एकः सकलजनानां हृदयेषु कृतास्पदो मदः शत्रुः ।
येनाविष्टशरीरो न शृणोति न पश्यति स्तब्धः ॥१॥

विजितात्मनां जनानाम् अभवद्यः कृतयुगे दमो नाम ।
सोऽयं विपरीततया मदः स्थितः कलियुगे पुंसाम् ॥२॥

मौनं वदननिकूणनम् ऊर्ध्वेक्षणमन्यलक्ष्यता चाक्ष्णोः ।
गात्रविलेपनवेष्टनम् अग्र्यं रूपं मदस्यैतत् ॥३॥

शौर्यमदो रूपमदः शृङ्गारमदः कुलोन्नतिमदश्च ।
विभवमदमूलजाता मदवृक्षा देहिनामन्ते ॥४॥

शूलारूढसमानो वातस्तब्धोपमोऽथ भूतसमः ।
बहुभोगे विभवमदः प्रशमज्वरसंनिपातसमः ॥५॥

शौर्यमदो भुजदर्शी रूपमदो दर्पणादिदर्शी च ।
काममदः स्त्रीदर्शी विभवमदस्त्वेष जात्यन्धः ॥६॥

अन्तःसुखरसमूर्च्छामीलितनयनः समाहितध्यानः ।
धनमद एष नराणाम् आत्मारामोपमः कोऽपि ॥७॥

उन्मादयत्यविषये विविधविकारः समस्तगुणहीनः ।
मूढमदस्त्वन्योऽयं जयति विचित्रो निरालम्बः ॥८॥

स्तम्भान्न पश्यति भुवं खेचरदर्शी सदा तपस्विमदः ।
भक्तिमदोऽद्भुतकारी विस्मृतदेहश्चलः प्रकृत्यैव ॥९॥

आकोपरक्तनयनः परवाङ्मात्रासहः प्रलापी च ।
विषमः श्रुतमदनामा धातुक्षोभो नृणां मूर्तः ॥१०॥

सततभ्रुकुटिकरालः परुषाक्रोशी हठाभिघातपरः ।
अधिकारमदः पुंसां सर्वाशी राक्षसः क्रूरः ॥११॥

पूर्वपुरुषप्रतापप्रथितकथाविस्मृतान्यनिजकृत्यः ।
कुलमद एकः पुंसां सुदीर्घदर्शी महाज्ञानः ॥१२॥

वर्जितसकलस्पर्शः सर्वाशुचिभावनान्निरालम्बः ।
आकाशेऽपि सलेपः शौचमदो नित्यसंकोचः ॥१३॥

सावधयः सर्वमदा निजनिजमूलक्षये विनश्यन्ति ।
वरमद एकः कुटिलो विजृम्भते निरवधिर्भोगी ॥१४॥

पानमदस्तु जघन्यः सर्वजुगुप्सास्पदं महामोहः ।
क्षणिकोऽपि हरति सहसा वर्षसहस्रार्जितं शीलम् ॥१५॥

विद्यावति विप्रवरे गवि हस्तिनि भूपतौ श्वपाके च ।
मद्यमदः समदर्शी स्वपरविभागं न जानाति ॥१६॥

विगलितसदसद्भेदः समकाञ्चनलोष्टपाषाणः ।
प्राप्तो योगिदशामपि नरके क्षीबः स्वयं पतति ॥१७॥

रोदिति गायति विहसति गायति विलपत्य् उच्चैर् उपैति संमोहम् ।
भजते विविधविकारान् संसारादर्शमण्डलः क्षीबः ॥१८॥

परपतिचुम्बनसक्तां पश्यति दयितां न याति संतापम् ।
क्षीबोऽतिगाढरागं पीत्वा मधु वीतरागः किम् ॥१९॥

विसृजति वसनं दूरे व्यसनं गृह्णाति दुःसहं क्षीबः ।
अञ्जलिपात्रे पिबति च निजमूत्रविजृम्भितं चन्द्रम् ॥२०॥

च्यवनः पुरा महर्षिः यौवनमश्विप्रयोगतो लब्ध्वा ।
यज्ञे स्वयं कृतज्ञः तौ चक्रे सोमपानार्हौ ॥२१॥

क्रुद्धस्तमेत्य शक्रः प्रोवाच मुने न वेत्सि किमपि त्वम् ।
भिषजावपङ्क्तियोग्यो सोमार्हावश्विनौ यस्य ॥२२॥

इति बहुशः सुरपतिना प्रतिषिद्धोऽपि स्वतेजसा च्यवनः ।
न चचाल निश्चितात्मा निजकृत्यादश्विनोः प्रीत्या ॥२३॥

तत्कोपोद्यतवज्रं जम्भारेरायतं भुजस्तम्भम् ।
अस्तम्भयन्मुनीन्द्रः प्रभावसंभावनापात्रम् ॥२४॥

असृजच्च तद्वधाय प्रलम्बकायोपमं चतुर्दंष्ट्रम् ।
योजनसहस्रविपुलं कृत्यारूपं महासुरं घोरम् ॥२५॥

तेनाविष्टः सहसा भीतो वज्री तमाययौ शरणम् ।
सोमोऽस्तु देवभिषजोः इति चोवाच प्रणष्टधृतिः ॥२६॥

मुनिरपि करुणासिन्धुः भीतं प्रणतं महेन्द्रमाश्वास्य ।
मदमुत्ससर्ज घोरं द्यूतस्त्रीपानमृगयासु ॥२७॥

सोऽयमसुरः प्रमाथी मुनिना क्रुद्धेन निर्मितो हृदये ।
निवसति शरीरभाजां स्तम्भाकारो गुणैर्बद्धः ॥२८॥

मौने श्रीमत्तानां निःस्पन्ददृशि प्रवृद्धविभवानाम् ।
भ्रूभङ्गमुखविकारे धनिकानां भ्रूयुगे विटादीनाम् ॥२९॥

जिह्वासु दूतविदुषां रूपवतां दशनवसनकेशेषु ।
वैद्यानामोष्ठपुटे ग्रीवायां गुणिनियोगिगणकानाम् ॥३०॥

स्कन्धतटे सुभटानां हृदये वणिजां करेषु शिल्पवताम् ।
गलपत्राङ्गुलिभङ्गे छात्राणां स्तनतटेषु तरुणीनाम् ॥३१॥

उदरे श्राद्धार्हाणां जङ्घासु च लेखहारपुरुषाणाम् ।
गण्डेषु कुञ्जराणां बर्हे शिखिनां गतेषु हंसानाम् ॥३२॥

इत्येवं मदनामा मदाग्रहो बहुविकारदृढमोहः ।
अङ्गे काष्ठीभूतो वसति सदा सर्वभूतानाम् ॥३३॥

इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे मदवर्णननाम षष्ठः सर्गः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP