कालविलास - सर्ग ८
कालविलास हास्य प्रहसन का एक अत्युत्तम ग्रंथ है ।
तत्रापि हेमकारा हरणकलायोगिनः पृथुध्यानाः ।
ये धाम्नि बहुललक्ष्म्याः शून्यत्वं दर्शयन्त्य् एव ॥१॥
सारं सकलधनानां संपत्सु विभूषणं विपदि रक्षा ।
एते हरन्ति पापाःॢ सततं तेजः परं हेम ॥२॥
सहसैव दूषयन्ति स्पर्शेन सुवर्णमुपहतच्छायाम् ।
नित्याशुचयः पापाः चण्डाला हेमकाराश् च ॥३॥
मसृणकषाश्मनि निकषो मन्दरुचिक्रमगता कला तेषाम् ।
येषां परुषकषाश्मनि विक्रयकालेऽपि लाभकला ॥४॥
सोपस्नेहः स्वेद्यः सिक्थकमुद्रोऽपि बालुकाप्रायः ।
सोष्मा च युक्तिभेदात् तुलोपलानां कलाः पञ्च ॥५॥
द्विपुटा स्फोटविपाका सुवर्णरसपायिनी सुताम्रकला ।
सीसमलकाचचूर्णग्रहणपरा षट्कला मूषा ॥६॥
वक्रमुखी विषमपुटा सुषिरतला न्यस्तपारदा मृद्वी ।
पक्षकटा ग्रन्थिमती सिक्थकला बहुगुणा पुरोनम्रा ॥७॥
वातभ्रान्ता तन्वी गुर्वी वा परुषवातधृतचूर्णा ।
निर्जीवना सजीवा षोडश हेम्नस्तुलासु कलाः ॥८॥
मन्दः सावेगो वा मध्यच्छिन्नः सशब्द्ल्फूत्कारः ।
पाती शीकरकारी फूत्कारः षट्कलास्तेषाम् ॥९॥
ज्वालावलयी धूमो विस्फोटी मन्दकः स्फुलिङ्गी च ।
पूर्वधृतताम्रचूर्णस् तेषां अपि षट्कलो वह्निः ॥१०॥
प्रश्नः कथा विचित्रा कण्डूयनमंशुकान्तराकृष्टिः ।
दिनवेलार्कनिरीक्षणमतिहासो मक्षिकाक्षेपः ॥११॥
कौतुकदर्शनमसकृत्स्वजनकलिः सलिलपात्रभङ्गश्च ।
बहिरपि गमनं बहुशो द्वादश चेष्टाकलास् तेषाम् ॥१२॥
घटितस्योपरि पाकः कृत्रिमवर्णप्रकाशनोत्कर्षी ।
तनुगोमयाग्निमध्ये लवणक्षारानुलेपेन ॥१३॥
सामान्यलोहपात्राद्भूमिन्यस्तेऽपि कान्तलोहतले ।
धावति वदनेन तुला रिक्तापि मुहुः सुपूर्णेव ॥१४॥
प्रतिबद्धे जतुयोग्ये प्रक्षिप्तनिघूढकनककणम् ।
तुलितं पूरणकाले सुखेन हर्तुं समायाति ॥१५॥
उज्ज्वलनेऽपि च तेषां पातनमतिसुकरमश्मकाले च ।
सदृशविचित्राभरणे परिवर्तनलाघवप्रसारश्च ॥१६॥
पूर्णादाने घटने नेक्षा माषार्पणं प्रभायोगः ।
कालाहरणविनाशः प्रतिपूरणयाचनं बहुश्लेषः ॥१७॥
एकादश युक्तिकालस्तेषामेताः समासेन ।
एकैव कला महती निशि गमनं सर्वमादाय ॥१८॥
एता हेमकाराणां विचारलभ्याः कलाश्चतुःषष्टिः ।
अन्या गूढाश्च कलाः सहस्रनेत्रोऽपि नो वेत्ति ॥१९॥
मेरुः स्थितोऽतिदूरे मनुष्यभूमिं चिरात्परित्यज्य ।
भीतोऽवश्यं चौर्याद्घोराणां हेमकाराणाम् ॥२०॥
कनकशिलाशतसंधिप्रसृतमहाविवरकोटिसंघातैः ।
उत्कीर्णनिखिलशिखरः पुरा कृतो मूषकैर्मेरुः ॥२१॥
तत्राखिलाखुसेनानिखातनखरावलेखनोत्खातैः ।
शिथिलितमूलः सहसा बभूव मेरुः पुरा नियतम् ॥२२॥
मूषकनखरोत्खातः सुमेरुरुच्चैस्तरां शुशुभे ।
उद्धतसुवर्णधूलीपटलैः कपिला बहुः ककुभः ॥२३॥
तस्मिञ्जर्जरशिखरे विवरोदरदलितकनककूटतटे ।
कल्पान्तागमशङ्काभयमाविरभूदमर्त्यानाम् ॥२४॥
आह च दिव्यदृशा तद्विलोक्य सर्वं सुरानाथागस्त्यः ।
एते ते ब्रह्मघ्ना निशाचारास्त्रिदशसंगरे निहताः ॥२५॥
जाता मूषकरूपा मेरुनिपाते कृतारम्भाः ।
वध्याः पुनरपि भवतामाश्रमभङ्गान् मुनीनां च ॥२६॥
श्रुत्वैतन्मुनिवचनं धूमेन बिलावलीं समापूर्य ।
शापेन पूर्वदग्धाञ्जग्धुस्त्रिदशा महामूषान् ॥२७॥
एते त एव मूषाः सुवर्ण्काराः क्षितौ पुनर्जाताः ।
जन्माभ्यासादनिशं काञ्चनचूर्णं निकर्षन्ति ॥२८॥
तस्मान्महीपतीनामसंभवे गरदचोरदस्यूनाम् ।
एकः सुवर्णकारो निग्राह्यः सर्वथा नित्यम् ॥२९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP