सूत्रस्थान - अध्याय ०७
आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.
राजा राज-गृहासन्ने प्राणाचार्यं निवेशयेत् ।
सर्व-दा स भवत्य् एवं सर्व-त्र प्रतिजागृविः ॥१॥
अन्न-पानं विषाद् रक्षेद् विशेषेण मही-पतेः ।
योग-क्षेमौ तद्-आयत्तौ धर्माद्या यन्-निबन्धनाः ॥२॥
७.२ - धर्माद्यास् तन्-निबन्धनाः ओदनो विष-वान् सान्द्रो यात्य् अ-विस्राव्य-ताम् इव ।
चिरेण पच्यते पक्वो भवेत् पर्युषितोपमः ॥३॥
मयूर-कण्ठ-तुल्योष्मा मोह-मूर्छा-प्रसेक-कृत् ।
हीयते वर्ण-गन्धाद्यैः क्लिद्यते चन्द्रिका-चितः ॥४॥
७.४ - क्लिद्यते चन्द्रिकान्वितः ७.४ - क्लिद्यते चन्द्रकाचितः ७.४ - क्लिद्यते चन्द्रकान्वितः व्यञ्जनान्य् आशु शुष्यन्ति ध्याम-क्वाथानि तत्र च ।
हीनातिरिक्ता विकृता छाया दृश्येत नैव वा ॥५॥
७.५ - छाया दृश्येत वा न वा फेनोर्ध्व-राजि-सीमन्त-तन्तु-बुद्बुद-संभवः ।
विच्छिन्न-वि-रसाः रागाः खाण्डवाः शाकम् आमिषम् ॥६॥
७.६ - विच्छिन्न-वि-रसा राग- ७.६ - विच्छिन्ना वि-रसा रागाः ७.६ - खाण्डवाः शाकम् आमिषम् नीला राजी रसे ताम्रा क्षीरे दधनि दृश्यते ।
श्यावा-पीतासिता तक्रे घृते पानीय-संनिभा ॥७॥
७.७ - क्षीरे दध्नि च दृश्यते मस्तुनि स्यात् कपोताभा राजी कृष्णा तुषोदके ।
काली मद्याम्भसोः क्षौद्रे हरित् तैले ऽरुणोपमा ॥८॥
पाकः फलानाम् आमानां पक्वानां परिकोथनम् ।
द्रव्याणाम् आर्द्र-शुष्काणां स्यातां म्लानि-विवर्ण-ते ॥९॥
मृदूनां कठिनानां च भवेत् स्पर्श-विपर्ययः ।
माल्यस्य स्फुटिताग्र-त्वं म्लानिर् गन्धान्तरोद्भवः ॥१०॥
७.१० - माल्यानां स्फुटिताग्र-त्वं ७.१० - ग्लानिर् गन्धान्तरोद्भवः ७.१० - म्लानि-गन्धान्तरोद्भवः ध्याम-मण्डल-ता वस्त्रे शदनं तन्तु-पक्ष्मणाम् ।
धातु-मौक्तिक-काष्ठाश्म-रत्नादिषु मलाक्त-ता ॥११॥
७.११ - शातनं तन्तु-पक्ष्मणाम् स्नेह-स्पर्श-प्रभा-हानिः स-प्रभ-त्वं तु मृन्-मये ।
विष-दः श्याव-शुष्कास्यो वि-लक्षो वीक्षते दिशः ॥१२॥
स्वेद-वेपथु-मांस् त्रस्तो भीतः स्खलति जृम्भते ।
प्राप्यान्नं स-विषं त्व् अग्निर् एकावर्तः स्फुटत्य् अति ॥१३॥
७.१३ - एकावर्तः स्फुटत्य् अपि शिखि-कण्ठाभ-धूमार्चिर् अन्-अर्चिर् वोग्र-गन्ध-वान् ।
म्रियन्ते मक्षिकाः प्राश्य काकः क्षाम-स्वरो भवेत् ॥१४॥
उत्क्रोशन्ति च दृष्ट्वैतच् छुक-दात्यूह-सारिकाः ।
