कालविलास - सर्ग १
कालविलास हास्य प्रहसन का एक अत्युत्तम ग्रंथ है ।
अस्ति विशालं कमलालुलितपरिष्वङ्गमङ्गलायतनम् ।
श्रीपतिवक्षःस्थलमिव रत्नोज्ज्वलमुज्ज्वलं नगरम् ॥१॥
मणिभूबिम्बितमुक्ताप्रलम्बनिवहेन यत्र शेषाहिः ।
भवनानि बिभर्ति सदा बहुधात्मानं विभज्येव ॥२॥
विघ्नोऽभिसारिकाणां भवनगणः स्फाटिकप्रभाविकटः ।
यत्र विराजति रजनीतिमिरपटप्रकटलुण्ठाकः ॥३॥
यत्र त्रिनयननयनज्वलनज्वालावलीशलभवृत्तिः ।
जीवति मानसजन्मा शशिवदनावदनकान्तिपीयूषैः ॥४॥
रतिलुलितललितललनाक्लमजललववाहिनो मुहुर्यत्र ।
श्लथकेशकुसुमपरिमलवासितदेहा वहन्त्यनिलाः ॥५॥
नवबिसकिसलयकवलनकषायकलहंसकलरवो यत्र ।
कमलवनेषु प्रसरति लक्ष्म्या इव नूपुरारावः ॥६॥
नृत्यन्मुग्धमयूरा मरकतधारागृहावली सततम् ।
सेन्द्रायुधधननिवहा प्रावृण्मूर्तेव यत्रास्ते ॥७॥
शशिकिरणप्रावरणस्फाटिकहर्म्येषु हरिणशावाक्ष्यः ।
यत्र विभान्ति सुधाम्बुधिदुग्धतरङ्गित्थिता इवाप्सरसः ॥८॥
तत्राभूदभिभूतप्रभूतमायानिकायशतधूर्तः ।
सकलकलानिलयानां धुर्यः श्रीमूलदेवाख्यः ॥९॥
नानादिग्देशागतधूर्तैरुपजीव्यमानमतिविभवः ।
स प्राप विपुलसंपदम् आत्मगुणैश्चक्रवर्तीव ॥१०॥
भुक्तोत्तरं सहृदयैर् आस्थानीसंस्थितं कदाचित्तम् ।
अभ्येत्य सार्थवाहो दत्तमहार्होपहारमणिकनकः ॥११॥
प्रणतो हिरण्यगुप्तः सहितः पुत्रेण चन्द्रगुप्तेन ।
प्राप्तासनसत्कारः प्रोवाच म्हूर्तविश्रान्तः ॥१२॥
अतिपरिचयसप्रतिभा तव पुरतो मादृशामियं वाणी ।
ग्राम्याङ्गनेव नगरे न तथा प्रगल्भ्यमायाति ॥१३॥
पिहितबृहस्पतिधिषणो रुचिरः प्रज्ञामरीचिनिचयस्ते ।
तीक्ष्णांशोरिव सहजः प्रोषिततिमिराः करोत्याशाः ॥१४॥
आजन्मार्जितबहुविधमणिमौक्तिककनकपूर्णकोषस्य ।
एको ममैष सूनुः संजातः पश्चिमे वयसि ॥१५॥
मोहस्थानं बाल्यं यौवनमपि मदनमानसोन्मादम् ।
अनिलावलोलनलिनीदलजलचपलाश्च वित्तचयाः ॥१६॥
हारिण्यो हरिणदृशः सततं भोगाब्जमधुकरा धूर्ताः ।
पतिता परंपरैषा दोषाणां मम सुतस्यास्य ॥१७॥
धूर्तकरकन्दुकानां वारवधूचरणनूपुरमणीनाम् ।
धनिकगृहोत्पन्नानां मुक्तिर्नास्त्येव मुग्धानाम् ॥१८॥
अज्ञातदेशकालाश् चपलमुखाः पङ्गवोऽपि सप्लुतयः ।
नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमार्जारैः ॥१९॥
आश्रितजनतनयोऽयं तव विद्वन्निजसुताधिकः सत्यम् ।
न यथा प्रयाति नाशं तथास्य बुद्धिं प्रयच्छ पराम् ॥२०॥
इति विनयनम्रशिरसा तेन वचो युक्तमुक्तमवधार्य ।
तमुवाच मूलदेवः प्रीतिप्रसरैः प्रसारितौष्ठाग्रः ॥२१॥
आस्तामेष सुतस्ते मम भवने निज इव प्रयत्नपरः ।
ज्ञास्यति मयोपदिष्टं शनकैः सकलं कलाहृदयम् ॥२२॥
इति तस्य शासनेन स्वसुतं निःक्षैप्य तद्गृहे मतिमान् ।
नत्वाथ सार्थवाहः प्रययौ निजमन्दिरं मुदितः ॥२३॥
अथ शिथिलकिरणजालो धूमरकान्तिर्निरम्बरस्तरणिः ।
अभवददृक्ष्यः शनकैः धूर्तैरिव निर्जितः कितवः ॥२४॥
अस्तमिते दिवसकरे तिमिरभरद्विरदसंसक्ता ।
सिन्दूरपटलपाटलकान्तिरिवाग्रे बभौ सन्ध्या ॥२५॥
त्यक्तापि प्रतिदिवसं दिवसद्युतिरनुजगाम दिवसकरम् ।
न तु रक्तापि हि सन्ध्या हृदयं जानाति कः स्त्रीणाम् ॥२६॥
गगनाङ्गणकमलवने सन्ध्यारागे गते शनैः क्वापि ।
अप्राप्तस्थितिविकलं बभ्राम भ्रमरविभ्रमं तिमिरम् ॥२७॥
तीक्ष्णांशुविरहमोहैः तिमिरैरिव मीलिता बभूव मही ।
तीव्रोऽपि जनस्य सदायातः खलु वल्लभो भवति ॥२८॥
रजनी रराज सिततरतारकमुक्ताकलापकृतशोभा ।
शबररमणीव परिचिततिमिरमयूरच्छदाभरणा ॥२९॥
अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः ।
कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥३०॥
मन्मथसितातपत्रं दिग्वनितास्फटिकदर्पणो विमलः ।
विरराज रजनिरमणीसिततिलको यामिनीनाथः ॥३१॥
निजकरमृणालवल्लीवलयविलासी ललास सितकान्तिः ।
गगनतटिनीतटान्ते रजनिकरो राजहंस इव ॥३२॥
श्यामा शुशुभे शशिना तया मनोभूर्मधूत्सवस्तेन ।
मदमुदितमानसानां तेनापि मृगीदृशां लीला ॥३३॥
धूर्ताः समृद्धिसचिवा विच्छायां पद्मिनीं परित्यज्य ।
फुल्लानि विविशुरलयः सानन्दाः कुमुदवृन्दानि ॥३४॥
ज्योत्स्नाभस्मस्मेरा सुललितशशिशकलपेशलकपाला ।
तारास्थिपटलहारा शुशुभे कापालिकीव निशा ॥३५॥
तस्मिन्प्रौढनिशाकरकिरणप्रकरप्रकाशिताशेषे ।
निजमणिभवनोद्याने निर्वर्तितभावनासमाधानः ॥३६॥
स्फटिकासनोपविष्टः सह शशिना निर्विभागमित्रेण ।
कन्दलिमुख्यैः शिष्यैः परिवारितपादपीठान्तः ॥३७॥
प्रोवाच मूलदेवो वीक्ष्य चिरं सार्थवाहसुतमग्रे ।
कुर्वन्दशनमयूखैः लज्जालीनामिव ज्योत्स्नाम् ॥३८॥
शृणु पुत्र वञ्चकानां सकलकलाहृदयसारमतिकुटिलम् ।
ज्ञाते भवन्ति यस्मिन् क्षणरुचिचपलाः श्रियोऽप्यचलाः ॥३९॥
एकोऽस्मिन्भवगहने तृणपल्लववलयजालसंच्छन्नः ।
कूपः पतन्ति यस्मिन् मुग्धकुरङ्गा निरालम्बे ॥४०॥
सोऽयं निधानकुम्भो दम्भो नांअ स्वभावगम्भीरः ।
कुटिलैः कुहकभुजंगैः संवृतवदनः स्थितो लोके ॥४१॥
मायारहस्यमन्त्रश्चिन्तामणिरीप्सितार्थानाम् ।
दम्भः प्रभावकारी धूर्तानां श्रीवशीकरणम् ॥४२॥
मत्स्यास्येवाप्सु सदा दम्भस्य ज्ञायते गतिः केन ।
नास्य करौ न च पादौ न शिरो दुर्लक्ष्य एवासौ ॥४३॥
मन्त्रबलेन भुजंगा मुग्धकुरङ्गाश्च कूटयन्त्रेण ।
स्थलजालेन विहङ्गा गृह्यन्ते मानवाश्च दम्भेन ॥४४॥
जनहृदयविप्रलम्भो मायास्थम्भो जगज्जयारम्भः ।
जयति सदानुपलम्भो मायारम्भोदयो दम्भः ॥४५॥
सततावर्तभ्रान्ते दुःसहमायासहस्रकुटिलारे ।
मूलं दम्भो नाभिर्विपुलतरे चक्रिकाचक्रे ॥४६॥
नयननिमीलनमूलः सुचिरं स्नानार्द्रचूलजलसिक्तः ।
दम्भतरुः शुचिकुसुमः सुखशतशाखाशतैः फलितः ॥४७॥
व्रतनियमैर्बकदम्भः संवृतनियमैश्च कूर्मजो दम्भः ।
निभृतगतिनयननियमैर्घोरो मार्जारजो दम्भः ॥४८॥
बकदम्भो दम्भपतिर्दम्भनरेन्द्रश्च कूर्मजो दम्भः ।
मार्जारदम्भ एव प्राप्तो दम्भेषु चक्रवर्तित्वम् ॥४९॥
नीचनखश्मश्रुकचश्चूली जटिलः प्रलम्बकूर्चो वा ।
बहुमृत्तिकापिशाचः परिमितभाषी प्रयत्नपादत्रः ॥५०॥
स्थूलग्रन्थिपवित्रकपृष्ठार्पितहेमवल्लीकः ।
कक्षार्पितपतपल्लवरुद्धभुजो भाण्डहस्त इव ॥५१॥
अङ्गुलिभङ्गविकल्पन विविधविवादप्रवृत्तपाण्डित्यः ।
जपचपलोष्ठः सजने ध्यानपरो नगररथ्यासु ॥५२॥
साभिनयाञ्चितचुलकैराचमनैः सुचिरमज्जनैस्तीर्थे ।
संरुद्धसकललोकः पुनः पुनः कर्णकोणसंस्पर्शी ॥५३॥
सीत्कृतदन्तनिनादावेदितहेमन्तदुःसहस्नानः ।
विस्तीर्णतिलकचर्चासूचितसर्वोपचारसुरपूजः ॥५४॥
शिरसा बिबर्ति कुसुमं विनिपतितां काकदृष्टिम् इव रचयन् ।
एवं रूपं पुरुषो यो यः स स दाम्भिको ज्ञेयः ॥५५॥
निर्गुणलोकप्रणतःसगुणे स्तब्धः स्वबन्धुषु द्वेषी ।
पुरजनकरुणाबन्धुः कीर्त्यार्थी दांभिको धूर्तः ॥५६॥
कार्योपयोगकाले प्रणतशिराश्चाटुशतकारी ।
सभ्रूभङ्गो मौनी कृतकार्यो दाम्भिकः क्रूरः ॥५७॥
स्तम्भितविबुधसमृद्धिर्दैत्यो योऽभूत्पुरा जम्भः ।
दम्भः सोऽयं निवसति भूमितले भूतदेहेषु ॥५८॥
शुचिदम्भः शमदम्भः स्नातकदम्भः समाधिदम्भश्च ।
निःस्पृहदम्भस्य तुलां यान्ति तु नैते शतांशेन ॥५९॥
शौचाचारविवादी मृत्क्षयकारी स्वबान्धवस्पर्शी ।
शुचिदम्भेन जनोऽयं विश्वामित्रत्वमायाति ॥६०॥
संहृतबहुविधसत्त्वो निःक्षेपद्रविणवारिबहुतृष्णः ।
सततमहिंसादम्भो वडवाग्निः सर्वभक्षोऽयम् ॥६१॥
मुण्डो जटिलो नग्नश्छत्री दण्डी कषायचारी वा ।
भस्मस्मेरशरीरो दिशि दिशि भोगी विजृम्भते दम्भः ॥६२॥
खल्वाटः स्थूलवपुः शुष्कतनुर्मुनिसमानरूपो वा ।
शाटकवेष्टितशीर्षश्चैत्योन्नतशिखरवेष्टनो वापि ॥६३॥
लोभः पितातिवृद्धो जननी माया सहोदरः कूटः ।
कुटिलाकृतिश्च गृहिणी पुत्रो दम्भस्य हुंकारः ॥६४॥
भगवान्पुरा स्वयंभूः कृत्वा भुवनानि भूतसर्गं च ।
विरतव्यापारतया सुचिरं चिन्तान्वितस्तस्थौ ॥६५॥
दृष्ट्वा स मर्त्यलोके दिव्यदृशा मानुषान्निरालम्बान् ।
आर्जवयोगविशेषादप्राप्तधनादिसंभोगान् ॥६६॥
मीलितनयनः क्षैप्रं स्थित्वा मायामये समाधाने ।
असृजन्नृणां (नॄणां?) विभूत्यै दम्भं संभावनाधारम् ॥६७॥
बिभ्राणः कुशपूलीं पुस्तकमाले कमण्डलुं शून्यम् ।
निजहृदयकुटिलशृङ्गं दण्डं कृष्णाजिनं खनित्रं च ॥६८॥
स्थूलतरकुशपवित्रकलाञ्छितकर्णः पवित्रपाणिश्च ।
सुव्यक्तमुण्डमस्तककुशवेष्टितचूलमूलसितकुसुमः ॥६९॥
काष्ठस्तब्धग्रीवो जपचपलोष्ठः समाधिलीनाक्षः ।
रुद्राक्षवलयहस्तो मृत्परिपूर्णं वहन्पात्रम् ॥७०॥
नयनाञ्चलैः सकोपैर्भ्रुकुटीहुंकारवदनसंज्ञाभिः ।
बहुविधकदर्थनाभिः कथिताखिलहृदयवाञ्छितो मौनी ॥७१॥
रक्षन्परसंस्पर्शं शौचार्थी ब्रह्मलोकेऽपि ।
दम्भः पुरोऽस्य तस्थावुत्थित एवासनाकाङ्क्षी ॥७२॥
आकल्पेन सुमहता सहसास्य वशीकृताः परं तेन ।
सप्तर्षयोऽपि तस्मै प्रणतास्तस्थुः कृताञ्जलयः ॥७३॥
तं दृष्ट्वा परमेष्ठी लीलाकृतसकलसर्गवर्गोऽपि ।
गौरवविस्मयहर्षैर्निःस्पन्दान्दोलितस्तस्थौ ॥७४॥
तस्यातितीव्रनियमाद्ग्रस्तेऽगस्त्येऽतिविस्मयेनेव ।
अल्पतपोव्रतलज्जाकुञ्चितपृष्ठे वसिष्ठे च ॥७५॥
अतिसरलनिजमुनिव्रतपरिगतकुत्से च कूणिते कौत्से ।
डम्बररहितात्मतपोनिरादरे नारदे विहिते ॥७६॥
निजजानुसंधिशिखरे जमदग्नौ मग्नवदने च ।
त्रस्ते विश्वामित्रे वलितगुले गालवेभृगौ मग्ने ॥७७॥
सुचिरोत्थितमतिकोपादासनकमले निविष्टदृष्टिं च ।
शूलप्रोतमिवाग्रे निःस्पन्दममन्दगर्वगुरुगात्रम् ॥७८॥
ज्ञात्वा तमासनार्थिनमवदद्देवश्चतुर्मुखः प्रीत्या ।
विकसन्निजदशानरुचा विहसन्निव वाहनं हंसं ॥७९॥
उपविश पुत्र ममाङ्के नियमेन महीयसातिचित्रेण ।
अर्होऽसि गुणगणोद्गतगौरवसंवादिनानेन ॥८०॥
इत्युक्तो विश्वसृजा तस्याङ्कमशङ्कया ससंकोचः ।
अभ्युक्ष्य वारिमुष्ट्या कृच्छ्रेणोपाविशद्दम्भः ॥८१॥
दम्भ उवाच॥ नोच्चैर्वाच्यमवश्यं यदि वाच्यं हस्तपद्मेन ।
आच्छाद्य वक्त्ररन्ध्रं स्पृष्टो न स्यां यथास्यवातांशैः ॥८२॥
तत्तस्य शौचमतुलं दृष्ट्वा स्मेराननो ब्रह्मा ।
दम्भोऽसीति जगाद प्रायो हस्ताग्रमाकम्प्य ॥८३॥
उत्तिष्ठाऌसकलजलनिधिपरिखावलिमेखलां महीमखिलाम् ।
अवतीर्य भुङ्क्ष्वा भोगान्विबुधैरपि तत्त्वतो न विज्ञातः ॥८४॥
इत्यादराद्विसृष्टो विधिना संसारसागरगतानाम् ।
कण्ट्ःे शीलां निबध्नन्मर्त्यानामवततार महीम् ॥८५॥
अथ मर्त्यलोकमेत्य भ्रान्त्वा दम्भो वनानि नगराणि ।
विनिवेश्य गौडविषये निजजयकेतुं जगाम दिशः ॥८६॥
वचने बाह्लीकानां व्रतनियमे प्राच्यदाक्षैणात्यानां ।
अधिकारे वीराणां दम्भः सर्वत्र गौडानाम् ॥८७॥
एते दम्भसहायाः प्रतिग्रहश्राद्धसिद्धचूर्णेन ।
कुर्वन्ति ये प्रभाते यतस्ततो भस्मना तिलकम् ॥८८॥
तूर्णं सहस्रभागैर्भुवनतलए संविभज्य भूतानि ।
मूर्तः सततं निवसति दम्भो वदनेऽधिकरणभट्टानाम् ॥८९॥
गुरुहृदयमविशादग्रे बालकहृदयं तपस्विहृदयं च ।
कुटिलं नियोगिहृदयं दीक्षैतहृदयं स्वयं दम्भः ॥९०॥
तदनु च गणकचिकित्सकसेवकवणिजां सहेमकाराणाम् ।
नटभटगायनवाचकचक्रचराणां च हृदयानि ॥९१॥
अंशैः प्रविश्य हृदयं विविधविकारैः समस्तजन्तूनाम् ।
दम्भो विवेश पश्चादन्तरमिह पक्षैवृक्षाणाम् ॥९२॥
मत्स्यार्थी चरति तपः सुचिरं निःस्पन्द एकपादेन ।
तीर्थेषु बकतपस्वी तेन विहङ्गान्गतो दम्भः ॥९३॥
विपुलजटावल्कलिनः शीतातपवातकर्शिताः सततम् ।
वृक्षा जलार्थिनो यद्दम्भस्य विजृम्भितं तदपि ॥९४॥
एवं विचारणीयः सर्वगतः सर्वहृत्सदा दम्भः ।
ज्ञाते तस्मिन्विविधे विफला मायाविनां माया ॥९५॥
दम्भविकारः पुरतो वञ्चकचक्रस्य कल्पवृक्षोऽयम् ।
वामनदम्भेन पुरा हरिणा त्रैलोक्यमाक्रान्तम् ॥९६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP