श्रीगणेशाय नमः ॥ अस्य श्रीदत्तात्रेयगीतामालामंत्रस्य ॥ गायत्र्यादीनि छंदांसि ॥
श्रीदत्तात्रेयो परमात्मा देवता ॥ येनेदं पूरितमिति बीजं ॥ ज्ञानारसं समरसमिति शक्तिः ॥
किमु रोदसि मानस सर्वसममिति कीलकम् , स्वरूपनिर्वाणं नाम योहमिति यजकम् ॥
योग - मोक्षयोः स्वनिष्ठपरिपाकसिध्यर्थे श्रीदत्तात्रेयगीता जपे विनियोगः ॥ येनेदं पूरितं सर्वमित्यंगुष्ठाभ्यां नमः ॥
त्द्ददयाय नमः ॥ ज्ञानामृतं समरसमिति तर्जनीभ्यां नमः ॥ शिरसे स्वाहा ॥ स्वरूपनिर्वाणमिति मध्यमाभ्यां नमः ॥
शिखायै वौषट् ॥ किमुरोदसि मानससर्वसममित्यनामिकाभ्यां नमः ॥ कवचायहुम ॥ यदिकचैकनिरंतरेति कनिष्ठिकाभ्यां नमः ॥ नेत्र० ॥
तमीशमात्मानमुपैमि शाश्वतमिति करतळकरप्टष्ठाभ्यां नमः ॥ अस्त्रायफट् ॥ ॐ भूर्भुवःस्वरोमिति दिग्बंधः ॥ अथ ध्यानं ॥
नित्यं यस्यांघ्रियुग्मं हिमकरसद्दशं पादुकाद्वंद्वभूषं बिभ्रद्योगींद्र्दोहत्सुखनिचयसुधानिर्झरं सुच्छविद्युत् ॥ द्यूते क्रीडाविलासादभयवरकरः
प्राणमूले च द्दष्टिस्तत्त्वाद्देवावधूते त्यथ सिरसि जटासूत्रकं यो बभार ॥१॥
श्रीमत्सिद्धकिरीटरत्नकिरणाच्छन्नांघ्रियुग्मांतरं भक्त्यासक्तमयैकसिंधुलहरीसिक्तार्कचिंतानलम् ॥
तत्त्वासि विशिखाग्रमुष्टिवसतिं श्रीदेवदत्तं प्रभुं यातः सोहमनन्यभावशरणं त्वं त्राहि मां माधवम् ॥२॥
दत्तात्रेयमिदं शुद्धं ब्रह्मनिर्वाणनिष्ठितम् ॥ अवधूतमहं नौमि विज्ञानानंदविग्रहम् ॥३॥
पठिता प्रत्यहं गीता त्रिवारं येन धीमता ॥ त्रिमासैर्लभते सिद्धिं निष्कामं च सकामतः ॥४॥
यस्य बाधादिदं सर्वं ज्ञानविज्ञानगोचरम् ॥ तस्मै सदैकरूपाय दत्तात्रेयाय ते नमः ॥५॥
दत्तात्रेयम् शिवं पूर्णं भावाभावविवर्जितम् ॥ अद्वैतं परमं गुह्मं निर्विकल्पं निरंजनम् ॥६॥
कथं वदामि निर्भावम् भेदाभेदविवर्जितम् ॥ अमोघं चामलं पूर्णं प्रसिद्धं तत्त्वमव्ययं ॥७॥
ईश्वरानुग्रहादेव पुंसामद्वैतवासना ॥ महाभयपरित्राणं द्वित्राणमिहजायते ॥८॥
यदेकं निर्गुणं नित्यं निराभासं निरंजनम् ॥ चिदानंदस्वरूपं च दत्तात्रेयं चिदक्रियम् ॥९॥
गोरक्षका उवाच - त्रिगुणं शरीरं भवतीह सारं अजनं समूहे चरतीह नग्नम् ॥
मुनिवरनमितं भवगुणरहितं परमविबुधं भोऽसावलं हि ॥१०॥
भावाभावं भवति स भावो भावं शयति मननं हि ततू ॥
प्रलयति तन्मननयनवशात्स्मृतवचनं श्रृणु भो अवधूता ॥११॥
श्रीदत्तात्रेय उवाच - येनेदं पूरितं सर्वम् आत्मन्येवात्मनात्मनि ॥
निराकारं कथं वंदे ह्यभिन्नं शिवमव्ययम् ॥१२॥
पंचभूतात्मकं विश्वं मरीचिजलसन्निभम् ॥
कस्यास्ति ह नमस्कारो अहमेको निरंतरम् ॥१३॥
वेदांतसारसर्वज्ञं ज्ञानविज्ञानमेव च ॥
अहं चात्मा निराकारः स्वस्वं वेद्मिस्वभावजन् ॥१४॥
आत्मैव केवलं सर्वं भेदाभेदो नविद्यते ॥
अस्ति नास्ति कथं ब्रूयाद्विस्मयः प्रतिभाति मे ॥१५॥
एवं सर्वात्मकं नित्यं निष्कंपं गगनोपममू ॥
स्वभावं निर्मलं शुद्धं स एवाहं नसंशयः ॥१६॥
अहमेवाव्ययोऽनंतः शुत्धविज्ञानविग्रहः ॥
सुखं दुःखं वि ( न ) जानामि कथं कस्यापि वर्तते ॥१७॥
न मानसं कर्म शुभाशुभं मे न वाचिकं कर्म शुभाशुभं मे ॥
न कामजं कर्म शुभाशुभं मे ज्ञानामृतं शुत्धमतींद्रियोहम् ॥१८॥
मनो वै गगनाकारं मनो वै सर्वतोमुखम् ॥
मनो वै परमात्मैव न मन : परमार्थतः ॥१९॥
लीयंते वा नलिप्यंते कथं कस्यापि वर्तते ॥
नहि सर्वमसर्वं च चात्मैव केवलं यतः ॥२०॥
मनः सर्वे प्रलीयंते मनस्तत्र प्रलीयते ॥
एवं सर्वं मनः सर्वं आत्मैव केवलं यतः ॥२१॥
अहमकमिदं सर्वं व्योमाकारं निरंतरम् ॥
पश्यामि कथमात्मानं प्रत्यक्षं च तिरोहितम् ॥२२॥
त्वमेव तत्त्वान्हि कथं विवुध्यसे सर्वं हि सर्वेषु विनष्टमव्ययम ॥
सदोदसि त्वं त्वमखंडितं विभो दिवा च नक्तं च कथं हि मन्यते ॥२३॥
आत्मानं सततं वित्धि सर्वमेकं निरंतरम् ॥
अहं ध्यात्वा परं ध्येयमखंडं खंडसे कथम् ॥२४॥
नजातोसि मृतोसि त्वं न ते देह : कदाचन ॥
सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधाश्रितः ॥२५॥
सबाह्याभ्य़ंतरेऽसि त्वं शिवः सर्वत्र सर्वदा ॥
इतस्ततः कथं भ्रांतः प्रधावसि पिशाचवत् ॥२६॥
संयोगाश्व वियोगाश्च वर्तंते नहि तन्न मे ॥
नाहं नत्वं जगन्नेति सर्वमात्मैव केवलम् ॥२७॥
शब्दादिपंचकस्यास्य नैवासि त्वं हते पुनः ॥
त्वमेव परमं तत्वंमनः किं परितप्यसे ॥२८॥
नच मृत्युर्न ते चित्तं बंधं मोक्षं शुभाशुभम ॥
कथं रोदिसि रे चित्त नाम - रूपे न ते न मे ॥२९॥
अहो चित्तक विभ्रांतः प्रधावसि पिशाचवत् ॥
अभिन्नं यस्य चात्मानं रागत्यागात्सुखी भव ॥३०॥
त्वमेव मोक्षो हि विकारवर्जितो निष्कंपमेकं हि विमोक्षविग्रहः ॥
नवीतरागो गतवीतरागो कथं हि संतप्तअकामकामी ॥३१॥
नाहं कर्ता न भोक्ता च न चे कर्म कदाचन ॥
विशुद्धं निर्गुणं ब्रह्म वद्धमुक्तिःकथं मम ॥३२॥
बध्नंति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम् ॥
अशरीरं समं तत्त्वं तन्मां सिद्धिर्नसंशयः ॥३३॥
साकारममृतं विद्धि निराकारं निरंतरम् ॥
एतत्तत्त्वोपदेशेन नपुनर्गर्भसंभवः ॥३४॥
एकानेकसमं तत्त्वं वदंति ह विपश्वितः ।
रागत्यागेन मनसि ह्येकानेको नविद्यते ॥३५॥
अनित्यरूपस्य कुतो हि बंधनं नित्यस्य रूपस्य कुतो हि बंधमन् ॥
नानित्यरूपं न च नित्यरूपं शिवस्वरूपं सहजामलं च ॥३६॥
अनाहरूपं हि कथं समाधि - मोक्षस्वरूपं यदि सर्वमेकम् ॥
आत्मस्वरूपं हि कथं समाधिरस्तीति नास्तीति कथं समाधिः ॥३७॥
विशुद्धोसि समं तत्त्वं विदेहिस्त्वमजोऽव्ययः ॥
जानामि हि नजानामि चात्मानं मन्यसे कथम् ॥३८॥
यस्त्वं जानासि तत्त्वेन यस्त्वं पश्यसि तत्कथम् ॥
यस्त्वं मन्यसि तत्त्वेन सर्वंब्रह्मेति सर्वदा ॥३९॥
तत्त्वमस्यादिवाक्येन आत्मा हि प्रतिपादितः ॥
नेति नेति श्रुतिर्ब्रूयान्नानृत्यं ( तं ) पांचभौतिकम् ॥४०॥
आत्मनैवात्मना सर्वं त्वया पूर्णं निरंतरम् ॥
ध्याता ध्यानं नते चित्तं निर्लक्ष्यं ध्यायसे कथम् ॥४१॥
शिवं नजनामि कथं वदामि शिवं च जानामि कथं वदामि ॥
सर्वं शिवं वै परमार्थतत्त्वं स्वच्छस्वभावद्नगनोपऽहम्॥४२॥
आत्मस्वरूपी न च चोपकल्पना आत्मस्वभावेन मदन्यभावना ॥
स्वयं शिवत्वं परमं विशुद्धं नाहं न मे चैव परात्परं च ॥४३॥
न त्वं नाहं समं तत्त्वं कलानां हेतुवर्जितम् ॥ ग्राह्या - ग्राहक - निर्मुक स्वयं वेद्यं कथं भवेत् ॥४४॥
अतत्त्वरूपं नहि वस्तु किंचित्तत्त्वं स्वरूषं न हि वस्तु किंचित् ॥
आत्मैकरूपं परमार्थतत्त्वं नहिंसको वाऽपि न चापि हिंसा ॥४५॥
विशुद्धोहं समं तत्त्वं विदेहं विश्वतोमुखम् ॥
विभ्रमे कथमात्मानं विभ्रांतोहं कथं पुनः ॥४६॥
घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम् ॥
शिवेन मनसा तद्वन्नभिन्नं प्रति मे शिवम् ॥४७॥
न घटेन घटाकाशः न जीवो जीवविग्रहः ॥
केवलं ब्रह्म संवेत्ति वेद्य - वेदविवर्जितम् ॥४८॥
सर्वत्र सर्वदा वर्जं सर्वमात्मानजं ध्रुवमु सर्वशून्यमशून्यं च तन्मां विद्धि नसंशयः ॥४९॥
न देवलोकास्त्वसुरा न यक्षा वर्णाश्रमो नैव कुलं नजातिः ॥
न धूममार्गो न च दीप्तिमार्गो ब्रह्मैकरूपं परमार्थतत्त्वम् ॥५०॥
व्याप्य - व्यापकनिर्सुक्तं तत्त्वमेकं च केवलम् ॥
प्रत्यक्षं वा परोक्षं वा चात्मानं मन्यसे कथम् ॥५१॥
अद्वैतं केचिदिच्छंति द्वैतमिच्छंति चापरे ॥
समं तत्त्वं नविंदंति द्वैताद्वैतविवर्जितम् ॥५२॥
श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम् ॥
कथयामि कथं तत्त्वं मनो - वाचामगोचरम् ॥५३॥
यदा हि मन्यसे सर्वं देहादिगगनोपमम ॥
तदहं ब्रह्म संविद्धि तत्त्वं वेत्ति परात्परम् ॥५४॥
परणे सर्वमात्मानं न भिन्नं प्रतिभाति मे ॥
ब्रह्मैव केवल सर्वं ध्याता धानं च कथ्यते ॥५५॥
यत्करोषि यदश्नासि यच्छृणोषि ददासि यत् ॥
एतत्सवं न ते किंचिच्छुद्धोहमजमव्ययम् ॥५६॥
सर्वं जनद्विद्धि निराकृतिं तं सर्वं जगद्विद्धि विकारहीनम् ॥
सर्वं जगद्विद्धि विशुद्धदेहं सर्वं जगद्विद्धि शिवैकरूपम् ॥५७॥
तत्त्वं तत्त्वसमं देहं किं तु जानामि वा पुनः ॥
असंवेद्ये स्वसंवेद्यमात्मानं मन्यसे कथम् ॥५८॥
अष्टांगयोगेन तु नैव बुद्धं गुरुपदेशेन तु नैव बुध्यम् ॥
मनोविलासेन तु नैव बोध्दुं स्वयं स्वबोधेन विशुद्धरूपम् ॥५९॥
नहि भूतात्मको देहो विदेहो वर्तते नहि ॥
आत्मैव केवलं सर्वं न तु कुर्यात्कथंचन ॥६०॥
माया माया कथं तात छाया छाया नविद्यते ॥
तत्त्वमेकमिदं सर्वं व्योमाकारं निरंजनम् ॥६१॥
आदिमध्यांतमुक्तोहं नबद्धोहं कदाचन ॥
स्वभावानिर्मलं शुद्धमिति मे निश्वयो मनः ॥६२॥
महदादिजगत्सर्वं नकिंचित्प्रतिभाति मे ॥
ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमो भवेत् ॥६३॥
जानामि सर्वथा सर्वमहमेको निरंतरम् ॥
निरालंबमशून्यं च न तु व्योमादिपंचकम् ॥६४॥
नपुमान्नपुंसको न स्त्री न बद्धो नैव कल्पना ॥
स्वानंदच निरानंदमात्मानं मन्यसे कथम ॥६५॥
नबद्धो नैव मुक्तोहं नचाहं ब्रह्मणः पृथक् ॥
नभर्ता न च भोक्ता च व्याप्यव्यापकवर्जितम् ॥६६॥
यथा जले जलं न्यस्तं स्वस्मिन् संभेदवर्जितम् ॥
प्रकृतिं पुरुषं तद्वन्नभिन्नं प्रतिभाति मे ॥६७॥
जानासि ते परं रूपं प्रत्यक्षं गगनोपमम ॥
नचापरं हि रूपं हि मरीचिजलसन्निभम् ॥६८॥
नगुरुर्नोपदेशश्च नचोपाधिर्नच क्रिया॥
विदेहीं मां विजानीहि विशुद्धोहं स्वभावतः ॥६९॥
यदि यो वै नमुक्तोहं नबद्धोहं कदाचन ॥
साकारं वा निराकारमात्मानं मन्यसे कथम ॥७०॥
विशुद्ध ईश्वरोसि त्वं न ते चित्तं परात्परम् ॥
अहमात्मा परं तत्त्वमिदं वक्तुं न शक्यते ॥७१॥
कथं रोदिसि रे चित्त आत्मन्येवात्मना भव ॥
पिबन् सकलतीर्थात्मा अद्वैतं परमामृतम् ॥७२॥
नवै बोधो नचाबोधो नबोधो बोध एव च ॥
यस्य निर्वासनाबोधो स बोधो नान्यथा भेवत् ॥७३॥
न ध्यान - तर्कौ न समाधियोगो न देशकालौ न गुरुपदेशः ॥
स्वभावसंवित्तिपरं च तत्त्वमाकाशकल्पं सहजं ध्रुं च ॥७४॥
नजातोसि मृतोसि त्वं न ते कर्म शुभाशुभम् ॥
शुद्धोहं निर्गुणं नित्यं बंधमु - क्तिः कथं मम ॥७५॥
यदि सर्वगतो देवः स्थिरः पूर्णो निरंतरम् ॥
अंतरं नैव पश्यामि सबाह्याभ्यंतरं कथम् ॥७६॥
स्फुरत्वेवं जगत्सर्वमखंडितनिरंतरम् ॥
अंतरं नैव पश्यामि सबाह्याभ्यंतरं कथम् ॥७७॥
अहो मायामये देहे द्वैताद्वैतविकल्पना ॥
निराकारोपि साकारो नेति नेतीति सर्वथा ॥७८॥
भेदाभेदविनिर्मुक्तं वर्तते केवलं शिवम् ॥
न ते च माता भगिनी पिता च न ते च पत्नी न सुत्द्दन्नपुत्रः ॥७९॥
नपक्षपाती न च पक्षपाती किं तप्यसे तत्परकामकामी ॥
दिवानक्तं न ते चित्ते उदयास्तमयं न ते ॥८०॥
चिद्देहमशरीरत्वात्कल्पयंतिकथं बुधाः ॥
नहि भुक्तं विभक्तं च न हि दुःख - सुखानि च ॥८१॥
न हि सर्वमसर्वं च विद्धि चात्मानमव्ययम् ॥
नाहं कर्ता च भोक्ता च न मे कर्म पुराऽधुना ॥
न मे देहो विदेहो वा निर्ममेति ममेति किम् ॥८२॥
न मे रागादिको दोषो दुःखं चैवादिकं नहि ॥
आत्मनं विद्धि मामेवं विशालं गगनोपमम ॥८३॥
सखे मनः किं बहुजल्पितेन सखे पुनः सर्वमिदं वितथ्यम् ॥
संसारभूतं मम नैव सर्वं भवेत्स्वरूपं गगनोपमं च ॥८४॥
येनकेन च भावेन यत्र यत्र मृतः पुनः ॥
योगिनस्तत्र लीयंते घटाकाशमिवांबरे ॥८५॥
तीर्थेवापि त्यजेद्देहं नष्टस्मृतिः परित्यजेत ॥
ज्ञाने समयकल्पे च कैवल्यविहितासुता ॥८६॥
तस्य ज्ञानं नचैवास्ति यस्य स्वर्गादिकल्प्यते ॥
यत्पदं प्रापितं देवैः स योगी नात्र संशयः ॥८७॥
धर्मार्थकाम - मोक्षादिविपदादिचराचरम् ॥
मन्यंते योगिनः सर्वे मरी चिजलसन्निभम् ॥८८॥
अतीतानागतं कर्म वर्तमानं तथैव च ॥
नकरोमि नभुंजामि इति मे निश्वला मतिः ॥८९॥
कदापि चित्तदोषेण कल्पितं स्वर्गमंडलम ॥
तेन स्वर्गपदं भोक्ता आत्मज्ञानपरायणम् ॥९०॥
गोरक्षक उवाच - शून्यागारे समरसयुक्तो नित्यं तिष्ठति सुखमवधूतः ॥
विचरति नग्नस्त्यक्त्वा गर्वं विंदति केवलमात्मनि सर्वम् ॥९१॥
तृतीयं तुर्यं नहि नहि यत्र विंदति केवलमात्मनि तत्र ॥
धर्माधर्मौ नहि नहि यत्र बंध - विमुक्तो कथमिह तत्र ॥९२॥
विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥
समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥९३॥
सर्वशून्यमशून्यं च सत्यासत्यं नविद्यते ॥
स्वभावभावितं ब्रूयाच्छात्रेष्वेवेतिपूर्वकम् ॥९४॥
ॐ तत्सदिति दत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरंजनविद्यायां निर्वाणयोगे
श्रीदत्त - गोरक्षकंसवादे सावित्र्युपदेशे द्वैताद्वैतनिरूपणं नाम प्रथमोध्यायः ॥