हंसः प्रस्खलति ग्लानिर् जीवञ्जीवस्य जायते ॥१५॥
चकोरस्याक्षि-वैराग्यं क्रौञ्चस्य स्यान् मदोदयः ।
कपोत-परभृद्-दक्ष-चक्रवाका जहत्य् असून् ॥१६॥
उद्वेगं याति मार्जारः शकृन् मुञ्चति वानरः ।
हृष्येन् मयूरस् तद्-दृष्ट्या मन्द-तेजो भवेद् विषम् ॥१७॥
७.१७ - उद्वेजयति मार्जारः ७.१७ - हृष्येन् मयूरस् तद् दृष्ट्वा इत्य् अन्नं विष-वज् ज्ञात्वा त्यजेद् एवं प्रयत्नतः ।
यथा तेन विपद्येरन्न् अपि न क्षुद्र-जन्तवः ॥१८॥
७.१८ - इत्य् अन्नं स-विषं ज्ञात्वा ७.१८ - त्यजेद् एव प्रयत्नतः स्पृष्टे तु कण्डू-दाहोषा-ज्वरार्ति-स्फोट-सुप्तयः ।
नख-रोम-च्युतिः शोफः सेकाद्या विष-नाशनाः ॥१९॥
शस्तास् तत्र प्रलेपाश् च सेव्य-चन्दन-पद्मकैः ।
स-सोमवल्क-तालीश-पत्त्र-कुष्ठामृता-नतैः ॥२०॥
लाला जिह्वौष्ठयोर् जाड्यम् ऊषा चिमिचिमायनम् ।
दन्त-हर्षो रसा-ज्ञ-त्वं हनु-स्तम्भश् च वक्त्र-गे ॥२१॥
७.२१ - लाला जिह्वौष्ठयोर् जाड्यं ७.२१ - मुखे चिमिचिमायनम् सेव्याद्यैस् तत्र गण्डूषाः सर्वं च विष-जिद् धितम् ।
आमाशय-गते स्वेद-मूर्छाध्मान-मद-भ्रमाः ॥२२॥
रोम-हर्षो वमिर् दाहश् चक्षुर्-हृदय-रोधनम् ।
बिन्दुभिश् चाचयो ऽङ्गानां पक्वाशय-गते पुनः ॥२३॥
अनेक-वर्णं वमति मूत्रयत्य् अतिसार्यते ।
तन्द्रा कृश-त्वं पाण्डु-त्वम् उदरं बल-संक्षयः ॥२४॥
तयोर् वान्त-विरिक्तस्य हरिद्रे कटभीं गुडम् ।
सिन्धुवारित-निष्पाव-बाष्पिका-शतपर्विकाः ॥२५॥
तण्डुलीयक-मूलानि कुक्कुटाण्डम् अवल्गुजम् ।
नावनाञ्जन-पानेषु योजयेद् विष-शान्तये ॥२६॥
विष-भुक्ताय दद्याच् च शुद्धायोर्ध्वम् अधस् तथा ।
सूक्ष्मं ताम्र-रजः काले स-क्षौद्रं हृद्-विशोधनम् ॥२७॥
शुद्धे हृदि ततः शाणं हेम-चूर्णस्य दापयेत् ।
न सज्जते हेम-पाङ्गे पद्म-पत्त्रे ऽम्बु-वद् विषम् ॥२८॥
जायते विपुलं चायुर् गरे ऽप्य् एष विधिः स्मृतः ।
विरुद्धम् अपि चाहारं विद्याद् विष-गरोपमम् ॥२९॥
७.२९ - विद्याद् गर-विषोपमम् आनूपम् आमिषं माष-क्षौद्र-क्षीर-विरूढकैः ।
विरुध्यते सह बिसैर् मूलकेन गुडेन वा ॥३०॥
विशेषात् पयसा मत्स्या मत्स्येष्व् अपि चिलीचिमः ।
विरुद्धम् अम्लं पयसा सह सर्वं फलं तथा ॥३१॥
तद्-वत् कुलत्थ-चणक-कङ्गु-वल्ल-मकुष्टकाः ।
भक्षयित्वा हरितकं मूलकादि पयस् त्यजेत् ॥३२॥
७.३२ - तद्-वत् कुलत्थ-वरक- ७.३२ - भक्षयित्वा हरित्-कन्द- ७.३२ - मूलकादि पयस् त्यजेत् वाराहं श्वाविधा नाद्याद् दध्ना पृषत-कुक्कुटौ ।
आम-मांसानि पित्तेन माष-सूपेन मूलकम् ॥३३॥
७.३३ - वराहं श्वाविधा नाद्याद् अविं कुसुम्भ-शाकेन बिसैः सह विरूढकम् ।
माष-सूप-गुड-क्षीर-दध्य्-आज्यैर् लाकुचं फलम् ॥३४॥
फलं कदल्यास् तक्रेण दध्ना ताल-फलेन वा ।
कणोषणाभ्यां मधुना काकमाचीं गुडेन वा ॥३५॥
सिद्धां वा मत्स्य-पचने पचने नागरस्य वा ।
सिद्धाम् अन्य-त्र वा पात्रे कामात् ताम् उषितां निशाम् ॥३६॥
७.३६ - पचने नागरस्य च ७.३६ - कामात् ताम् उषितां निशि ७.३६ - कपोताम् उषितां निशाम् ७.३६ - नाद्यात् ताम् उषितां निशाम् ७.३६ - कामाताम् उषितां निशाम् ७.३६ - कामाचीम् उषितां निशाम् मत्स्य-निस्तलन-स्नेहे साधिताः पिप्पलीस् त्यजेत् ।
कांस्ये दशाहम् उषितं सर्पिर् उष्णं त्व् अरुष्करे ॥३७॥
७.३७ - मत्स्य-निस्तलन-स्नेह- ७.३७ - साधिताः पिप्पलीस् त्यजेत् ७.३७ - सर्पिर् उष्णं त्व् अरुष्करैः भासो विरुध्यते शूल्यः कम्पिल्लस् तक्र-साधितः ।
ऐकध्यं पायस-सुरा-कृशराः परिवर्जयेत् ॥३८॥
मधु-सर्पिर्-वसा-तैल-पानीयानि द्वि-शश् त्रि-शः ।
एक-त्र वा समांशानि विरुध्यन्ते परस्-परम् ॥३९॥
भिन्नांशे अपि मध्व्-आज्ये दिव्य-वार्य् अनु-पानतः ।
मधु-पुष्कर-बीजं च मधु-मैरेय-शार्करम् ॥४०॥
मन्थानु-पानः क्षैरेयो हारिद्रः कटु-तैल-वान् ।
उपोदकातिसाराय तिल-कल्केन साधिता ॥४१॥
बलाका वारुणी-युक्ता कुल्माषैश् च विरुध्यते ।
भृष्टा वराह-वसया सैव सद्यो निहन्त्य् असून् ॥४२॥
तद्-वत् तित्तिरि-पत्त्राढ्य-गोधा-लाव-कपिञ्जलाः ।
ऐरण्डेनाग्निना सिद्धास् तत्-तैलेन विमूर्छिताः ॥४३॥
हारीत-मांसं हारिद्र-शूलक-प्रोत-पाचितम् ।
हरिद्रा-वह्निना सद्यो व्यापादयति जीवितम् ॥४४॥
७.४४ - हारिद्र-वह्निना सद्यो भस्म-पांसु-परिध्वस्तं तद् एव च स-माक्षिकम् ।
यत् किञ्-चिद् दोषम् उत्क्लेश्य न हरेत् तत् समासतः ॥४५॥
विरुद्धं शुद्धिर् अत्रेष्टा शमो वा तद्-विरोधिभिः ।
द्रव्यैस् तैर् एव वा पूर्वं शरीरस्याभिसंस्कृतिः ॥४६॥
व्यायाम-स्निग्ध-दीप्ताग्नि-वयः-स्थ-बल-शालिनाम् ।
विरोध्य् अपि न पीडायै सात्म्यम् अल्पं च भोजनम् ॥४७॥
७.४७ - व्यायामि-स्निग्ध-दीप्ताग्नि- पादेना-पथ्यम् अभ्यस्तं पाद-पादेन वा त्यजेत् ।
निषेवेत हितं तद्-वद् एक-द्वि-त्र्य्-अन्तरी-कृतम् ॥४८॥
अ-पथ्यम् अपि हि त्यक्तं शीलितं पथ्यम् एव वा ।
सात्म्या-सात्म्य-विकाराय जायते सहसान्य-था ॥४९॥
७.४९ - सात्म्या-सात्म्यं विकाराय क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः ।
सन्तो यान्त्य् अ-पुनर्-भावम् अ-प्रकम्प्या भवन्ति च ॥५०॥
७.५० - नाप्नुवन्ति पुनर्-भावम् अत्य्-अन्त-संनिधानानां दोषाणां दूषणात्मनाम् ।
अ-हितैर् दूषणं भूयो न विद्वान् कर्तुम् अर्हति ॥५१॥
आहार-शयना-ब्रह्म-चर्यैर् युक्त्या प्रयोजितैः ।
शरीरं धार्यते नित्यम् आगारम् इव धारणैः ॥५२॥
७.५२ - चर्यैर् युक्त्या निषेवितैः आहारो वर्णितस् तत्र तत्र तत्र च वक्ष्यते ।
निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बला-बलम् ॥५३॥
७.५३ - तत्र तत्र च लक्ष्यते वृष-ता क्लीब-ता ज्ञानम् अ-ज्ञानं जीवितं न च ।
अ-काले ऽति-प्रसङ्गाच् च न च निद्रा निषेविता ॥५४॥
सुखायुषी पराकुर्यात् काल-रात्रिर् इवापरा ।
रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा ॥५५॥
अ-रूक्षम् अन्-अभिष्यन्दि त्व् आसीन-प्रचलायितम् ।
ग्रीष्मे वायु-चयादान-रौक्ष्य-रात्र्य्-अल्प-भावतः ॥५६॥
७.५६ - ग्रीष्मे वात-चयादान- दिवा-स्वप्नो हितो ऽन्यस्मिन् कफ-पित्त-करो हि सः ।
मुक्त्वा तु भाष्य-यानाध्व-मद्य-स्त्री-भार-कर्मभिः ॥५७॥
क्रोध-शोक-भयैः क्लान्तान् श्वास-हिध्मातिसारिणः ।
वृद्ध-बाला-बल-क्षीण-क्षत-तृट्-शूल-पीडितान् ॥५८॥
७.५८ - क्षुत्-तृट्-शूल-निपीडितान् अ-जीर्ण्य्-अभिहतोन्मत्तान् दिवा-स्वप्नोचितान् अपि ।
धातु-साम्यं तथा ह्य् एषां श्लेष्मा चाङ्गानि पुष्यति ॥५९॥
७.५९ - अ-जीर्णाभिहतोन्मत्तान् बहु-मेदः-कफाः स्वप्युः स्नेह-नित्याश् च नाहनि ।
विषार्तः कण्ठ-रोगी च नैव जातु निशास्व् अपि ॥६०॥
अ-काल-शयनान् मोह-ज्वर-स्तैमित्य-पीनसाः ।
शिरो-रुक्-शोफ-हृल्-लास-स्रोतो-रोधाग्नि-मन्द-ताः ॥६१॥
तत्रोपवास-वमन-स्वेद-नावनम् औषधम् ।
योजयेद् अति-निद्रायां तीक्ष्णं प्रच्छर्दनाञ्जनम् ॥६२॥
नावनं लङ्घनं चिन्तां व्यवायं शोक-भी-क्रुधः ।
एभिर् एव च निद्राया नाशः श्लेष्माति-संक्षयात् ॥६३॥
निद्रा-नाशाद् अङ्ग-मर्द-शिरो-गौरव-जृम्भिकाः ।
जाड्य-ग्लानि-भ्रमा-पक्ति-तन्द्रा रोगाश् च वात-जाः ॥६४॥
७.६४ - जाड्यं ग्लानि-भ्रमा-पक्ति- कफो ऽल्पो वायुनोद्धूतो धमनीः संनिरुध्य तु ।
कुर्यात् संज्ञापहां तन्द्रां दारुणां मोह-कारिणीम् ॥६४-१॥
उन्मीलित-विनिर्भुग्ने परिवर्तित-तारके ।
भवतस् तत्र नयने स्रुते लुलित-पक्ष्मणी ॥६४-२॥
अर्ध-त्रि-रात्रात् सा साध्या न सा साध्या ततः परम् ॥६४-३अब् ॥
यथा-कालम् अतो निद्रां रात्रौ सेवेत सात्म्यतः ।
अ-सात्म्याज् जागराद् अर्धं प्रातः स्वप्याद् अ-भुक्त-वान् ॥६५॥
७.६५ - अ-सात्म्य-जागराद् अर्धं शीलयेन् मन्द-निद्रस् तु क्षीर-मद्य-रसान् दधि ।
अभ्यङ्गोद्वर्तन-स्नान-मूर्ध-कर्णाक्षि-तर्पणम् ॥६६॥
कान्ता-बाहु-लताश्लेषो निर्वृतिः कृत-कृत्य-ता ।
मनो-ऽनुकूला विषयाः कामं निद्रा-सुख-प्रदाः ॥६७॥
ब्रह्म-चर्य-रतेर् ग्राम्य-सुख-निः-स्पृह-चेतसः ।
निद्रा संतोष-तृप्तस्य स्वं कालं नातिवर्तते ॥६८॥
ग्राम्य-धर्मे त्यजेन् नारीम् अन्-उत्तानां रजस्वलाम् ।
अ-प्रियाम् अ-प्रियाचारां दुष्ट-संकीर्ण-मेहनाम् ॥६९॥
अति-स्थूल-कृशाम् सूतां गर्भिणीम् अन्य-योषितम् ।
वर्णिनीम् अन्य-योनिं च गुरु-देव-नृपालयम् ॥७०॥
७.७० - गर्भिणीम् अन्य-योषिताम् चैत्य-श्मशानायतन-चत्वराम्बु-चतुष्-पथम् ।
पर्वाण्य् अन्-अङ्गं दिवसं शिरो-हृदय-ताडनम् ॥७१॥
अत्य्-आशितो ऽ-धृतिः क्षुद्-वान् दुः-स्थिताङ्गः पिपासितः ।
बालो वृद्धो ऽन्य-वेगार्तस् त्यजेद् रोगी च मैथुनम् ॥७२॥
सेवेत कामतः कामं तृप्तो वाजी-कृताम् हिमे ।
त्र्य्-अहाद् वसन्त-शरदोः पक्षाद् वर्षा-निदाघयोः ॥७३॥
७.७३ - तृप्तो वाजी-करैर् हिमे ७.७३ - तृप्तो वाजी-कृतैर् हिमे ७.७३ - द्व्य्-अहाद् वसन्त-शरदोः ७.७३ - पक्षाद् वृष्टि-निदाघयोः भ्रम-क्लमोरु-दौर्बल्य-बल-धात्व्-इन्द्रिय-क्षयाः ।
अ-पर्व-मरणं च स्याद् अन्य-था गच्छतः स्त्रियम् ॥७४॥
७.७४ - भ्रम-क्लमोरु-दौर्बल्यं ७.७४ - बल-धात्व्-इन्द्रिय-क्षयः स्मृति-मेधायुर्-आरोग्य-पुष्टीन्द्रिय-यशो-बलैः ।
अधिका मन्द-जरसो भवन्ति स्त्रीषु संयताः ॥७५॥
७.७५ - भवन्ति स्त्रीषु संयुताः स्नानानुलेपन-हिमानिल-खण्ड-खाद्य-शीताम्बु-दुग्ध-रस-यूष-सुरा-प्रसन्नाः ।
सेवेत चानु शयनं विरतौ रतस्य तस्यैवम् आशु वपुषः पुनर् एति धाम ॥७६॥
श्रुत-चरित-समृद्धे कर्म-दक्षे दयालौ भिषजि निर्-अनुबन्धं देह-रक्षां निवेश्य । भवति विपुल-तेजः-स्वास्थ्य-कीर्ति-प्रभावः स्व-कुशल-फल-भोगी भूमि-पालश् चिरायुः ॥७७॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP