदुःखविवर्जितः ॥ सर्वतः सित्धसंकल्पो जीवन्मुक्तो भवेस्तमः ॥३३॥
इत्युत्क्वांतर्दधे योगी दत्तात्रेयो दिगंबरः ॥ दलादनोपि तज्जप्त्वा जीवन्मुक्तोद्य वर्तते ॥३४॥
भिल्लो दूरश्रवानाम तदानीं श्रुतवानिदमम् ॥ सकृच्छृवणमात्रेण शुद्धांगोह्यभवत्तदा ॥३५॥
इत्येवं वज्रकवचं दत्तात्रेयस्य योगिनः ॥ श्रुत्वाशेषं शंभुमुखात् पुनरप्याह पार्वती ॥३६॥
पार्वत्युवाच - एतत्कवचमाहत्म्यं वद विस्तरतो मम ॥ कुत्र केन कदा जप्तम् कियज्जप्यं कथं प्रभो ॥३७॥
उवाच शंभुस्तत्सर्वं पार्वत्यै विनियोजनम् ॥ श्रृणु पार्वति वक्ष्यामि समाहिततयाऽखिलम् ॥३८॥
धर्मार्थ - काम - मोक्षाणां इदमेब परायणम् ॥ हस्त्यश्व - रथ - पत्यादिसर्वैश्वर्यप्रदायकम् ॥३९॥
पुत्र - मित्र - कळत्रादिसर्वसंतोषसाधनम् ॥ वेद - शास्त्रादि विद्नां साधनं परमं मतम् ॥४०॥
संगीतशास्त्रसाहित्यं सत्कवित्वविधायकम् ॥ सर्वसंतोषकरणं सर्वदुःखनिवारणम् ॥४१॥
शत्रुसंहारकृच्छीघ्रं यशः - सुकृतवर्धनम् ॥ अष्टसंख्या महारोगान् सन्निपातास्त्रयोदश ॥४२॥
तृणवत्कुक्षिरोगांश्व विंशतिर्मेहरोगवान् ॥ अष्टादशापि कुष्टानि गुल्मान्यष्टविधानपि ॥४३॥
अशीतिर्वातरोगांश्व चत्वारिंशाश्वपैत्यकः ॥ विंशातिः श्लेष्मकारोगाः क्षय - चातुर्थिकादयः ॥४४॥
मंत्र - तंत्रप्रयोगोत्थशैलतंत्रादिनिर्मिताः ॥ ब्रह्मराक्षस - वेताळाः कूष्मांडादिग्रहोद्भवाः ॥४५॥
संघजा देशकालस्थाः यत्र यत्र यथोदिताः ॥ नवग्रहसमुद्भुताः महापातकसंभवाः ॥४६॥
सर्वे रोगाः प्रणश्यंति सहस्त्रावर्तना ध्ध्रुवम ॥ अयुतावृत्तिमात्रेण वंध्या पुत्रवती भवेत् ॥४७॥
अयुतद्वितय्यावृत्या अपमृत्युजयो भवेत् ॥ अयुतत्रयमात्रेण खेचरत्वं प्रजायते ॥४८॥
सहस्त्रादयुतादर्वाक् सर्वकर्माणि साधयेत् ॥ लक्षावृत्या भवत्येव कार्यसिद्धिर्नसंशयः ॥४९॥
सहस्त्रेणैव कार्याणि सिद्धिः स्यान्नात्र संशयः ॥ विषवृक्षस्य मूले तु तिष्ठन्यो दक्षिणामुखः ॥५०॥
कुरुते मासमात्रेण वैरिणं विकलें दियम् ॥ औदुंबरतरोर्मूले वृद्धिकामेन जप्यते ॥५१॥
श्रीवृक्षमूले श्रीकामैः तिंत्रिण्यां शांतिकामिभिः ॥ अश्वत्थमूले काम्यैश्व स्त्रीकामैः सहकारतः ॥५२॥
ज्ञानार्थं तुळसीमुळे गर्भगेहे सुतार्थिभिः ॥ धान्यार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके ॥५३॥
देवालये सर्वकामैस्तत्काले सर्वदेशतः ॥ नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत् ॥५४॥
युद्धे वा शास्त्रवादे वा सहस्त्रेण जयो भवेत् ॥ कंठदघ्नजले रात्रौ यो वज्रकवचंपठेत् ॥५५॥
अथापस्मारकुष्ठादितापज्वरनिवारणम् ॥ यत्र येन पदा यश्वरतियोगी चिरायुजः ॥५६॥
इति श्रीस्कंदपुराणे दलदान - दत्तसंवादे दत्तात्रेयवज्रकवचं सपूर्णम् ॥२०॥