कालविलास - सर्ग ७
कालविलास हास्य प्रहसन का एक अत्युत्तम ग्रंथ है ।
अर्थो नाम जनानां जीवितमखिलक्रियाकलापस्य ।
तमपि हरन्त्य् अतिधूर्ताः श्लक्ष्णगला गायना लोके ॥१॥
निःशेषं कमलाकरकोषं जग्ध्वापि कुमुदमास्वाद्य ।
क्षीणा गायनभृङ्गा मातङ्गप्रणयतां यान्ति ॥२॥
घटपटशकटस्कन्धा बहुडिम्भा मुक्तकेशककलापाः ।
एते योनिपिसाचा भूपभुजो गायना लोके ॥३॥
तमसि वराकश् चौरो हाहाकारेण याति संत्रस्तः ।
गायनचौरः प्रकटं हाहाकृत्वैव हरति सर्वस्वम् ॥४॥
पा पा ध ध नि नि ग म सा धा धा मा मा स मा स गा धा मा ।
कृत्वा स्वरपदपालीं गायनधूर्ताश् चरन्त्य् एते ॥५॥
कुटिलावर्तभ्रान्तैः वेषविकारैश् च मुखविकारैश् च ।
गायति गायनसंघो मर्दलहस्तश् चिरं मौनी ॥६॥
आमन्त्रणजयशब्दैः प्रतिपदहुंकारघर्घरारावैः ।
स्वयमुक्तसाधुवादैः अन्तरयति गायनो गीतम् ॥७॥
जलपतिते सक्तुकणे मत्स्यैर्भुक्तेऽस्ति कापि धर्माप्तिः ।
गायनदत्तासु परं कोटिष्वपि नास्ति फललेशः ॥८॥
मुग्धधनानां विधिना रुद्धानामन्धकूपकोषेषु ।
विहितो विवृतमहास्यो गायननामा प्रणालौघः ॥९॥
नैतत् प्रकटितदशना गायनधूर्ताः सदैव गायन्ति ।
एते गतानुगतिकान् हसन्ति धूर्ता गृहीतार्थान् ॥१०॥
प्रातर्गायनधूर्ता भवन्ति धीराः सहारकेयूराः ।
मध्याह्ने द्यूतजिता नग्ना भग्ना निराधाराः ॥११॥
स्तुतिवागुरानिबद्धैः वचनशरैः कपटकूटरचनाभिः ।
गीतैर्गायनलुब्धा मुग्धमृगाणां हरन्ति सर्वस्वम् ॥१२॥
नष्टस्वरपदगीतैः क्षणेन लक्षानि गायनो लब्ध्वा ।
दास्याः सुतेन दत्तं किमिति वदर्दुःखितो याति ॥१३॥
वर्जितसाधुद्विजवरवृद्धायाः सकलशोककलितायाः ।
शापोऽयमेव लक्ष्म्या गायनभोज्यैव यत् सततम् ॥१४॥
देवः पुरा सुराणाम् अधिनाथो नारदं चिरायातम् ।
पप्रच्छ लोकवृत्तं महीतले भूमिपालानाम् ॥१५॥
सोऽवदरवनिपतीनां जयिनां बहुदानधर्मयज्ञानाम् ।
चरता मया नृलोके सुरपतियोग्याः श्रियो दृष्टाः ॥१६॥
ते तु त्वां स्पर्धन्ते विभवैर्वरुणं धनाधिनाथं च ।
शतमखसंज्ञामसकृद् बहुतरयज्ञा हसन्त्य् एव ॥१७॥
श्रुत्वा तर्मुनिवचनं जातद्वेषः शतक्रतुः कोपात् ।
हर्तुं धनं पिशाचान् विससर्ज भुवं नरेन्द्राणाम् ॥१८॥
ते गीतनाममन्त्राः सुरपतिदिष्टाः पिशाचसंघाताः ।
हर्तुं सकलनृपाणां धनमखिलं भूतलं प्रययुः ॥१९॥
मायादासः प्रथमं डम्बरदासश् च वज्रदासश् च ।
झ्[क्ष्?]अयदासलुण्ठदासौ खरहरदासः प्रसिद्धदासश् च ॥२०॥
वाडवदासश् चाष्टौ ते गत्वा मर्त्यलोकमतिभयदाः ।
विवृतास्यघोरकुहरा गायनसृष्टिं ससर्जुरतिविकटाम् ॥२१॥
यैरेतैर्हृतविभवा दिशि दिशि हृत[?]सकललोकसर्वस्वाः ।
यज्ञादिषु भूपतयो जाताः शिथिलोद्यमाः सर्वे ॥२२॥
एते हि कर्णविवरैः प्रविश्य गीतच्छलेन भूपानाम् ।
सहसा हरन्ति हृदयं कर्णपिशाचा महाघोराः ॥२३॥
तस्मारेषां राष्ट्रे न ददाति विकारिणां प्रवेशं यः ।
तस्य सकलार्थसंपद्यज्ञवती भूमिराधीना ॥२४॥
नटनर्तकचक्रचराः कुशीलवाश्चारणा विटाश्चैव ।
ऐश्वर्यशालिशलभाः चरन्ति तेभ्यः श्रियं रक्षेत् ॥२५॥
गायनसंघस्यैक्याद् उत्तिष्ठति गीतनिःस्वनः सुमहान् ।
अस्थाने दत्ताया लक्ष्म्या इव संभ्रमाक्रन्दः ॥२६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP