सूत्रस्थान - अध्याय २५

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


नाना-विधानां शल्यानां नाना-देश-प्रबोधिनाम् ।
आहर्तुम् अभ्युपायो यस् तद् यन्त्रं यच् च दर्शने ॥१॥

२५.१ - नाना-देश-विबाधिनाम् अर्शो-भगन्दरादीनां शस्त्र-क्षाराग्नि-योजने ।
शेषाङ्ग-परिरक्षायां तथा वस्त्य्-आदि-कर्मणि ॥२॥

घटिकालाबु-शृङ्गं च जाम्बवौष्ठादिकानि च ।
अनेक-रूप-कार्याणि यन्त्राणि विविधान्य् अतः ॥३॥

विकल्प्य कल्पयेत् बुद्ध्या यथा-स्थूलं तु वक्ष्यते ।
तुल्यानि कङ्क-सिंहर्क्ष-काकादि-मृग-पक्षिणाम् ॥४॥

मुखैर् मुखानि यन्त्राणां कुर्यात् तत्-संज्ञकानि च ।
अष्टा-दशाङ्गुलायामान्य् आयसानि च भूरि-शः ॥५॥

मसूराकार-पर्य्-अन्तैः कण्ठे बद्धानि कीलकैः ।
विद्यात् स्वस्तिक-यन्त्राणि मूले ऽङ्कुश-नतानि च ॥६॥

२५.६ - मूले ऽङ्कुश-निभानि च तैर् दृढैर् अस्थि-संलग्न-शल्याहरणम् इष्यते ।
कील-बद्ध-विमुक्ताग्रौ संदंशौ षो-डशाङ्गुलौ ॥७॥

त्वक्-सिरा-स्नायु-पिशित-लग्न-शल्यापकर्षणौ ।
षड्-अङ्गुलो ऽन्यो हरणे सूक्ष्म-शल्योप-पक्ष्मणाम् ॥८॥

मुचुण्डी सूक्ष्म-दन्तर्जुर् मूले रुचक-भूषणा ।
गम्भीर-व्रण-मांसानाम् अर्मणः शेषितस्य च ॥९॥

२५.९ - मुचुटी सूक्ष्म-दन्तर्जुर् द्वे द्वा-दशाङ्गुले मत्स्य-ताल-वत् द्व्य्-एक-तालके ।
ताल-यन्त्रे स्मृते कर्ण-नाडी-शल्यापहारिणी ॥१०॥

२५.१० - तालु-वत् द्व्य्-एक-तालुके २५.१० - तालु-यन्त्रे स्मृते कर्ण- २५.१० - नाडी-शल्यापहारणे २५.१० - नाडी-शल्यापकर्षणी नाडी-यन्त्राणि सुषिराण्य् एकानेक-मुखानि च ।
स्रोतो-गतानां शल्यानाम् आमयानां च दर्शने ॥११॥

२५.११ - एकानेक-मुखानि तु क्रियाणां सु-कर-त्वाय कुर्याद् आचूषणाय च ।
तद्-विस्तार-परीणाह-दैर्घ्यं स्रोतो-ऽनुरोधतः ॥१२॥

दशाङ्गुलार्ध-नाहान्तः-कण्ठ-शल्यावलोकिनी ।
नाडी पञ्च-मुख-च्छिद्रा चतुष्-कर्णस्य संग्रहे ॥१३॥

२५.१३ - कण्ठ-शल्यावलोकने वारङ्गस्य द्वि-कर्णस्य त्रि-च्छिद्रा तत्-प्रमाणतः ।
वारङ्ग-कर्ण-संस्थानानाह-दैर्घ्यानुरोधतः ॥१४॥

नाडीर् एवं-विधाश् चान्या द्रष्टुं शल्यानि कारयेत् ।
पद्म-कर्णिकया मूर्ध्नि सदृशी द्वा-दशाङ्गुला ॥१५॥

चतुर्थ-सुषिरा नाडी शल्य-निर्घातिनी मता ।
अर्शसां गो-स्तनाकारं यन्त्रकं चतुर्-अङ्गुलम् ॥१६॥

नाहे पञ्चाङ्गुलं पुंसां प्रमदानां षड्-अङ्गुलम् ।
द्वि-च्छिद्रं दर्शने व्याधेर् एक-च्छिद्रं तु कर्मणि ॥१७॥

मध्ये ऽस्य त्र्य्-अङ्गुलं छिद्रम् अङ्गुष्ठोदर-विस्तृतम् ।
अर्धाङ्गुलोच्छ्रितोद्वृत्त-कर्णिकं च तद्-ऊर्ध्वतः ॥१८॥

२५.१८ - कर्णिकं तु तद्-ऊर्ध्वतः शम्य्-आख्यं तादृग् अ-च्छिद्रं यन्त्रम् अर्शः-प्रपीडनम् ।
सर्व-थापनयेद् ओष्ठं छिद्राद् ऊर्ध्वं भगन्दरे ॥१९॥

घ्राणार्बुदार्शसाम् एक-च्छिद्रा नाड्य्-अङ्गुल-द्वया ।
प्रदेशिनी-परीणाहा स्याद् भगन्दर-यन्त्र-वत् ॥२०॥

अङ्गुली-त्राणकं दान्तं वार्क्षं वा चतुर्-अङ्गुलम् ।
द्वि-च्छिद्रं गो-स्तनाकारं तद्-वक्त्र-विवृतौ सुखम् ॥२१॥

योनि-व्रणेक्षणं मध्ये सुषिरं षो-डशाङ्गुलम् ।
मुद्रा-बद्धं चतुर्-भित्तम् अम्भो-ज-मुकुलाननम् ॥२२॥

२५.२२ - मुद्रा-बद्धं चतुर्-भिन्नम् २५.२२ - मुद्रा-बद्धं चतुष्-कोणम् चतुः-शलाकम् आक्रान्तं मूले तद् विकसेन् मुखे ।
यन्त्रे नाडी-व्रणाभ्यङ्ग-क्षालनाय षड्-अङ्गुले ॥२३॥

वस्ति-यन्त्राकृती मूले मुखे ऽङ्गुष्ठ-कलाय-खे ।
अग्रतो ऽ-कर्णिके मूले निबद्ध-मृदु-चर्मणी ॥२४॥

द्वि-द्वारा नलिका पिच्छ-नलिका वोदकोदरे ।
धूम-वस्त्य्-आदि-यन्त्राणि निर्दिष्टानि यथा-यथम् ॥२५॥

त्र्य्-अङ्गुलास्यं भवेच् छृङ्गं चूषणे ऽष्टा-दशाङ्गुलम् ।
अग्रे सिद्धार्थक-च्छिद्रं सु-नद्धं चूचुकाकृति ॥२६॥

स्याद् द्वा-दशाङ्गुलो ऽलाबुर् नाहे त्व् अष्टा-दशाङ्गुलः ।
चतुस्-त्र्य्-अङ्गुल-वृत्तास्यो दीप्तो ऽन्तः श्लेष्म-रक्त-हृत् ॥२७॥

तद्-वद् घटी हिता गुल्म-विलयोन्नमने च सा ।
शलाकाख्यानि यन्त्राणि नाना-कर्माकृतीनि च ॥२८॥

२५.२८ - नाना-कर्माकृतीनि तु यथा-योग-प्रमाणानि तेषाम् एषण-कर्मणी ।
उभे गण्डू-पद-मुखे स्रोतोभ्यः शल्य-हारिणी ॥२९॥

२५.२९ - तेषाम् एषण-कर्मणि मसूर-दल-वक्त्रे द्वे स्याताम् अष्ट-नवाङ्गुले ।
शङ्कवः षड् उभौ तेषां षो-डश-द्वा-दशाङ्गुलौ ॥३०॥

व्यूहने ऽहि-फणा-वक्त्रौ द्वौ दश-द्वा-दशाङ्गुलौ ।
चालने शर-पुङ्खास्याव् आहार्ये बडिशाकृती ॥३१॥

नतो ऽग्रे शङ्कुना तुल्यो गर्भ-शङ्कुर् इति स्मृतः ।
अष्टाङ्गुलायतस् तेन मूढ-गर्भं हरेत् स्त्रियाः ॥३२॥

अश्मर्य्-आहरणं सर्प-फणा-वद् वक्रम् अग्रतः ।
शर-पुङ्ख-मुखं दन्त-पातनं चतुर्-अङ्गुलम् ॥३३॥

२५.३३ - अश्मर्य्-आहरणे सर्प- २५.३३ - फणा-वद् वक्त्रम् अग्रतः कार्पास-विहितोष्णीषाः शलाकाः षट् प्रमार्जने ।
पायाव् आसन्न-दूरार्थे द्वे दश-द्वा-दशाङ्गुले ॥३४॥

द्वे षट्-सप्ताङ्गुले घ्राणे द्वे कर्णे ऽष्ट-नवाङ्गुले ।
कर्ण-शोधनम् अश्वत्थ-पत्त्र-प्रान्तं स्रुवाननम् ॥३५॥

शलाका-जाम्बवौष्ठानां क्षारे ऽग्नौ च पृथक् त्रयम् ।
युञ्ज्यात् स्थूलाणु-दीर्घाणां शलाकाम् अन्त्र-वर्ध्मनि ॥३६॥

मध्योर्ध्व-वृत्त-दण्डां च मूले चार्धेन्दु-संनिभाम् ।
कोलास्थि-दल-तुल्यास्या नासार्शो-ऽर्बुद-दाह-कृत् ॥३७॥

अष्टाङ्गुला निम्न-मुखास् तिस्रः क्षारौषध-क्रमे ।
कनीनी-मध्यमानामी-नख-मान-समैर् मुखैः ॥३८॥

२५.३८ - कनिष्ठा-मध्यमानामी- स्वं स्वम् उक्तानि यन्त्राणि मेढ्र-शुद्ध्य्-अञ्जनादिषु ।
अनु-यन्त्राण्य् अयस्-कान्त-रज्जू-वस्त्राश्म-मुद्गराः ॥३९॥

२५.३९ - अणु-यन्त्राण्य् अयस्-कान्त- वध्रान्त्र-जिह्वा-वालाश् च शाखा-नख-मुख-द्वि-जाः ।
कालः पाकः करः पादो भयं हर्षश् च तत्-क्रियाः ॥४०॥

२५.४० - वध्र्य्-अन्त्र-जिह्वा-वालाश् च २५.४० - वर्ध्रान्त्र-जिह्वा-वालाश् च २५.४० - शाखा-नख-मुख-द्वि-जाः उपाय-वित् प्रविभजेद् आलोच्य निपुणं धिया ॥४०ऊ̆अब् ॥
निर्घातनोन्मथन-पूरण-मार्ग-शुद्धि-संव्यूहनाहरण-बन्धन-पीडनानि ।
आचूषणोन्नमन-नामन-चाल-भङ्ग-व्यावर्तनर्जु-करणानि च यन्त्र-कर्म ॥४१ऊ̆ ॥
विवर्तते साध्व् अवगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात् ।
यन्त्रेष्व् अतः कङ्क-मुखं प्रधानं स्थानेषु सर्वेष्व् अधिकारि यच् च ॥४२ऊ̆ ॥
२५.४२ऊ̆अव् निवर्तते साध्व् अवगाहते च २५.४२ऊ̆द्व् स्थानेषु सर्वेष्व् अ-विकारि यच् च

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP