सूत्रस्थान - अध्याय २९
आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.
व्रणः संजायते प्रायः पाकाच् छ्वयथु-पूर्वकात् ।
तम् एवोपचरेत् तस्माद् रक्षन् पाकं प्रयत्नतः ॥१॥
सु-शीत-लेप-सेकास्र-मोक्ष-संशोधनादिभिः ।
शोफो ऽल्पो ऽल्पोष्म-रुक् सामः स-वर्णः कठिनः स्थिरः ॥२॥
२९.२ - सु-शीत-लेप-सेकासृङ्- २९.२ - शोफो ऽल्पो ऽल्पोष्म-रुक् चामः पच्यमानो वि-वर्णस् तु रागी वस्तिर् इवाततः ।
स्फुटतीव स-निस्तोदः साङ्ग-मर्द-विजृम्भिकः ॥३॥
संरम्भा-रुचि-दाहोषा-तृड्-ज्वरा-निद्र-तान्वितः ।
स्त्यानं विष्यन्दयत्य् आज्यं व्रण-वत् स्पर्शना-सहः ॥४॥
पक्वे ऽल्प-वेग-ता म्लानिः पाण्डु-ता वलि-संभवः ।
नामो ऽन्तेषून्नतिर् मध्ये कण्डू-शोफादि-मार्दवम् ॥५॥
२९.५ - पक्वे ऽल्प-वेग-ता ग्लानिः २९.५ - पक्वे ऽल्प-वेदना ग्लानिः २९.५ - पक्वे ऽल्प-वेदना म्लानिः २९.५ - पक्वे ऽल्पा वेदना म्लानिः स्पृष्टे पूयस्य संचारो भवेद् वस्ताव् इवाम्भसः ।
शूलं नर्ते ऽनिलाद् दाहः पित्ताच् छोफः कफोदयात् ॥६॥
रागो रक्ताच् च पाकः स्याद् अतो दोषैः स-शोणितैः ।
पाके ऽतिवृत्ते सुषिरस् तनु-त्वग्-दोष-भक्षितः ॥७॥
वलीभिर् आचितः श्यावः शीर्यमाण-तनू-रुहः ।
कफ-जेषु तु शोफेषु गम्भीरं पाकम् एत्य् असृक् ॥८॥
२९.८ - वलीभिर् आचितः श्यामः पक्व-लिङ्गं ततो ऽ-स्पष्टं यत्र स्याच् छीत-शोफ-ता ।
त्वक्-सावर्ण्यं रुजो ऽल्प-त्वं घन-स्पर्श-त्वम् अश्म-वत् ॥९॥
रक्त-पाकम् इति ब्रूयात् तं प्राज्ञो मुक्त-संशयः ।
अल्प-सत्-त्वे ऽ-बले बाले पाकाद् वात्य्-अर्थम् उद्धते ॥१०॥
२९.१० - पाकाद् अत्य्-अर्थम् उद्धते २९.१० - पाके वात्य्-अर्थम् उद्धते दारणं मर्म-संध्य्-आदि-स्थिते चान्य-त्र पाटनम् ।
आम-च्छेदे सिरा-स्नायु-व्यापदो ऽसृग्-अति-स्रुतिः ॥११॥
रुजो ऽति-वृद्धिर् दरणं विसर्पो वा क्षतोद्भवः ।
तिष्ठन्न् अन्तः पुनः पूयः सिरा-स्नाय्व्-असृग्-आमिषम् ॥१२॥
विवृद्धो दहति क्षिप्रं तृणोलपम् इवानलः ।
यश् छिनत्त्य् आमम् अ-ज्ञानाद् यश् च पक्वम् उपेक्षते ॥१३॥
२९.१३ - तृणोलुपम् इवानलः २९.१३ - तृणोपलम् इवानलः २९.१३ - तृणोच्चयम् इवानलः श्व-पचाव् इव विज्ञेयौ ताव् अ-निश्चित-कारिणौ ।
प्राक् शस्त्र-कर्मणश् चेष्टं भोजयेद् अन्नम् आतुरम् ॥१४॥
२९.१४ - श्व-पचाव् इव जानीयात् २९.१४ - द्वाव् अ-निश्चित-कारिणौ २९.१४ - प्राक् शस्त्र-कर्मणः श्रेष्ठं पान-पं पाययेन् मद्यं तीक्ष्णं यो वेदना-क्षमः ।
न मूर्छत्य् अन्न-संयोगान् मत्तः शस्त्रं न बुध्यते ॥१५॥
अन्य-त्र मूढ-गर्भाश्म-मुख-रोगोदरातुरात् ।
अथाहृतोपकरणं वैद्यः प्राङ्-मुखम् आतुरम् ॥१६॥
२९.१६ - अथाहृतोपकरणो संमुखो यन्त्रयित्वाशु न्यस्येन् मर्मादि वर्जयन् ।
अनुलोमं सु-निशितं शस्त्रम् आ-पूय-दर्शनात् ॥१७॥
२९.१७ - संमुखं यन्त्रयित्वाशु सकृद् एवाहरेच् तच् च पाके तु सु-महत्य् अपि ।
पाटयेद् द्व्य्-अङ्गुलं सम्यग् द्व्य्-अङ्गुल-त्र्य्-अङ्गुलान्तरम् ॥१८॥
एषित्वा सम्यग् एषिण्या परितः सु-निरूपितम् ।
अङ्गुली-नाल-वालैर् वा यथा-देशं यथाशयम् ॥१९॥
यतो गतां गतिं विद्याद् उत्सङ्गो यत्र यत्र च ।
तत्र तत्र व्रणं कुर्यात् सु-विभक्तं निर्-आशयम् ॥२०॥
२९.२० - उत्सङ्गं यत्र यत्र च आयतं च विशालं च यथा दोषो न तिष्ठति ।
शौर्यम् आशु-क्रिया तीक्ष्णं शस्त्रम् अ-स्वेद-वेपथू ॥२१॥
२९.२१ - शौर्यम् आशु-क्रिया तीक्ष्ण- २९.२१ - शस्त्रम् अ-स्वेद-वेपथू अ-संमोहश् च वैद्यस्य शस्त्र-कर्मणि शस्यते ।
तिर्यक् छिन्द्याल् ललाट-भ्रू-दन्त-वेष्टक-जत्रुणि ॥२२॥
कुक्षि-कक्षाक्षि-कूटौष्ठ-कपोल-गल-वङ्क्षणे ।
अन्य-त्र च्छेदनात् तिर्यक् सिरा-स्नायु-विपाटनम् ॥२३॥
शस्त्रे ऽवचारिते वाग्भिः शीताम्भोभिश् च रोगिणम् ।
आश्वास्य परितो ऽङ्गुल्या परिपीड्य व्रणं ततः ॥२४॥
क्षालयित्वा कषायेण प्लोतेनाम्भो ऽपनीय च ।
गुग्गुल्व्-अगुरु-सिद्धार्थ-हिङ्गु-सर्ज-रसान्वितैः ॥२५॥
धूपयेच् पटु-षड्ग्रन्था-निम्ब-पत्त्रैर् घृत-प्लुतैः ।
तिल-कल्काज्य-मधुभिर् यथा-स्वं भेषजेन च ॥२६॥
दिग्धां वर्तिं ततो दद्यात् तैर् एवाच्छादयेच् च ताम् ।
घृताक्तैः सक्तुभिश् चोर्ध्वं घनां कवलिकां ततः ॥२७॥
२९.२७ - तैर् एवाच्छादयेच् च तम् निधाय युक्त्या बध्नीयात् पट्टेन सु-समाहितम् ।
पार्श्वे सव्ये ऽप-सव्ये वा नाधस्-तान् नैव चोपरि ॥२८॥
२९.२८ - पट्टेन सु-समाहितः शुचि-सूक्ष्म-दृढाः पट्टाः कवल्यः स-विकेशिकाः ।
धूपिता मृदवः श्लक्ष्णा निर्-वलीका व्रणे हिताः ॥२९॥
२९.२९ - कवल्यः सु-विकेशिकाः कुर्वीतान्-अन्तरं तस्य रक्षां रक्षो-निषिद्धये ।
बलिं चोपहरेत् तेभ्यः सदा मूर्ध्ना च धारयेत् ॥३०॥
२९.३० - कुर्वीतान्-अन्तरं सम्यग्- २९.३० - रक्षां रक्षो-निवृत्तये २९.३० - रक्षां रक्षो-निषिद्धये २९.३० - सदा मूर्ध्नावधारयेत् लक्ष्मीं गुहाम् अतिगुहां जटिलां ब्रह्मचारिणीम् ।
वचां छत्त्राम् अतिच्छत्त्रां दूर्वां सिद्धार्थकान् अपि ॥३१॥
ततः स्नेह-दिनेहोक्तं तस्याचारं समादिशेत् ।
दिवा-स्वप्नो व्रणे कण्डू-राग-रुक्-शोफ-पूय-कृत् ॥३२॥
२९.३२ - ततः स्नेह-विधानोक्तं स्त्रीणां तु स्मृति-संस्पर्श-दर्शनैश् चलित-स्रुते ।
शुक्रे व्यवाय-जान् दोषान् अ-संसर्गे ऽप्य् अवाप्नुयात् ॥३३॥
व्रणे श्वयथुर् आयासात् स च रागश् च जागरात् ।
तौ च रुक् च दिवा-स्वापात् ताश् च मृत्युश् च मैथुनात् ॥३३-१- ॥
भोजनं च यथा-सात्म्यं यव-गोधूम-षष्टिकाः ।
मसूर-मुद्ग-तुबरी-जीवन्ती-सुनिषण्णकाः ॥३४॥
२९.३४ - भोजनं तु यथा-सात्म्यं बाल-मूलक-वार्ताक-तण्डुलीयक-वास्तुकम् ।
कारवेल्लक-कर्कोट-पटोल-कटुका-फलम् ॥३५॥
सैन्धवं दाडिमं धात्री घृतं तप्त-हिमं जलम् ।
जीर्ण-शाल्य्-ओदनं स्निग्धम् अल्पम् उष्णोदकोत्तरम् ॥३६॥
२९.३६ - अल्पम् उष्णं द्रवोत्तरम् भुञ्जानो जाङ्गलैर् मांसैः शीघ्रं व्रणम् अपोहति ।
अशितं मात्रया काले पथ्यं याति जरां सुखम् ॥३७॥
अ-जीर्णात् त्व् अनिलादीनां विभ्रमो बल-वान् भवेत् ।
ततः शोफ-रुजा-पाक-दाहानाहान् अवाप्नुयात् ॥३८॥
२९.३८ - अ-जीर्णे त्व् अनिलादीनां नवं धान्यं तिलान् माषान् मद्यं मांसम् अ-जाङ्गलम् ।
क्षीरेक्षु-विकृतीर् अम्लं लवणं कटुकं त्यजेत् ॥३९॥
२९.३९ - मद्यं मांसं त्व् अ-जाङ्गलम् यच् चान्यद् अपि विष्टम्भि विदाहि गुरु शीतलम् ।
वर्गो ऽयं नव-धान्यादिर् व्रणिनः सर्व-दोष-कृत् ॥४०॥
२९.४० - व्रणिनां सर्व-दोष-कृत् मद्यं तीक्ष्णोष्ण-रूक्षाम्लम् आशु व्यापादयेद् व्रणम् ।
वालोशीरैश् च वीज्येत न चैनं परिघट्टयेत् ॥४१॥
२९.४१ - बालोशीरैश् च वीज्येत न तुदेन् न च कण्डूयेच् चेष्टमानश् च पालयेत् ।
स्निग्ध-वृद्ध-द्वि-जातीनां कथाः शृण्वन् मनः-प्रियाः ॥४२॥
२९.४२ - छयानः परिपालयेत् २९.४२ - सिद्ध-वृद्ध-द्वि-जातीनां आशा-वान् व्याधि-मोक्षाय क्षिप्रं व्रणम् अपोहति ।
तृतीये ऽह्नि पुनः कुर्याद् व्रण-कर्म च पूर्व-वत् ॥४३॥
प्रक्षालनादि दिवसे द्वितीये नाचरेत् तथा ।
तीव्र-व्यथो विग्रथितश् चिरात् संरोहति व्रणः ॥४४॥
स्निग्धां रूक्षां श्लथां गाढां दुर्-न्यस्तां च विकेशिकाम् ।
व्रणे न दद्यात् कल्कं वा स्नेहात् क्लेदो विवर्धते ॥४५॥
मांस-च्छेदो ऽति-रुग्-रौक्ष्याद् दरणं शोणितागमः ।
श्लथाति-गाढ-दुर्-न्यासैर् व्रण-वर्त्मावघर्षणम् ॥४६॥
२९.४६ - श्लथाति-गाढ-दुर्-न्यस्तैर् स-पूति-मांसं सोत्सङ्गं स-गतिं पूय-गर्भिणम् ।
व्रणं विशोधयेच् छीघ्रं स्थिता ह्य् अन्तर् विकेशिका ॥४७॥
व्य्-अम्लं तु पाटितं शोफं पाचनैः समुपाचरेत् ।
भोजनैर् उपनाहैश् च नाति-व्रण-विरोधिभिः ॥४८॥
२९.४८ - नाति-व्रण-विशोधिभिः सद्यः सद्यो-व्रणान् सीव्येद् विवृतान् अभिघात-जान् ।
मेदो-जाō̃ लिखितान् ग्रन्थीन् ह्रस्वाः पालीश् च कर्णयोः ॥४९॥
शिरो-ऽक्षि-कूट-नासौष्ठ-गण्ड-कर्णोरु-बाहुषु ।
ग्रीवा-ललाट-मुष्क-स्फिङ्-मेढ्र-पायूदरादिषु ॥५०॥
गम्भीरेषु प्रदेशेषु मांसलेष्व् अ-चलेषु च ।
न तु वङ्क्षण-कक्षादाव् अल्प-मांसे चले व्रणान् ॥५१॥
२९.५१ - अल्प-मांस-चले व्रणान् २९.५१ - अल्प-मांस-चलान् व्रणान् वायु-निर्वाहिणः शल्य-गर्भान् क्षार-विषाग्नि-जान् ।
सीव्येच् चलास्थि-शुष्कास्र-तृण-रोमापनीय तु ॥५२॥
२९.५२ - तृण-रोमापनीय च प्रलम्बि मांसं विच्छिन्नं निवेश्य स्व-निवेशने ।
संध्य्-अस्थि च स्थिते रक्ते स्नाय्वा सूत्रेण वल्कलैः ॥५३॥
२९.५३ - संध्य्-अस्थ्य् अवस्थिते रक्ते २९.५३ - स्नाव्ना सूत्रेण वल्कलैः सीव्येन् न दूरे नासन्ने गृह्णन् नाल्पं न वा बहु ।
सान्त्वयित्वा ततश् चार्तं व्रणे मधु-घृत-द्रुतैः ॥५४॥
२९.५४ - व्रणे मधु-घृत-प्लुतैः अञ्जन-क्षौम-ज-मषी-फलिनी-शल्लकी-फलैः ।
२९.५४ - गृह्णन् स्व्-अल्पं न वा बहु २९.५४ - शान्तयित्वा ततश् चार्तं २९.५४ - सान्तयित्वा ततश् चार्तं स-लोध्र-मधुकैर् दिग्धे युञ्ज्याद् बन्धादि पूर्व-वत् ॥५५॥
