कालविलास - सर्ग ५
कालविलास हास्य प्रहसन का एक अत्युत्तम ग्रंथ है ।
मोहो नाम जनानां सर्वहरो हरति बुद्धिमेवादौ ।
गूढतरः स च निवसति कायस्थानां मुखे च लेखे च ॥१॥
रौद्रकला इव पूर्णा निष्पन्ना सस्यसंपत्तिः ।
ग्रस्ता क्षणेन दृष्टा निःशेषा दिविरराहुकलयेव ॥२॥
ज्ञाताः संसारकला योगिभिरपयातरागसंमोहैः ।
न ज्ञाता दिविरकला केनापि बहुप्रयत्नेन ॥३॥
कूटकलाशतशिबिरैः जनधनविवरैः क्षयक्षपातिमिरैः ।
दिविरैरेव समस्ता ग्रस्ता जनता न कालेन ॥४॥
एते हि कालपुरुषाः पृथुतरदण्डप्रपातहतलोकाः ।
गणनागणनपिशाचाः चरन्ति भूर्जध्वजा लोके ॥५॥
कस्तेषां विश्वासं यममहिषविषाणकोटिकुटिलानाम् ।
व्रजति न यस्य विषक्तः कण्ठे पाशः कृतान्तेन ॥६॥
कलमाग्रनिर्गतमषी बिन्दुव्याजेन साञ्जनाश्रुकणैः ।
कायस्थखन्यमाना रोदिति खिन्नेव राज्यश्रीः ॥७॥
अङ्कन्यासैर्विषमैः मायावनितालकावलीकुटिलैः ।
को नाम जगति रचितैः कायस्थैर्मोहितो न जनः ॥८॥
मायाप्रपञ्चसंचयवञ्चितविश्वैर्विनाशितः सततम् ।
विषयग्रामग्रासैः कायस्थैरिन्द्रियैर्लोकः ॥९॥
कुटिला लिपिविन्यासा दृश्यन्ते कालपाशसंकाशाः ।
कायस्थभूर्जशिखरे मण्डललीना इव व्यालाः ॥१०॥
एते हि चित्रगुप्ताः चित्रधियो गुप्तहारिणो दिविराः ।
रेखामात्रविनाशात् सहितं कुर्वन्ति ये रहितम् ॥११॥
लोके कलाः प्रसिद्धाः स्वल्पतराः संचरन्ति दिविराणाम् ।
गूढकलाः किल तेषां जानाति कलिः कृतान्तो वा ॥१२॥
वक्रलिपिन्यासकला सकलाङ्कनिमीलनकला ।
सततप्रवेशसंग्रहलोपकला व्ययविवर्धनकला च ॥१३॥
ग्राह्यपरिच्छेदकला देयधनादानकारणकला च ।
उत्कोचैर्हरणकला पर्यन्तभुवं पलायनकला च ॥१४॥
शेषस्थविवेककला चलराशिसमग्रभक्षणकला च ।
उत्पन्नगोपनकला नष्टविशीर्णप्रदर्शनकला च ॥१५॥
क्रयमाणैर्भरणकला योजनचर्यादिभिः क्षयकला च ।
एकत्र पञ्चदश्यां लुण्ठिचिकित्सासमासनकला च ॥१६॥
निःशेषभूर्जदाहाद् आगमनाशश्च पर्यन्ते ।
येन विना व्यवहारी भूर्याग्रहणे निरालोकः ॥१७॥
सकलङ्कस्य क्षयिणो नवनवरूपस्य वृद्धिभाजश्च ।
दिविरस्य कलाः कुटिलाः षोडश दोषाकरस्यैताः ॥१८॥
कूटस्थाः कायस्थाःसर्वनकारेण सिद्धमन्त्रेण ।
गुरव इव विदितमायावृत्तिच्छेदं क्षणेन कुर्वन्ति ॥१९॥
हारितधनपशुवसनः चौर्यभयाद्बन्धुभिः परित्यक्तः ।
बभ्राम महीमखिलां तीव्रव्यसनः पुरा कितवः ॥२०॥
स कदाचिदेत्य पुण्यैः उज्जयिनीं तत्र मज्जनं कृत्वा ।
विचरन्विजने पुरहरमन्दिरमवलोकयामास ॥२१॥
शून्यायतने गत्वा वरदं देवं सदा महाकालम् ।
उपलेपनकुसुमफलैः निर्व्यापारः सिषेवे सः ॥२२॥
स्तोत्रजपगीतदीपैः विपुलध्यानैर् निशासु निर्निद्रः ।
तस्थौ तत्र स सुचिरं दुःसहदौर्गत्यनाशाय ॥२३॥
तस्य कदाचिद्भक्त्या शुभशतकृतया प्रसादितः सहसा ।
भवभयहारी भगवान् भूतपतिः संबभाषे तम् ॥२४॥
पुत्र गृहाणेत्युक्ते देवेन कपालमालिकाशिखरे ।
एकं कपालमसकृत् चक्रे संज्ञां पुरारातेः ॥२५॥
अर्धोक्ते स्थगितवरः संपीडनसंज्ञया कपालस्य ।
तूष्णीं चकार रुद्रो दारिद्र्यात्कितवपुण्यानाम् ॥२६॥
स्नातुं याते तस्मिन् विजने देवः कपालमवदत्तत् ।
दन्तांशुपटलपालीं गङ्गामिव दर्शयन्नग्रे ॥२७॥
अस्य कितवस्य साधोः भक्तस्य चिरस्थितस्य वरदाने ।
कस्मात्त्वया ममैषा विहिता संपीडनैः संज्ञा ॥२८॥
इति भगवता कपालं पृष्टं प्रोवाच सस्मितं शनकैः ।
विषमनयनोष्मविगलन् मौलीन्दुसुधारसैर्जीवत् ॥२९॥
शृणु भगवन्येन मया विज्ञप्तोऽसि स्वभावसरलात्मन् ।
सुलभोऽपि बोध्यते वा निष्कारणमीश्वरः केन ॥३०॥
एष कितवोऽतिदुःखी दारिद्र्याद्विरतसकलनिजकृत्यः ।
प्रासादेऽस्मिन्रचयति लेपनबलिकुसुमधूपार्घम् ॥३१॥
दुःखी भवति तपस्वी धनरहितः सादरो भवति धर्मे ।
भ्रष्टाधिकारविभवः सर्वप्रणतः प्रियंवदो भवति ॥३२॥
अर्चयति देवविप्रान् जपति चिरं वेत्ति निर्धनो मित्रम् ।
कठिनोऽपि लोहपिण्डः तप्तः कर्मण्यतां एति ॥३३॥
व्यसनपरितप्तहृदयः तिष्ठति सर्वः सदाचारे ।
विभवमदमोहितानां कर्मस्मरणे कथा कैव ॥३४॥
ऐश्वर्यार्थी भगवन्न्र्थी आशापाशेन लम्बमानो ऽसौ ।
कुरुते परां सपर्यां प्राप्तार्थो दृश्यते न पुनः ॥३५॥
स्वार्थार्थिनः प्रयत्ता प्राप्तार्थाः सेवकाः सदा विफलाः ।
न हि नाम जगति कश्चित् कृतकार्यः सेवको भवति ॥३६॥
देव प्रासादेऽस्मिन् फलजलकुसुमादिभोगसामग्रीम् ।
पूर्णे याते कितवे विजने नान्ये करिष्यन्ति ॥३७॥
तस्मात्पुण्योपनतं कितवं संरक्ष सेवकं सततम् ।
वरदानमस्य भगवन् निर्वासनमात्मपूजायाः ॥३८॥
श्रुत्वैतद्वक्रतरं वचनं पृथुविस्मयस्मेरः ।
तं पप्रच्छ पिनाकी कस्त्वं तत्त्वेन किं कर्म ॥३९॥
इति पृष्टं पुनरूचे सपदि कपालं विचिन्त्य सद्भावम् ।
मगधानामहमभवं कायस्थकुले स्वकर्मणो विमुखः ॥४०॥
स्नानजपव्रतनिरतः तीर्थरतो विदितसर्वशास्त्रार्थः ।
त्यक्त्वा भागीरथ्यां शरीरकं त्वत्पदं प्राप्तः ॥४१॥
आकर्ण्यवं भगवान् ऊचे कायस्थ एव सत्यं त्वम् ।
चित्रं कौटिल्यकलां न त्यजसि कपालशेषोऽपि ॥४२॥
इत्युक्त्वा स्मितकिरणैः कुर्वन्नाशालताः कुसुमशुभ्राः ।
स्नात्वागताय तस्मै कितवाय वरं ददौ वरदः ॥४३॥
कृत्वा तत्कितवहितं पश्यत एवाशु तस्य शशिमौलिः ।
निष्कासितवांस्तच्छिर उत्तमतममुण्डमालिकापङ्क्तेः ॥४४॥
इत्येवं कुटिलकलां सहजां मलिनां जनक्षये निरताम् ।
यमदंष्ट्रामिव मुञ्चति कायस्थो नास्थिशेषोऽपि ॥४५॥
सुस्थः को नाम जनः सतताशुचिभावदूषितकलानाम् ।
दोषकृतां शकृतामिव कायस्थानामवष्टम्भैः ॥४६॥
असुररचितप्रयत्नाद् विज्ञाता दिविरवञ्चना येन ।
संरक्षैता मतिमता रत्नवती वसुमती तेन ॥४७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP