कालविलास - सर्ग ३
कालविलास हास्य प्रहसन का एक अत्युत्तम ग्रंथ है ।
कामः कमनीयतया किमपि निकामं करोति संमोहम् ।
विषामिव विषमं सहसा मधुरतया जीवनं हरति ॥१॥
एते हि कामकलिताः परिमललीनालिवलयहुंकारैः ।
सूचितदानाः करिणो बध्यन्ते क्षिप्रमबलाभिः ॥२॥
पादाघाताः शिताङ्कुशघटना निगडादिसंरोधम् ।
विषयमुषितः करीन्द्रः किं न स्मरवञ्चितः सहते ॥३॥
दीर्घव्यसननिरुद्धो भ्रूभङ्गज्ञो विधेयतां यातः ।
विषयविवशो मनुष्यः केलिशिखण्डीव नर्त्यते स्त्रीभिः ॥४॥
रक्ताकर्षणसक्ता मायाभिर्मोहतिमिररजनीषु ।
नार्यः पिशाचिका इव हरन्ति हृदयानि मुग्धानाम् ॥५॥
रागिमृगवागुराणां हृदयद्विपबन्धशृङ्खलौघानाम् ।
व्यसननववल्लरीणां स्त्रीणां न मुच्यते वशगः ॥६॥
संसारचित्रमायां शम्बरमायां विचित्तिमायां च ।
यो जानाति जितात्मा सोऽपि न जानाति योषितां मायाम् ॥७॥
कुसुमसुकुमारदेहा वज्रशिलाकठिनह्र्दयसद्भावाः ।
जनयन्ति कस्य नान्तर्विचित्रचरिताः स्त्रियो मोहम् ॥८॥
अनुरक्तजनविरक्ता नम्रोत्सिक्ता विरक्तरागिण्यः ।
वञ्चनवचनासक्ता नार्यः सद्भावशङ्किन्यः ॥९॥
जातः स एव लोके बहुजनदृष्टा विलासकुटिलाङ्गी ।
धैर्यध्वंसपताका यस्य न पत्नी प्रभुर्गेहे ॥१०॥
विजितस्य मदविकारैः स्त्रीभिर्मूकस्य नष्टसंज्ञस्य ।
गृहधूलिपटलमखिलं वदने निःक्षिप्यते भर्तुः ॥११॥
कृतकापरिस्फुटाक्षरकामकलाभिः स्वभावमुग्धेव ।
तिलकाय चन्द्रबिम्बं मुग्धपतिं याचते प्रौढ ॥१२॥
स्वैरविहारगतागतखिन्नायास्तीर्थदर्शनव्याजैः ।
भर्ता विलासविजितश्चरणौ मृद्नाति चपलायाः ॥१३॥
नयनविकारैरन्यं वचनैरन्यं विचेष्टितैरन्यम् ।
रमयति सुरतेनान्यं स्त्री बहुरूपा स्वभावेन ॥१४॥
निजपयिचपलकुराङ्गी परतरुभृङ्गी स्वभावमातङ्गी ।
मिथ्याविभ्रमभृङ्गी कुटिलभुजङ्गी निजा कस्य ॥१५॥
बहुविधतरुणनिरर्गलसंभोगसुखार्थभोगिनी वेश्या ।
धन्येति वदन्ति सदा सोच्छ्वासा निर्जने नार्यः ॥१६॥
चपला तिष्ठति हर्म्ये गायति रथ्यावलोकिनी स्वैरम् ।
धावत्यकारणं वाऌहसति स्फटिकाश्ममालेव ॥१७॥
पशुरिव वक्तुं कर्तुं किंचिदयं मम पतिर्न जानाति ।
उक्त्वेति गृहे स्वजनं पुरुषव्यापारमङ्गना कुरुते ॥१८॥
प्रत्युत्थानं कुरुते व्यवहारगतागतैः स्वयं याति ।
उच्चैर्वदति च गृहे गृहिणी जीवन्मृतस्यैव ॥१९॥
ईर्ष्यालुवृद्धभार्या सेवकपत्नी नियोगिभार्या वा ।
कारुकुशीलवनारी लुब्धवधूः सार्थवाहवनिता वा ॥२०॥
गोष्ठीविहरणशीला तरुणजने वत्सला प्रकृत्यैव ।
परगुणगणने सक्ता निजपतिदोषाभिधायिनी सततम् ॥२१॥
अल्पधना बहुभोगा रूपवती विकृतरूपभार्या वा ।
मुग्धवधूः सकलकलामानवती नीचसंगमोद्विग्ना ॥२२॥
द्यूतमधुपानसक्ता दीर्घकथागीतरागिणी कुशला ।
बहुपुंश्चलीवयस्या शूरजने प्रकृतिपक्षपातैव ॥२३॥
त्यक्तगृहव्यापारा बहुविधवेषा निरर्गलाभ्यासा ।
प्रत्युत्तरसप्रतिभा सत्यविहीना स्वभावनिर्लज्जा ॥२४॥
कुशलानामयवार्ताप्रश्नपरा प्रीतिपेशलालापा ।
विजने विविधकृईडाडम्बरशौण्डा प्रकाशसावित्री ॥२५॥
क्रतुतीर्थसुरनिकेतनगणकभिषग्बन्धुगेहगमनपरा ।
भोजनपानबहुव्यययात्रोत्सवकारिणी स्वतन्त्रेव ॥२६॥
भिक्षुतापसभक्ता स्वजनविरक्ता मनोरमासक्ता ।
दर्शनदीक्षारक्ता दयितविरक्ता समाधिसंयुक्ता ॥२७॥
गोष्ठीरञ्जनमित्रा विज्ञेया नष्टचारित्रा (कुलकम्) ॥२८॥
सततानुरक्तदोषा मोहितजनता बहुग्रहाश्चपलाः ।
संध्याः स्त्रियः पिशाच्यो रक्तच्छायाहराः क्रूराः ॥२९॥
कस्य न वहनयोग्यो मुग्धधियस्तुच्छसाधने लग्नाः ।
प्रीततया प्रशमरुचश्चपलासु स्त्रीषु येऽदान्ताः ॥३०॥
शृङ्गारशौर्यकत्थनमसमञ्जसदानवर्णना विविधाः ।
एतावदेव तासाममन्त्रयन्त्रं वशीकरणम् ॥३१॥
कलिकालतिमिररजनीरजनिचरीणां सहस्रमायानाम् ।
स्त्रीणां नृशम्सचरितैः कस्य न संजायते कम्पः ॥३२॥
निर्जितधनपतिविभवो बभूव भुवि विश्रुतो वणिङ्नाथः ।
धनदत्तो नाम पुरा रत्नानामाश्रयः पयोधिरिव ॥३३॥
तस्याभवद्विभूतिर्मूर्तेव मनोभुवः सुललिताङ्गी ।
तनया नयनविलासैर्विजिताशा वसुमती नाम ॥३४॥
प्रददौ स तामपुत्रः पुत्रपदे विनिहितां प्रियां पुत्रीं ।
वणिजे विभवकुलोदयतुल्याय समुद्रदत्ताय ॥३५॥
रममाणः स तया सह हरिणाक्ष्या श्वसुरमन्दिरे सुचिरम् ।
प्रययौ कदाचिदग्रे द्वीपायातस्य सार्थस्य ॥३६॥
पत्यौ याते तरुणी जनकगृहे हर्म्यशिखरमारूढा ।
विललास विलासमही केलिविलोला सखीभिः सा ॥३७॥
सौधे मन्मथरूपं पृथुनयना पथि ददर्श पुरुषं सा ।
यं दृष्त्वैव गतास्याः क्वापि धृतिः कुमतिकुपितेव ॥३८॥
सा तेन चपलनयना सहसा मुषितेव हारितविचारा ।
अभवदशक्ता नितरां संवरणे स्मरविकारस्य ॥३९॥
शीलं पालस्य चपले मा पातय निम्नगेव कुलकूलम् ।
इति ताम्वददिवोच्चैः कम्पाकुलमुखरमेखला सुचिरम् ॥४०॥
सा कृत्वाऌविदितकथां रहसि सखीमानिनाय तं तरुणम् ।
चलितं हि कामिनीनां धर्तुं शक्नोति कश्चित्तम् ॥४१॥
कामं कामविकासैः सुरतविलासैः सुनर्मपरिहासैः ।
सहजप्रेमनिवासैर्मुमुदे सा स्वैरिणी तेन ॥४२॥
अथ कृतनिजधनकृत्यस्त्वरितं दयिताविलोकनोत्कण्ठः ।
अविशत्समुद्रदत्तः श्वशुरावासं महारम्भः ॥४३॥
विपुलमहोत्सवलीलाव्यग्रजनैर्भोगसंपदां निचयैः ।
अतिवाह्य दिनं दयितासहितः शय्यागृहं स ययौ ॥४४॥
विरचितवरतरशयने बद्धविताने मनोरमस्थाने ।
जृम्भितसौरभधूपे सुरगृहरूपे प्रदीप्तमणिदीपे ॥४५॥
तत्र स मधुमदविलुलितलोचनकमलां प्रियां समालिङ्ग्य ।
मदगज इव नवनलिनीं भेजे रतिलालसः शय्याम् ॥४६॥
सापि हृदयान्तरस्थितपरपुरुषध्यानबद्धलक्षैव ।
तस्थौ निमीलिताक्षी ध्यानपरा योगिनीव चिरम् ॥४७॥
आलिङ्गनपरिचुम्बननीविविमोक्षेषु बहुतरोच्छ्वासा ।
पत्यौ सङ्कुचिताङ्गी सस्मार तमेव शीलहरम् ॥४८॥
प्रणयकुपितेति मत्वा मुग्धपतिस्तां समुद्रदत्तोऽपि ।
प्रणिपत्य चाटुकारैः किमपि ययाचे प्रसादाय ॥४९॥
परपुरुषरागिणीनां विमुखीनां प्रणयकामवामानाम् ।
पुरुषपशवो विमूढा रज्यन्ते योषितामधिकम् ॥५०॥
किं क्रियते कामोऽयं परगतकामः स्वतन्त्रकामश्च ।
धनशतरक्तायामपि संध्यायां भास्करो रागी ॥५१॥
गूढोपवननिकुञ्जे न्यस्तं सा वल्लभं ससंकेतम् ।
संचिन्त्य चिरं स्वपतिं विषमिव संमूर्छिता मेने ॥५२॥
निद्रामुद्रितनयने प्रणयश्रान्ते समुद्रदत्ते सा ।
उत्थाय रचितवेषा शनकैर्गमनोन्मुखी तस्थौ ॥५३॥
चौरः क्षणे च तस्मिन्मुग्धमत्तजनं प्रविश्य तद्भवनम् ।
गमनोत्सुकामपश्यन्मुखराभरणामलक्ष्यस्ताम् ॥५४॥
अत्रान्तरे शशाङ्कः शनकैः सुरराजवल्लभां ककुभम् ।
चकित इवाशु चकम्पे मीलिततरां समालिङ्ग्य ॥५५॥
संकोचितकमलायाः कुमुदविजृम्भाविराजमानायाः ।
प्रससार तुहिनकिरणो यामिन्याः कपटहास इव ॥५६॥
रविपरितापश्रान्तां वीक्ष्य दिवं प्रसरदिन्दुसानन्दाम् ।
जहसुरिव कुमुदवृन्दैरलिकुलकुंकारनिएभरा वाप्यः ॥५७॥
जग्राह रजनिरमणी शशिकरहृततिमिरकञ्चुकावरणा ।
लज्जान्वितेव पुरतः कुमुदामोदाकुलालिपटलपटम् ॥५८॥
सुप्तजनेऽथ निशार्धे चन्द्रालोके च विपुलतां याते ।
तमसीव निर्विशङ्का साऌशनकैरुपवनं प्रययौ ॥५९॥
अथ सा विवेश विवशा विषमशरप्लोषिता निजोपवनम् ।
छन्नं भूषणलोभादनुयाता विस्मितेन चौरेण ॥६०॥
तत्र ददर्श विभूषितमुज्ज्वलललितांशुकं लसत्कुसुमम् ।
शङ्काजनकं विपिने पक्षिभिरुपलक्षितं दयितम् ॥६१॥
हृदयदयितावियोगज्वलनज्वालावलीतप्तम् ।
दिङ्मुखविलसितरुचिना चन्द्रेण करानलैर्दग्धम् ॥६२॥
चिरसङ्केतस्थित्या मुक्ताशं प्रियतमापुनर्मिलने ।
वृक्षालम्बितवल्लीवलयालम्बेन विगलितप्राणम् ॥६३॥
तं दृष्ट्वैव विलीना विलपन्ती व्यसनशोकसंत्रासैः ।
निपपात वल्लरीव क्वणदलिवलयाकुला तन्वी ॥६४॥
संमोहमीलिताक्षी स्थित्वा सुचिरं महीं समालिङ्ग्य ।
शनकैरवाप्तजीवा विललाप लघुस्वरैः स्वैरम् ॥६५॥
हा हा नयनानन्द क्व नु ते विशदेन्दुसुन्दरं वदनम् ।
द्रक्ष्यामि मन्दपुण्या किमिदं क्वाहं क्व मे कान्तः ॥६६॥
इति तरुणकरुणमबला विलप्य पाशं विमुच्य यत्नेन ।
अङ्के धृत्वास्य मुखं चुचुम्ब जीवं क्षिपन्तीव ॥६७॥
सा तस्य वदनकमलं निजवदने मोहिता कृत्वा ।
ताम्बूलगर्भमकरोत्प्रकटितसाकाररागेव ॥६८॥
अथ तस्याः कुसुमोत्करमृगमदधूपादिसौरभाहूतः ।
आविश्य शवकशरीरं नासां चिच्छेद वेतालः ॥६९॥
सा प्राप्य चापलोचितमनयफलं छिन्ननासिका गत्वा ।
भवनं प्रविश्य भर्तुस्तारं हाहेति चुक्रोश ॥७०॥
प्रतिबद्धे सकलजने नादत्रस्ते समुद्रदत्ते च ।
सा नासिका ममेयं भर्त्रा छिन्नेति चक्रन्द ॥७१॥
श्वशुरादिबन्धुवर्गैः पृष्टः कुपितैः समुद्रदत्तोऽपि ।
विक्रीतः परदेशे मूक इवोचे न किंचिदपि ॥७२॥
अथ चास्य सुप्रभाते बन्धुभिरावेदिते नृपसभायाम् ।
तत्राभून्नृपकोपो बहुधनदण्डः समुद्रदत्तस्य ॥७३॥
चौरोऽपि निखिलवृत्तं प्रत्यक्षमवेक्ष्य विस्मयाविष्टः ।
आवेद्य भूपपुरतः प्राप्य च कलयादिसत्कारम् ॥७४॥
उद्याने शववदने तस्यास्तां नासिकां च संदर्श्य ।
निष्कारणसुहृदुचितां शुद्धिं विदधे समुद्रदत्तस्य ॥७५॥
इत्येताः कुटिलतराः क्रूराचारा गतत्रपाश्चपलाः ।
यो नाम वेत्ति स स्त्रीभिर्नैव वञ्च्यते मतिमान् ॥७६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP