सूत्रस्थान - अध्याय ११
आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.
दोष-धातु-मला मूलं सदा देहस्य तं चलः ।
उत्साहोच्छ्वास-निश्वास-चेष्टा-वेग-प्रवर्तनैः ॥१॥
सम्यग्-गत्या च धातूनाम् अक्षाणां पाटवेन च ।
अनुगृह्णात्य् अ-विकृतः पित्तं पक्त्य्-ऊष्म-दर्शनैः ॥२॥
क्षुत्-तृड्-रुचि-प्रभा-मेधा-धी-शौर्य-तनु-मार्दवैः ।
श्लेष्मा स्थिर-त्व-स्निग्ध-त्व-संधि-बन्ध-क्षमादिभिः ॥३॥
प्रीणनं जीवनं लेपः स्नेहो धारण-पूरणे ।
गर्भोत्पादश् च धातूनां श्रेष्ठं कर्म क्रमात् स्मृतम् ॥४॥
अवष्टम्भः पुरीषस्य मूत्रस्य क्लेद-वाहनम् ।
स्वेदस्य क्लेद-विधृतिर् वृद्धस् तु कुरुते ऽनिलः ॥५॥
११.५ - स्वेदस्य केश-विधृतिर् ११.५ - वृद्धश् च कुरुते ऽनिलः कार्श्य-कार्ष्ण्योष्ण-काम-त्व-कम्पानाह-शकृद्-ग्रहान् ।
बल-निद्रेन्द्रिय-भ्रंश-प्रलाप-भ्रम-दीन-ताः ॥६॥
११.६ - कार्श्य-कार्ष्ण्योष्ण-कामि-त्व- पीत-विण्-मूत्र-नेत्र-त्वक्-क्षुत्-तृड्-दाहाल्प-निद्र-ताः ।
पित्तं श्लेष्माग्नि-सदन-प्रसेकालस्य-गौरवम् ॥७॥
श्वैत्य-शैत्य-श्लथाङ्ग-त्वं श्वास-कासाति-निद्र-ताः ।
रसो ऽपि श्लेष्म-वद् रक्तं विसर्प-प्लीह-विद्रधीन् ॥८॥
कुष्ठ-वातास्र-पित्तास्र-गुल्मोप-कुश-कामलाः ।
व्यङ्गाग्नि-नाश-संमोह-रक्त-त्वङ्-नेत्र-मूत्र-ताः ॥९॥
११.९ - व्यङ्गाग्नि-साद-संमोह मांसं गण्डार्बुद-ग्रन्थि-गण्डोरूदर-वृद्धि-ताः ।
कण्ठादिष्व् अधि-मांसं च तद्-वन् मेदस् तथा श्रमम् ॥१०॥
११.१० - गण्डोरूदर-वृद्ध-ताः अल्पे ऽपि चेष्टिते श्वासं स्फिक्-स्तनोदर-लम्बनम् ।
अस्थ्य् अध्य्-अस्थ्य् अधि-दन्तांश् च मज्जा नेत्राङ्ग-गौरवम् ॥११॥
११.१३ - मूत्रं तु वस्तेर् निस्तोदं पर्वसु स्थूल-मूलानि कुर्यात् कृच्छ्राण्य् अरूंषि च ।
अति-स्त्री-काम-तां वृद्धं शुक्तं शुक्राश्मरीम् अपि ॥१२॥
कुक्षाव् आध्मानम् आटोपं गौरवं वेदनां शकृत् ।
मूत्रं तु वस्ति-निस्तोदं कृते ऽप्य् अ-कृत-संज्ञ-ताम् ॥१३॥
स्वेदो ऽति-स्वेद-दौर्गन्ध्य-कण्डूर् एवं च लक्षयेत् ।
दूषिकादीन् अपि मलान् बाहुल्य-गुरु-तादिभिः ॥१४॥
लिङ्गं क्षीणे ऽनिले ऽङ्गस्य सादो ऽल्पं भाषितेहितम् ।
संज्ञा-मोहस् तथा श्लेष्म-वृद्ध्य्-उक्तामय-संभवः ॥१५॥
पित्ते मन्दो ऽनलः शीतं प्रभा-हानिः कफे भ्रमः ।
श्लेष्माशयानां शून्य-त्वं हृद्-द्रवः श्लथ-संधि-ता ॥१६॥
११.१६ - हृद्-गदः श्लथ-संधि-ता रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दा-सहिष्णु-ता ।
रक्ते ऽम्ल-शिशिर-प्रीति-सिरा-शैथिल्य-रूक्ष-ताः ॥१७॥
मांसे ऽक्ष-ग्लानि-गण्ड-स्फिक्-शुष्क-ता-संधि-वेदनाः ।
मेदसि स्वपनं कट्याः प्लीह्नो वृद्धिः कृशाङ्ग-ता ॥१८॥
अस्थ्न्य् अस्थि-तोदः शदनं दन्त-केश-नखादिषु ।
अस्थ्नां मज्जनि सौषिर्यं भ्रमस् तिमिर-दर्शनम् ॥१९॥
११.१९ - अस्थ्न्य् अस्थि-तोदः सदनं शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितम् एव वा ।
तोदो ऽत्य्-अर्थं वृषणयोर् मेढ्रं धूमायतीव च ॥२०॥
पुरीषे वायुर् अन्त्राणि स-शब्दो वेष्टयन्न् इव ।
कुक्षौ भ्रमति यात्य् ऊर्ध्वं हृत्-पार्श्वे पीडयन् भृशम् ॥२१॥
११.२१ - कुक्षिं भ्रमति यात्य् ऊर्ध्वं मूत्रे ऽल्पं मूत्रयेत् कृच्छ्राद् वि-वर्णं सास्रम् एव वा ।
स्वेदे रोम-च्युतिः स्तब्ध-रोम-ता स्फुटनं त्वचः ॥२२॥
मलानाम् अति-सूक्ष्माणां दुर्-लक्ष्यं लक्षयेत् क्षयम् ।
स्व-मलायन-संशोष-तोद-शून्य-त्व-लाघवैः ॥२३॥
दोषादीनां यथा-स्वं च विद्याद् वृद्धि-क्षयौ भिषक् ।
क्षयेण विपरीतानां गुणानां वर्धनेन च ॥२४॥
वृद्धिं मलानां सङ्गाच् च क्षयं चाति-विसर्गतः ।
मलोचित-त्वाद् देहस्य क्षयो वृद्धेस् तु पीडनः ॥२५॥
तत्रास्थनि स्थितो वायुः पित्तं तु स्वेद-रक्तयोः ।
श्लेष्मा शेषेषु तेनैषाम् आश्रयाश्रयिणां मिथः ॥२६॥
यद् एकस्य तद् अन्यस्य वर्धन-क्षपणौषधम् ।
अस्थि-मारुतयोर् नैवं प्रायो वृद्धिर् हि तर्पणात् ॥२७॥
श्लेष्मणानुगता तस्मात् संक्षयस् तद्-विपर्ययात् ।
वायुनानुगतो ऽस्माच् च वृद्धि-क्षय-समुद्भवान् ॥२८॥
विकारान् साधयेच् छीघ्रं क्रमाल् लङ्घन-बृंहणैः ।
वायोर् अन्य-त्र तज्-जांस् तु तैर् एवोत्क्रम-योजितैः ॥२९॥
विशेषाद् रक्त-वृद्ध्य्-उत्थान् रक्त-स्रुति-विरेचनैः ।
मांस-वृद्धि-भवान् रोगान् शस्त्र-क्षाराग्नि-कर्मभिः ॥३०॥
स्थौल्य-कार्श्योपचारेण मेदो-जान् अस्थि-संक्षयात् ।
जातान् क्षीर-घृतैस् तिक्त-संयुतैर् वस्तिभिस् तथा ॥३१॥
११.३१ - संयुक्तैर् वस्तिभिस् तथा मज्ज-शुक्रोद्भवान् रोगान् भोजनैः स्वादु-तिक्तकैः ।
वृद्धं शुक्रं व्यवायाद्यैर् यच् चान्यच् छुक्र-शोषिकम् ॥३१-१॥
११.३१-१ - प्रत्य्-अनीकौषधं मज्ज- ११.३१-१ - शुक्र-वृद्धि-क्षये हितम् विड्-वृद्धि-जान् अतीसार-क्रियया विट्-क्षयोद्भवान् ।
मेषाज-मध्य-कुल्माष-यव-माष-द्वयादिभिः ॥३२॥
मूत्र-वृद्धि-क्षयोत्थांश् च मेह-कृच्छ्र-चिकित्सया ।
व्यायामाभ्यञ्जन-स्वेद-मद्यैः स्वेद-क्षयोद्भवान् ॥३३॥
११.३३ - मूत्र-वृद्धि-क्षयोत्थांस् तु स्व-स्थान-स्थस्य कायाग्नेर् अंशा धातुषु संश्रिताः ।
तेषां सादाति-दीप्तिभ्यां धातु-वृद्धि-क्षयोद्भवः ॥३४॥
पूर्वो धातुः परं कुर्याद् वृद्धः क्षीणश् च तद्-विधम् ।
दोषा दुष्टा रसैर् धातून् दूषयन्त्य् उभये मलान् ॥३५॥
अधो द्वे सप्त शिरसि खानि स्वेद-वहानि च ।
मला मलायनानि स्युर् यथा-स्वं तेष्व् अतो गदाः ॥३६॥
ओजस् तु तेजो धातूनां शुक्रान्तानां परं स्मृतम् ।
हृदय-स्थम् अपि व्यापि देह-स्थिति-निबन्धनम् ॥३७॥
स्निग्धं सोमात्मकं शुद्धम् ईषल्-लोहित-पीतकम् ।
यन्-नाशे नियतं नाशो यस्मिंस् तिष्ठति तिष्ठति ॥३८॥
निष्पद्यन्ते यतो भावा विविधा देह-संश्रयाः ।
ओजः क्षीयेत कोप-क्षुद्-ध्यान-शोक-श्रमादिभिः ॥३९॥
बिभेति दुर्-बलो ऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः ।
दुश्-छायो दुर्-मना रूक्षो भवेत् क्षामश् च तत्-क्षये ॥४०॥
११.४० - वि-च्छायो दुर्-मना रूक्षो ११.४० - भवेत् क्षामश् च तत्-क्षयात् जीवनीयौषध-क्षीर-रसाद्यास् तत्र भेषजम् ।
ओजो-वृद्धौ हि देहस्य तुष्टि-पुष्टि-बलोदयः ॥४१॥
११.४१ - ओजो-वृद्धौ च देहस्य ११.४१ - ओजो-वृद्धौ तु देहस्य ११.४१ - तुष्टि-पुष्टि-बलोदयाः यद् अन्नं द्वेष्टि यद् अपि प्रार्थयेता-विरोधि तु ।
तत् तत् त्यजन् समश्नंश् च तौ तौ वृद्धि-क्षयौ जयेत् ॥४२॥
११.४२ - तत् तत् त्यजन् समश्नन् वा कुर्वते हि रुचिं दोषा विपरीत-समानयोः ।
वृद्धाः क्षीणाश् च भूयिष्ठं लक्षयन्त्य् अ-बुधास् तु न ॥४३॥
११.४३ - कुर्वन्ति हि रुचिं दोषा यथा-बलं यथा-स्वं च दोषा वृद्धा वितन्वते ।
रूपाणि जहति क्षीणाः समाः स्वं कर्म कुर्वते ॥४४॥
य एव देहस्य समा विवृद्ध्यै त एव दोषा विषमा वधाय ।
यस्माद् अतस् ते हित-चर्ययैव क्षयाद् विवृद्धेर् इव रक्षणीयाः ॥४५॥
११.४५ - क्षयाद् विवृद्धेर् अपि रक्षणीयाः
N/A
References : N/A
Last Updated : June 24, 2015
TOP