व्रणो निः-शोणितौष्ठो यः किञ्-चिद् एवावलिख्य तम् ।
संजात-रुधिरं सीव्येत् संधानं ह्य् अस्य शोणितम् ॥५६॥
बन्धनानि तु देशादीन् वीक्ष्य युञ्जीत तेषु च ।
२९.५६ - किञ्-चिद् एव विलिख्य तम् आविकाजिन-कौशेयम् उष्णं क्षौमं तु शीतलम् ॥५७॥
शीतोष्णं तुला-संतान-कार्पास-स्नायु-वल्क-जम् ।
ताम्रायस्-त्रपु-सीसानि व्रणे मेदः-कफाधिके ॥५८॥
२९.५८ - कार्पास-स्नाव-वल्क-जम् भङ्गे च युञ्ज्यात् फलकं चर्म-वल्क-कुशादि च ।
स्व-नामानुगताकारा बन्धास् तु दश पञ्च च ॥५९॥
कोश-स्वस्तिक-मुत्तोली-चीन-दामानुवेल्लितम् ।
खट्वा-विबन्ध-स्थगिका-वितानोत्सङ्ग-गोष्-फणाः ॥६०॥
२९.६० - वितानोत्सङ्ग-गो-फणाः यमकं मण्डलाख्यं च पञ्चाङ्गी चेति योजयेत् ।
यो यत्र सु-निविष्टः स्यात् तं तेषां तत्र बुद्धि-मान् ॥६१॥
२९.६१ - यो यत्र संनिविष्टः स्यात् विदध्यात् तेषु तेष्व् एव कोशम् अङ्गुलि-पर्वसु ।
स्वस्तिकं कर्ण-कक्षादि-स्तनेषूक्तं च संधिषु ॥६१.१-१- ॥
मुत्तोलीं मेढ्र-ग्रीवादौ युञ्ज्याच् चीनम् अपाङ्गयोः ।
संबाधे ऽङ्गे तथा दाम शाखास्व् एवानुवेल्लितम् ॥६१.१-(२) ॥
खट्वां गण्डे हनौ शङ्खे विबन्धं पृष्ठकोदरे ।
अङ्गुष्ठाङ्गुलिमेढ्राग्रे स्थगिकाम् अन्त्र-वृद्धिषु ॥६१.१-(३) ॥
वितानं पृथुलाङ्गादौ तथा शिरसि चेरयेत् ।
विलम्बिनि तथोत्सङ्गं नासौष्ठ-चिबुकादिषु ॥६१.१-(४) ॥
गोष्-फणं संधिषु तथा यमकं यमिके व्रणे ।
वृत्ते ऽङ्गे मण्डलाख्यं च पञ्चाङ्गीं चोर्ध्व-जत्रुषु ॥६१.१-(५) ॥
बध्नीयाद् गाढम् ऊरु-स्फिक्-कक्षा-वङ्क्षण-मूर्धसु ।
शाखा-वदन-कर्णोरः-पृष्ठ-पार्श्व-गलोदरे ॥६२॥
समं मेहन-मुष्के च नेत्रे संधिषु च श्लथम् ।
बध्नीयाच् छिथिल-स्थाने वात-श्लेष्मोद्भवे समम् ॥६३॥
गाढम् एव सम-स्थाने भृशं गाढं तद्-आशये ।
शीते वसन्ते ऽपि च तौ मोक्षणीयौ त्र्य्-अहात् त्र्य्-अहात् ॥६४॥
२९.६४ - भृशं गाढं तद्-आश्रये २९.६४ - शीते वसन्ते च तथा २९.६४ - मोक्षयेत् तौ त्र्य्-अहात् त्र्य्-अहात् २९.६४ - मोक्षणीयस् त्र्य्-अहात् त्र्य्-अहात् पित्त-रक्तोत्थयोर् बन्धो गाढ-स्थाने समो मतः ।
सम-स्थाने श्लथो नैव शिथिलस्याशये तथा ॥६५॥
सायं प्रातस् तयोर् मोक्षो ग्रीष्मे शरदि चेष्यते ।
अ-बद्धो दंश-मशक-शीत-वातादि-पीडितः ॥६६॥
दुष्टी-भवेच् चिरं चात्र न तिष्ठेत् स्नेह-भेषजम् ।
कृच्छ्रेण शुद्धिं रूढिं वा याति रूढो वि-वर्ण-ताम् ॥६७॥
बद्धस् तु चूर्णितो भग्नो विश्लिष्टः पाटितो ऽपि वा ।
छिन्न-स्नायु-सिरो ऽप्य् आशु सुखं संरोहति व्रणः ॥६८॥
उत्थान-शयनाद्यासु सर्वेहासु न पीड्यते ।
उद्वृत्तौष्ठः समुत्सन्नो विषमः कठिनो ऽति-रुक् ॥६९॥
२९.६९ - सर्वेहासु न पीडयेत् २९.६९ - उद्धृतौष्ठः समुत्सन्नो समो मृदुर् अ-रुक् शीघ्रं व्रणः शुध्यति रोहति ।
स्थिराणाम् अल्प-मांसानां रौक्ष्याद् अन्-उपरोहताम् ॥७०॥
प्रच्छाद्यम् औषधं पत्त्रैर् यथा-दोषं यथर्तु च ।
अ-जीर्ण-तरुणाच् छिद्रैः समन्तात् सु-निवेशितैः ॥७१॥
२९.७१ - अ-जीर्णा-तरुणाच् छिद्रैः धौतैर् अ-कर्कशैः क्षीरि-भूर्जार्जुन-कदम्ब-जैः ।
कुष्ठिनाम् अग्नि-दग्धानां पिटिका मधु-मेहिनाम् ॥७२॥
कर्णिकाश् चोन्दुरु-विषे क्षार-दग्धा विषान्विताः ।
बन्धनीया न मांस्-पाके गुद-पाके च दारुणे ॥७३॥
२९.७३ - न मांस्-पाके च बध्नीयाद् २९.७३ - मांस-पाके न बध्नीयाद् शीर्यमाणाः स-रुग्-दाहाः शोफावस्था-विसर्पिणः ।
अ-रक्षया व्रणे यस्मिन् मक्षिका निक्षिपेत् कृमीन् ॥७४॥
ते भक्षयन्तः कुर्वन्ति रुजा-शोफास्र-संस्रवान् ।
सुरसादिं प्रयुञ्जीत तत्र धावन-पूरणे ॥७५॥
२९.७५ - रुजा-शोफास्र-विस्रुतीः सप्तपर्ण-करञ्जार्क-निम्ब-राजादन-त्वचः ।
गो-मूत्र-कल्कितो लेपः सेकः क्षाराम्बुना हितः ॥७६॥
२९.७६ - गो-मूत्र-कल्कितालेपः प्रच्छाद्य मांस-पेश्या वा व्रणं तान् आशु निर्हरेत् ।
न चैनं त्वरमाणो ऽन्तः स-दोषम् उपरोहयेत् ॥७७॥
सो ऽल्पेनाप्य् अपचारेण भूयो विकुरुते यतः ।
रूढे ऽप्य् अ-जीर्ण-व्यायाम-व्यवायादीन् विवर्जयेत् ॥७८॥
हर्षं क्रोधं भयं चापि यावद् आ-स्थैर्य-संभवात् ।
आदरेणानुवर्त्यो ऽयं मासान् षट् सप्त वा विधिः ॥७९॥
२९.७९ - हर्षं क्रोधं भयं वापि उत्पद्यमानासु च तासु तासु वार्तासु दोषादि-बलानुसारी ।
तैस् तैर् उपायैः प्रयतश् चिकित्सेद् आलोचयन् विस्तरम् उत्तरोक्तम् ॥८०॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP