श्रीगणेशाय नमः ॥ सगुणगुणविभागं वर्तते नैव किंचित्समरसमविभागं सर्वथा नैव किंचित् ॥
इति विरतिविहीतं निर्मलं निष्प्रपंचं कथमिह खलु वंदे व्योमरूपं शिवं वै ॥१॥
श्वेतादिवर्णरहितास्तव यं शिवश्व कार्यं च कारणमिदं हि वयं शिवश्व ॥
एवं विकल्परहितास्तव यं च ह्यात्मा आत्मानमात्मनि च मित्र कथं वदामि ॥२॥
निर्मूल मूलरहितो हि सदोदितोहं निर्धूमधूमरहितो हि सदोदितोऽहं ॥
संदीप्त्यदीप्तिरहितो हि सदोदितोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥३॥
निष्कारकाममिह नाम कथं वदामि निःसंगसंगमिह नाम कथं वदामि ॥
अव्यक्तव्यक्तमिह नाम कथं वदामि ज्ञानामृतं समरसं गगनोपमोहम् ॥४॥
अद्वैतरूपमखिलं हि कथं वदामि द्वैतस्वरूपमखिलं हि कथं वदामि ॥
अनित्य - नित्यमखिलं हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोहम् ॥५॥
स्थूलं हि नो न च कृशं नगतागतं हि चाद्यं च मध्यरहितो नपरापरं हि ॥
सत्यं वदामि खलु वै परमार्थतत्त्वं ज्ञाना० ॥६॥
संवित्धि सर्वकरणानि नभो नभांसि संवित्धि सर्वविषयश्व नभोनभश्व ॥
संवित्धि चैकममलं नहि बत्धमुक्तिः ज्ञानामृ० ॥७॥
दुर्बोधबोधगहनो नभवामि तात दुर्लक्ष्यलक्ष्यगहनो नभवामि तात ॥
आसन्नादुर्गगहनो नभवामि तात ज्ञाना० ॥८॥
निष्कर्मकर्मगहनोज्वलनो भवामि निर्दुःखदुःखदहनोज्वलनो भवामि ॥
निर्देहदेहदहनोज्वलनो भावामि ज्ञाना० ॥९॥
निष्पापपापदहने हि हुताशनोहं निर्धर्मधर्मदहने हि हुताशनोहम ॥
निर्बंधबंधदहने हि हुताशनोहं ज्ञा० ॥१०॥
निःशून्यशून्यगगने हि हुताशनोहं आत्मस्वरूपगगने हि हुताशनोहम् ॥
एवं हुताशनगुणस्य हुताशनोहं ज्ञाना० ॥११॥
निर्भावभावरहितो नभवामि वत्स निश्वित्तचित्तरहितो नभवामि वत्स ॥
निर्योगयोगरहितो नभवामि वत्स ज्ञाना० ॥१२॥
निर्मोहमोहपदवीति न मे विकल्पो निःशोकशोकपदवीति न मे विकल्पः ॥
निर्लोभलोभपदवीति न मे विकल्पो ज्ञानामृ० ॥१३॥
संसारसंततिलता न च मे कदाचित्तापस्य शांतिमसुखं न च मे कदाचित् ॥
अज्ञानबंधनमिदं न च मे कदाचिज्ञ्ज्ञानामृतं० ॥१४॥
संसारसंसृतिरजो न च मे विकारः संसारसंततितमो न च मे विकारः ॥
सत्त्वं स्वधर्मजनकं न च मे विकारो ज्ञानामृतं स० ॥१५॥
संसारदुःखजनकं न च मे कदाचित्संतापमोहजनिता नच मे कदाचित् ॥
यस्मादहंकृतिपरं नच मे कदाचिज्ञ्ज्ञानामृतं स० ॥१६॥
निष्कंपकंपनिधनं सविकल्पकल्पं स्वप्नप्रबोधनिधनं नदिवं न नक्तम् ॥
निःसारसारनिधनं नचराचरं हि ज्ञानामृतं समर० ॥१७॥
नो वेद्यवेदकमिदं नच हेतुकर्ता वाचामगोचरमिदं न मनो न बुद्धिः ॥
एवं कथं हि भवतां कथयामि तत्त्वम् ज्ञानामृतं० ॥१८॥
निर्भिन्नभिन्नरहितं परमैकतत्त्वं अंतादिमध्यरहितं परमैकतत्त्वम् ॥
एवं कथं हि उचितं परमार्थतत्त्वं ज्ञानामृतं स० ॥१९॥
यद्वा समग्रसहजं स्वयमेव सर्वमंतर्बहिः किल कथं परमार्थतत्त्वम् ॥
यस्मादहो परतरं न हि वस्तु किंचिज्ञ्ज्ञानामृ० ॥२०॥
रागादिदोषरहितं त्वहमेव तत्त्वं संसारशोकरहितं त्वहमेव तत्त्वम् ॥
देहादिदुः खरहितं त्वहमेव तत्त्वं ज्ञानामृतं० ॥२१॥
स्थानत्रयं यदि च नेति कथं तुरीयं कालत्रयादि न च नेति कथं दिशश्व ॥
शांतं परं यदि ध्रुवं परमार्थतत्त्वं ज्ञानामृतं० ॥२२॥
दिर्घो लघुः पुनरतीह मनोविभागः कोणं च वर्तुळमितीह मनोविभागम् ॥
विस्तारसंघटमितीह मनोविभागो ज्ञानामृतं० ॥२३॥
माता पिता च तनयादि न मे कदाचिद्नर्भं च मृत्यु - मनसो न च मे कदाचित् ॥
निर्व्याकुलस्थिरपरं परमार्थतत्त्वं ज्ञानामृतं ॥२४॥
निःशुद्धसर्वमविचारमनंतरूपं निर्लेपलेपनविचारमतर्करूपम् ॥
निर्नादनादमविचारमगाधरूपं ज्ञानामृतं० ॥२५॥
उच्चारमात्रमपि ते नहि नाममात्र्म निर्भिन्नभिन्नमभि ते नहि रूपमात्रम् ॥
निर्लज्ज मानस करोषि कथं विलापं ज्ञानामृतं० ॥२६॥
ब्रह्मादयः सुरगणाः कथमत्र संति स्वर्गादयो वसतयः कथमत्र संति ॥
यद्येकरूपममलं परमार्थतत्त्वं ज्ञानामृतं स० ॥२७॥
निष्कर्मकर्मसततं तु कथं करोमि निःसंगसंगरहितं परमं विनोदम् ॥
निःसत्यसत्यरहितं सततं बलोहं ज्ञानामृतं समरसं गगनोपमोहम् ॥२८॥
मायाप्रपंचरचना न च मे विकाराः कौटिल्य - दंभवचना न च मे विकारः ॥
सत्याद्यसत्यरचना न च मे विकारो ज्ञानामृतं समरसं० ॥२९॥
वितर्क - तर्कमिह तात न मे विभाति वीतर्क - तर्क्यमिह तात न मे विभाति ॥
शून्यस्य शून्यमिह तात न मे विभाति ज्ञानामृतं स० ॥३०॥
आलंबहीनमखिलं च निरामयं च विज्ञानरूपमखिलं दमनादिहीनम ॥
संसिद्धि - शांतिमचलं ननु पूर्ण - पूर्णं ज्ञानामृतं० ॥३१॥
सत्यं वदामि विरजावचनैकजातं सत्यं वदामि सरजावचनैकजातम् ॥
सत्यं कथं हि सततं च सितासितौ नो ज्ञाना०॥३२॥
संध्यादिकालरहितं नवियोगयोगं ज्ञानं प्रबोधरहितं नबधीर - मूकम् ॥
एवं विकल्परहितं निजभावशुद्धं ज्ञानामृतं० ॥३३॥
धर्मादिकं तव पदं हि कथं वदामि संवित्यसंशयपदं हि कथं वदामि ॥
एवं निरंजनसमं हि निरंतरं हि ज्ञानामृतं० ॥३४॥
निर्नाथनाथविगतं हि निराकुलं वै निश्वित्तचित्तविगतं हि निराकुलं वै ॥
निर्भावभावरहितं हि निराकुलं वै ज्ञानामृतं० ॥३५॥
किं काननं ग्रहमिदं हि कथं वदंति संविद्धि संशयममू हि कथं वदंति ॥
एवं निरंतरसमं हि निरंजनं वै ज्ञानामृतं० ॥३६॥
निर्जीव - जीवरहितं सततं विभाति सज्जीव - जीवरहितं सततं विभाति ॥
निर्बीज - बीजरहितं सततं विभाति ज्ञानामृ० ॥३७॥
संभूतिवर्जितमिदं सततं विभाति संसारवर्जितमिदं सततं विभाति ॥
संसारवर्जितमिदं सततं विभाति ज्ञानामृतं० ॥३८॥
किन्नामरोदसि सखे नशुभाशुभानि किन्नाम रोदसि सखे न च जन्म - मृत्युः ॥
किन्नाम रोदसि सखे न च ते विशोको ज्ञानामृतं स० ॥३९॥
किन्नाम रोदसि सखे न च ते नयांसि किन्नाम रोदसि सखे न च तेंद्रियाणि ॥
किन्नाम रोदसि सखे न च ते मनस्त्वं ज्ञानामृतं ॥४०॥
किन्नाम रोदसि सखे न च तेऽस्ति कामः किन्नाम रोदसि सखे न च ते प्रकोपः ॥
किन्नाम रोदसि सखे न च तेऽस्ति मोहो ज्ञानामृतं० ॥४१॥
ऐश्वर्यमिच्छसि कथं न च ते धमानि ऐश्वर्यमिच्छसि कथं न च ते प्रयत्नः ॥
ऐश्वर्यमिच्छसि कथं न च ते ममेति ज्ञानामृतं० ॥४२॥
देहत्रयं न तु च मित्र न ते न मे च निर्भेदभेदमिह मित्र न ते न मे च ॥
निर्मज्य मानस विनश्य कथं विभिन्नः ज्ञानामृतं० ॥४३॥
नोचाणुमात्रमपि ते हि विरागरूपं नोचाणुमात्रमपि ते हि सरागरूपम् ॥
नोचाणुमात्रमपि ते हि विरागरूपं ज्ञानामृतं० ॥४४॥
ध्याता न तेषु त्द्ददये च न ते समाधिर्ध्येयं न तेषु त्द्ददये च न ते हि देशः ॥
ध्यानं न तेषु त्द्ददये च न तेऽस्ति लोको ज्ञानामृतं० ॥ ४५॥
कांतारध्वांतवदिमं हि कथं वंदति संचिंत्य संशयमिदं हि कथं वदंति ॥
एइं निरंतरसमं हि निरंजनं हि ज्ञामामृतं० ॥४६॥
यत्सारभूतममलं कथितं मया ते तत्त्वं हि नाहमिह भावगुरुर्नशिष्यः ॥
स्वच्छः स्वरूपममलं परमार्थतत्त्वं ज्ञानामृतं० ॥४७॥
कथमिह परमार्थतत्त्वमानंदरूपं कथमिह परमार्थतत्त्वमक्षस्वरूपम् ॥
कथमिह परमार्थतत्त्वविज्ञानरूपं ज्ञानामृतं० ॥४८॥
दहनपवनहीनं विद्धि विज्ञानमेकं धरणिजलविहिनम् ज्ञानविज्ञानमेकम् ॥
सकलगगनहीनं विद्धि विज्ञानमेकं ज्ञानामृतं० ॥४९॥
निश्विंतरूपं नविशून्यरूपं नशुद्धरूपं नविशुत्धरूपम् ॥ रू
पं विरूपं नभवामि किंचित्स्वच्छैकरूपं परमार्थतत्त्वम् ॥५०॥
मुंच मुंचनिसन्नानि त्यागं मुंच शिवं वद ॥
त्यागात्यागविषं मुंच अमृतत्त्वं विषायते ॥५१॥
द्दश्याद्दश्यपरं द्दश्यमृतामृतपरं श्रृणु ॥
शब्दाशब्दपरं वेद वेदावेदपरं सदा ॥५२॥
विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥
समरसमज्ञो भावितपुंसः प्रभवति तत्त्वं परमवधूतः ॥५३॥
ॐ तत्सदिति श्रीमद्दत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरंजनविद्यायां
द त्ता - गोरक्षकसंवादे द्वैताद्वैतनिरूपणंनाम द्वितीयोध्यायः ॥२॥
श्रीदत्तात्रेयार्पणमस्तु ॥