सूत्रस्थान - अध्याय ०९
आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.
द्रव्यम् एव रसादीनां श्रेष्ठं ते हि तद्-आश्रयाः ।
पञ्च-भूतात्मकं तत् तु क्ष्माम् अधिष्ठाय जायते ॥१॥
अम्बु-योन्य्-अग्नि-पवन-नभसाम् समवायतः ।
तन्-निर्वृत्तिर् विशेषश् च व्यपदेशस् तु भूयसा ॥२॥
९.२ - व्यपदेशश् च भूयसा तस्मान् नैक-रसं द्रव्यं भूत-संघात-संभवात् ।
नैक-दोषास् ततो रोगास् तत्र व्यक्तो रसः स्मृतः ॥३॥
९.३ - तन् नैक-भूत-जं द्रव्यं अ-व्यक्तो ऽनु-रसः किञ्-चिद् अन्ते व्यक्तो ऽपि चेष्यते ।
गुर्व्-आदयो गुणा द्रव्ये पृथिव्य्-आदौ रसाश्रये ॥४॥
रसेषु व्यपदिश्यन्ते साहचर्योपचारतः ।
तत्र द्रव्यं गुरु-स्थूल-स्थिर-गन्ध-गुणोल्बणम् ॥५॥
पार्थिवं गौरव-स्थैर्य-संघातोपचयावहम् ।
द्रव-शीत-गुरु-स्निग्ध-मन्द-सान्द्र-रसोल्बणम् ॥६॥
९.६ - मन्द-सान्द्र-गुणोल्बणम् आप्यं स्नेहन-विष्यन्द-क्लेद-प्रह्लाद-बन्ध-कृत् ।
रूक्ष-तीक्ष्णोष्ण-विशद-सूक्ष्म-रूप-गुणोल्बणम् ॥७॥
आग्नेयं दाह-भा-वर्ण-प्रकाश-पवनात्मकम् ।
वायव्यं रूक्ष-विशद-लघु-स्पर्श-गुणोल्बणम् ॥८॥
रौक्ष्य-लाघव-वैशद्य-विचार-ग्लानि-कारकम् ।
नाभसं सूक्ष्म-विशद-लघु-शब्द-गुणोल्बणम् ॥९॥
९.९ - विचार-ग्लपनात्मकम् सौषिर्य-लाघव-करं जगत्य् एवम् अन्-औषधम् ।
न किञ्-चिद् विद्यते द्रव्यं वशान् नानार्थ-योगयोः ॥१०॥
द्रव्यम् ऊर्ध्व-गमं तत्र प्रायो ऽग्नि-पवनोत्कटम् ।
अधो-गामि च भूयिष्ठं भूमि-तोय-गुणाधिकम् ॥११॥
इति द्रव्यं रसान् भेदैर् उत्तर-त्रोपदेक्ष्यते ।
वीर्यं पुनर् वदन्त्य् एके गुरु स्निग्धं हिमं मृदु ॥१२॥
९.१२ - इति द्रव्यं रसो भेदैर् लघु रूक्षोष्ण-तीक्ष्णं च तद् एवं मतम् अष्ट-धा ।
चरकस् त्व् आह वीर्यं तत् क्रियते येन या क्रिया ॥१३॥
९.१३ - चरकस् त्व् आह वीर्यं तु ९.१३ - येन या क्रियते क्रिया ना-वीर्यं कुरुते किञ्-चित् सर्वा वीर्य-कृता हि सा ।
गुर्व्-आदिष्व् एव वीर्याख्या तेनान्व्-अर्थेति वर्ण्यते ॥१४॥
समग्र-गुण-सारेषु शक्त्य्-उत्कर्ष-विवर्तिषु ।
व्यवहाराय मुख्य-त्वाद् बह्व्-अग्र-ग्रहणाद् अपि ॥१५॥
९.१५ - समग्र-गुण-सार-त्वाच् ९.१५ - छक्त्य्-उत्कर्ष-विवर्तनात् अतश् च विपरीत-त्वात् संभवत्य् अपि नैव सा ।
विवक्ष्यते रसाद्येषु वीर्यं गुर्व्-आदयो ह्य् अतः ॥१६॥
उष्णं शीतं द्वि-धैवान्ये वीर्यम् आचक्षते ऽपि च ।
नानात्मकम् अपि द्रव्यम् अग्नी-षोमौ महा-बलौ ॥१७॥
व्यक्ता-व्यक्तं जगद् इव नातिक्रामति जातु चित् ।
तत्रोष्णं भ्रम-तृड्-ग्लानि-स्वेद-दाहाशु-पाकि-ताः ॥१८॥
९.१८ - व्यक्ता-व्यक्तं जगद् इदं ९.१८ - व्यक्ताव्यक्तं यथा विश्वं शमं च वात-कफयोः करोति शिशिरं पुनः ।
ह्लादनं जीवनं स्तम्भं प्रसादं रक्त-पित्तयोः ॥१९॥
जाठरेणाग्निना योगाद् यद् उदेति रसान्तरम् ।
रसानां परिणामान्ते स विपाक इति स्मृतः ॥२०॥
स्वादुः पटुश् च मधुरम् अम्लो ऽम्लं पच्यते रसः ।
तिक्तोषण-कषायाणां विपाकः प्राय-शः कटुः ॥२१॥
रसैर् असौ तुल्य-फलस् तत्र द्रव्यं शुभा-शुभम् ।
किञ्-चिद् रसेन कुरुते कर्म पाकेन चापरम् ॥२२॥
गुणान्तरेण वीर्येण प्रभावेणैव किञ्-च-न ।
यद् यद् द्रव्ये रसादीनां बल-वत्-त्वेन वर्तते ॥२३॥
अभिभूयेतरांस् तत् तत् कारण-त्वं प्रपद्यते ।
विरुद्ध-गुण-संयोगे भूयसाल्पं हि जीयते ॥२४॥
रसं विपाकस् तौ वीर्यं प्रभावस् तान्य् अपोहति ।
बल-साम्ये रसादीनाम् इति नैसर्गिकं बलम् ॥२५॥
९.२५ - प्रभावस् तान् व्यपोहति रसादि-साम्ये यत् कर्म विशिष्टं तत् प्रभाव-जम् ।
दन्ती रसाद्यैस् तुल्यापि चित्रकस्य विरेचनी ॥२६॥
मधुकस्य च मृद्वीका घृतं क्षीरस्य दीपनम् ।
इति सामान्यतः कर्म द्रव्यादीनां पुनश् च तत् ॥२७॥
विचित्र-प्रत्ययारब्ध-द्रव्य-भेदेन भिद्यते ।
स्वादुर् गुरुश् च गोधूमो वात-जिद् वात-कृद् यवः ॥२८॥
उष्णा मत्स्याः पयः शीतं कटुः सिंहो न शूकरः ॥२८ऊ̆ ॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP