श्रीगणेशाय नमः ॥ बालस्य वा विषयभोगहतस्य
वाऽपि मूर्खस्य सेवकजनस्य ग्रहस्थितस्य ॥
गुह्यं परं किमपि नैव विकासनीयं
भ्रांतः कथं भजति कस्य यदि प्रदिष्टम् ॥१॥
नैवात्र काव्यगुणदोषविवंचनीयो
ग्राह्मं परं गुणवती खलु यस्य वासी ॥
विभ्रांतचित्तरहिताद्भुवि रूपशून्यान्
पारं नकिन्नयतिनापि त्विह त्रिकामात् ॥२॥
प्रयत्नेन विना येन निश्वलेन चराचरम् ॥
ग्रहस्तंभसमं शांतं चैतन्यं गगनोपमम् ॥३॥
अथ तत्त्वं पठेद्दस्तु एकएव चराचरम् ॥
सर्वमंग कथं भिन्नमद्वैतं परमामृतम् ॥४॥
अहमेव परं यस्मात्सारात्सारतरं शिवम् ॥
गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ॥५॥
पूर्णानंदं च गृण्हामि विभोगत्रिदशार्चितम् ॥
समाधिनः समं देहं किंकरिष्यामि तृप्तिमान् ॥६॥
उत्पद्यंते विलीयंते बुब्दुदाश्व जले यथा ॥
महादादीनि भूतानि ममाप्येकं स एव हि ॥७॥
मृदुद्रवेषु तीक्ष्णेषु गुणेषु कटकेषु च ॥
कठुत्वं मधुरत्वं च तीक्ष्णत्वं मृदुलं यथा ॥८॥
प्रकृतिः पुरुषं तद्वन्नभिन्नं प्रतिभातिभो ॥
यच्च सर्वाख्यरहितं सूक्ष्मात्सूक्ष्मतरं परम् ॥९॥
मनोबुद्धींद्रियातीतमकळंकं जगत्पतिम् ॥
अद्दश्यं सह यत्र त्वमहं तत्र कथं भवेत् ॥१०॥
त्वमेव परमं तत्त्वं यत्र यत्र चराचरम् ॥
गगनोपमं च यत्प्रोक्तं तदेव गगनं परम् ॥११॥
चैतन्यं दोषरहितं संपूर्णं सर्वमेव च ॥
वसुधामंतरिक्षं च मारुतेन समाहितम् ॥१२॥
उदके पिहितं चैव तेजोमध्ये व्यव स्थितम् ॥
आकाशं तेन संप्राप्तं नतव्द्याप्तं च केनचित् ॥१३॥
सबाह्याभ्यंतरेसि त्वं स्थिरपूर्णनिरंतरम् ॥
सूक्ष्मत्वाच्चेदद्दश्यत्वं निर्मलत्वाच्च योगिभिः ॥१४॥
आलंबनादिर्यत्प्रोक्तं त्यक्त मालंबनं त्यजेत् ॥
ततोभाभ्यां च निर्मुक्तो निरालंबं यदा भवेत् ॥१५॥
वलयं लायते तात गुणदोषविवर्जितम् ॥
चित्स्वरूपस्य रौद्रस्य मोह - मूर्छा - द्र्वस्य च ॥१६॥
एक एवं विना यत्वममोघं सहजामृतम् ॥
भावगम्यं निराकारं साकारं द्दष्टिगोचरम् ॥१७॥
भावाभावविर्मुक्तमंतराळं तदुच्यते ॥
बाह्यभावो भवेदिथ्थमतःह प्रकृतिरुच्यते ॥१८॥
अंतरादंतरं ज्ञेयं नारिकेळ फलं यथा ॥
पौर्णमास्यां तथा चंद्र एकएवोति निर्मलः ॥१९॥
भ्रांतिज्ञानस्थितो बाह्ये सम्यग्ज्ञानं च मध्यमे ॥
मध्यान्मध्यतरं ज्ञेयं नारिकेळफलं यथा ॥२०॥
अनेनैव प्रकारेण बुत्धिभेदेन सर्वगः ॥
एष बुद्धोप्यनामा च गीयते नामकोटिभिः ॥२१॥
गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पंडितः ॥
यस्तु संबुध्यते तत्त्वं विरक्तो भवसागरात् ॥२२॥
राग - द्वेष - विनिर्मुक्तः सर्वतत्वहिते रतः ॥
द्दढबोधश्व धीरश्व स गछेत्परमम् पदम् ॥२३॥
घटे भिन्ने घटाकाशमाकाशे लीयते यथा ॥
देहाभावे तथा योगी स्वरूपे परमात्मनि ॥२४॥
उक्तं यत्कर्म युक्तानां मतिर्यातेपि सा गतिः ॥
योगिनां या गतिः कापि अगत्याभावनोषितः ॥२५॥
या गतिः कर्मयुक्तानां तां च वागींद्रियंवदेत ॥
एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम् ॥२६॥
विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते ॥
तीर्थे वांऽत्यजगेहे वा यत्र यत्र मृतोपि वा ॥२७॥
नयोगी पश्यते गर्भं परब्रह्मणि लीयते ॥
सहजमजमचिंत्यं यस्तु पश्येत्स्वरूपं घटति यदि यथेच्छं लिप्यते नैव दोषैः ॥२८॥
सकृदपि यदभावात्कर्म किंचिन्नकुर्यात्तदपि भवति बद्धः स्वयमेव वा तपस्वी ॥
निरामयं निष्प्रतिमं निराकृतिं निराशयं निर्वपुषं निराशयम् ॥२९॥
निंर्द्वद्वनिर्मोहमलुप्तशक्तिकं तमीशमात्मनमुपैति शाश्वतम् ॥
विधौ नदीक्षा न च मंडलक्रिया गुरुर्नशिष्यो न च मंत्रसंपदः ॥३०॥
मुद्रादिकं चापि न यत्र मानसस्तमीशमात्मानमुपैति शाश्वतम् ॥
नशांभवी शक्तिकमाणकं न वा पिंडंच रूपं च पदादिकं न वा ॥३१॥
आरंभ - निष्पंदघटादिकं न वा तमीशमात्मानमुपैति शाश्वतम् ॥
यस्य स्वरूपं च विपद्यते जगच्चराचरं तिष्ठति लीयतेऽपि वा ॥३२॥
पयोविकारादिव फेनबुद्वुदास्तमीशमात्मानमुपैति शाश्वतम् ॥
नानात्वमेकत्वभावत्व - मायात्वाणुत्व - दीर्घत्व - महत्वशून्यकम् ॥३३॥
मानत्वविद्यात्व - समाप्तवर्जितं तमीशमात्मानमुपैति शाश्वतम् ॥
नासानिरोधो न च द्दष्टिरोधो बद्धो विबद्धो नशुभासतं सतः ॥३४॥
नास्य प्रचारोपि न यत्र किंचित्तमीशमात्मानमुपैति शाश्वतम् ॥
सुसंयमी वा यदि वा नसंयमी निष्मर्मको वा यदि वा सकर्मकः ॥३५॥
अमानुषोघोनविमुच्यते ध्रुवं तमीशमात्मानमुपैति शाश्वतम् ॥
नो नबुद्धिर्नशरीमिंद्रिये तदात्मभूतादिकभेदवर्जितः ॥३६॥
शौचं न लिंगं यदि भावनाशकं संविद्वयं वा यदि वा न विद्यते ॥
मनोनु वाक्चक्षुनशक्तिमीतरं कथं च तत्रैव गुरूपदेशं ॥३७॥
पयः कथं मुक्तवतं विभाजनं युक्तस्य तत्वं हि समः प्रकाशते ॥३८॥
विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥
समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥३९॥
ॐ तत्सदिति श्रीमद्दत्तगीतासूपनिषत्सारमथितार्थेषु निर्वाणविद्यायां
दत्त - गोरक्षक संवादे महानिर्वाणयोगो नाम सप्तमोध्यायः ॥ श्रीदत्तात्रेयार्पणमस्तु ॥