श्रीगणेशाय नमः॥ गोरक्षक उवाच - विद्धिहिकर्परमजिनं कंथा पुण्यापुण्यविवर्जितपंथा ॥
शून्यागारे समरसमज्ञः शुद्धविशुद्धं सततसमज्ञः ॥१॥
लक्ष्यालक्ष्यविवर्जितलक्ष्यो युक्तायुक्तविवर्जितदक्षः ॥
केवलतत्त्वनिरंतरपूतो वाद - विवादः कथमवधूतः ॥२॥
आशापाशविबंधनमुक्तः शौचाशौचविवर्जितयुक्तः ॥
एवं सर्वविवर्जितभोगी शुद्धनिरंजनसततं स योगी ॥३॥
श्रीदत्तात्रेय उवाच - कथमिह देही देहविचारः कथमिह रागी रागविचारः ॥
निर्मलनिश्वलगगनाकारं त्वहमिह तत्त्वं सहजाकारम् ॥४॥
गगनाकारनिरंतरहंसः तत्वःवितत्वंरहितोहंसः ॥
एवं कथमिह भिन्नविभिन्नं बंध - विबंधविकारविहिनं ॥५॥
वयमिह तत्त्वं विंदति यत्र रूप - विरूपं कथमिह तत्र ॥
गगनाकारं परमं यत्र विषयी करणं कथमिह तत्र ॥६॥
केवलतत्त्वनिरंतरसर्वे योगात्कथमिह गर्वं सत्यम् ॥
सत्यं संसारसारमसारमेवं कथमिह सारासारम् ॥७॥
केवलतत्त्वनिरंतरबुद्धं गगनाकारनिरंतरशुद्धम् ॥
एवं कथमिह संगविसंगं सत्यं कथमिह रंगविरंगम ॥८॥
योग - वियोगं रहितो योगी भोगविभोगो रहितो भोगी ॥
संततसर्वविवर्जितमुक्तः संततसर्वविवर्जितयुक्तः ॥९॥
एवं कथमिह जीवितमरणं ध्यानाध्याने कथमिह करणम् ॥१०॥
इंद्रजालमिदं सर्वं यथा मरुमरीचिका ॥
अखंडितमनाकारं वर्तते केवलः शिवः ॥११॥
धर्मादिमोक्षपर्यंतं निरीहाः सर्वथा वयमा ॥
कथं राग - विरागं च कल्पयंती विपश्चितः ॥१२॥
विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥
समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥१३॥
ॐ तत्सदिति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु निरंजनविद्यायां
श्रीदत्त - गोरक्षकसंवादे महानिर्वाणनिरूपणं नाम षष्ठोध्यायः ॥६॥